________________
mmmmmmmm
mmewana
द्वादशारनयचक्रम्
[ उभयमयारे किमस्माभिर्वाच्यं वृतादीनां पचादीनां वा धातुसंज्ञा प्राप्नोति न प्रामोतीति, वैधये॒ण सर्वेषां धातूनामस्मदभिहितप्रवृत्तिसामान्यक्रियावचनत्वानतिवृत्तेः।।
अत्र ब्रमो वस्तुनः प्रवृत्तरित्यादि, यावद्वैधयेणेति, अवसितप्रयोजनमिदं वचः त्वयैव वस्तुप्रवृत्तेः सर्वप्रवृत्तिविशेषसहिताया एवाभ्यनुज्ञातत्वाद्भावितत्वाच-सम्भावितैवे हि वस्तुप्रवृत्तिः 5 सर्वप्रवृत्तिविशेषात्मिकेत्यतीतविचारेषु विस्तरेण चरितार्थत्वात् कथं ? विशेषवाग्व्यवहारो विशेषान्तरप्रवृत्तिनिवृत्तिविषयो न वस्तुन्यत्यन्तनिर्भेदात्मके प्रभवतीति भावयता भवतैव सुभाषितस्वात्, किमस्माभिर्वाच्यं वृतादीनां पचादीनां वा धातुसंज्ञा प्राप्नोति न प्राप्नोतीति, सर्वेषां धातूनामस्मदभिहितप्रवृत्तिसामान्यक्रियावचनत्वानतिवृत्तेर्वस्तुव्यवहारे शब्दव्यवहारे वेति न किञ्चिन्न प्रसिद्ध्यति, त्वया तु पुनरसदर्थविषयत्वाद्धान्तिज्ञानं शब्दार्थविषयं व्यवस्थापितं वस्त्वसंस्पर्शादित्यलं प्रसङ्गेन ।
प्रकृतमुच्यते
योऽसौ मयाऽऽदावुद्दिष्टो विधिनियमात्मोभयनयः स एष निर्दिष्टः, नैगमदेशत्वाद्रव्यार्थोऽयम् , द्रव्यमपि भावसाधनम् , सैव व्यर्थता, उक्तवत् , पदार्थों द्रव्यक्रिये, वाक्यमाख्यातशब्दः, तदर्थ उक्तोभयभाक्, नयविनिर्गमसूत्रं 'अत्थित्तं अत्थित्ते परिणमति' इति ।
योऽसौ मयाऽऽदावद्दिष्टो विधिनियमात्मोभयनय इति, विधिश्च नियमश्च सर्वत्र 16 द्रव्यं क्रिया चेति विधिनियम द्वन्द्वैकवद्भावात् स एष निर्दिष्टः-प्रत्यक्षीकृतस्ते, केषों पुनरयमार्षाभिहितानां नयानां भेद इत्यत्रोच्यते नैगमदेशत्वाद्रव्यार्थोऽयं न पर्यायार्थः, द्रव्यपर्यायसंगृहीतानां बहुभेदानां द्रव्यार्थभेदेषु नैगमसङ्घहव्यवहारेषु यो नैगमो नैकभेदस्तस्यैवैकदेशोऽयं तद्भेद इत्यर्थः, 'एकेको य सतविधो सत्तणयसता हवंति एमेव' (आ. नि. २२६४) इति वचनात् , द्रव्यशब्दः किं.
10
प्रकृतमुच्यत
" शब्दधर्मप्रकल्पितेत्यादिनन्थेन सम्यग्भावितैवेति भावः । एतदेव प्रकटयति-विशेषेति सततसन्निहितसर्वधर्मात्मकत्वाद्वस्तुनः 20 सहभावादेव विरोधाभावाव्यावर्तकत्वासम्भवेन पचति पठतीति विशेषवारव्यवहार एव गच्छति तिष्ठत्यादिविशेषान्तरवाग्व्यवहार निवर्तयन् पाकादिक्रियासम्बन्ध बोधयतीति निखिलप्रवृत्तिविशेषसाहित्यं वस्तुप्रवृत्तेर्भावितमेवेति भवताऽधुना विचार्य वृतादीनां धातुसंज्ञा प्राप्नोति वा न वेति भावः। वृतादीनामिति तेषां सामान्यप्रवृत्तित्वे पचादीनामपि तथात्वेन धातुत्वं न स्यात् पचादीनामिव विशेषप्रवृत्तित्वे धातुत्वं स्यात् किन्तु देवदत्तादीनामपि धातुत्वं भवेदित्याशयः । सर्वे धातवोऽस्मदभिहितक्रिया
सामान्यवचना इति त्वयापि भावितत्वादेतदंशे आवयोः साम्येऽपि शब्दार्थज्ञानं वस्त्वसंस्पर्शादसदर्थविषयत्वेन भ्रान्तिरूप. 9 मेवेति त्वया भावनाद्विशेष इत्याह-त्वया तु पुनरिति, अबुधबोधनाय शास्त्रमियं प्रकृतिरस्या अयमर्थः अयश्च प्रत्ययोऽस्या
यमर्थ इति, तस्मात् सर्वोऽयं पदपदार्थव्यवहारः काल्पनिकोऽसत्यभूत एव, न परमार्थभूतं निर्विकल्पं स्पृशतीति स्वीकारादिति भावः। तदेवं द्रव्यं क्रिया चोभयं भाव इति यन्नयादौ निदर्शितं तदेव ते निर्दिष्टमित्याह-योऽसाविति । प्रधानभूतसप्तविधनयेषु कुत्रास्यान्तर्भाव इत्यत्राह-नैगमदेशत्वादिति द्रव्य द्वित्वत्रित्वाद्यभ्युपगमभेदेन नैगमस्यापि भेदा व्यक्रियोभयवादस्य नैगम
देशता विज्ञेया, भनेकैर्वादिभिरनेकधा वर्णितानां वस्तूनां द्रव्यपर्यायाभ्यां संगृहीतत्वात् , तन्मध्ये नैगमसंग्रहव्यवहारा द्रव्यार्थभेदाः, 30 तेषु प्रकृतो नयोऽनेकभेदस्य नैगमस्यैकदेशो विज्ञेय इति भावः। एकैकस्य नैगमादेर्नयस्य बहुविधत्वे आगमं प्रमाणयति-एकेको य
सि. क. प्रवृत्तावित्यादि। २ सि. सभावनैव हि वस्तुप्रवृत्तिविशेषात्मिके० । क. सभावनैव हि न वस्तुप्रवृत्तिः सर्वप्रवृत्तिविशेषात्मिके०।३ सि.क. कस्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org