________________
नयोपहारस]
न्यायागमानुसारिणीव्याख्यासमेतम् साधनोऽत्राभिप्रेत इति चेदुच्यते-द्रव्यमपि भावसाधनं यत्तद्भूयते केनापि यो द्रवति गच्छति सततं प्रवर्तते तस्य यद्रवणं गमनं सततप्रवृत्तिः स भावः तद्भवनं, तत्साधनो द्रव्यशब्दः कर्तृसाधनाविनाभाविभावसाधनव्याख्यानस्य सोपपत्तिकस्य विस्तरेण कृतत्वात् , सैव व्यर्थता, उक्तवत्- द्रव्यक्रियात्मव्यर्थता परस्पराविनाभाविनी, करणादीनां तव्यतिरिक्तस्वरूपत्वात् सर्वत्र घटपटादिबीजाङ्करादिषु च सर्वैकात्म्यस्य भावितत्वादिति, पदार्थो द्रव्यक्रिये, उक्तवदिति वर्तते, वाक्यमाख्यातशब्द इति, 5 आख्यातं साव्ययकारकं वाक्यमेकतिङिति च वाक्यं, तदर्थ उक्तो भयभाक्]-वाक्यार्थ उक्तोभयभाक् द्रव्यक्रियाद्व्यात्मकं वस्तु भजते वाक्यार्थ इति विस्तरेणोक्तोऽनेन विधिनियमभङ्गेन नैगमैकदेशेन द्रव्यार्थेन, नयविनिर्गमसूत्रं-'अत्थितं अस्थित्ते परिणमति' (भ. श. १ उ० ३ सू० ३३) इति, अस्तित्वं भावो भावेऽस्तित्वे परिणमति, भावो भाव एव सततं वर्त्तते, परितः समन्तानमति परिणमति तं तं भावमापद्यते तदा कर्तृसहितं वेति ।
___ उभयनयः पञ्चमोऽरः परिसमाप्तः ॥
wwwww
10
इति । एतन्नयानुसारेण द्रव्यशब्दं साधयति-द्रव्यमपीति । भावसाधनमिति मूलकारोक्तभावपदार्थमाह-यत्तद्भूयत इति, अनेन भावशब्दस्य भावे व्युत्पत्तिरादर्शिता, अथकतरिव्युत्पत्तिं दर्शयति-यो द्रवतीति । पूर्वमपि व्युत्पत्तिरादर्शिता समर्थिता चेत्याह-कर्तृसाधनेति । द्रव्यं भवतीति विशेषणविशेष्यभावोपगमात् द्रवतीति द्रव्यमिति प्रकृतिप्रत्ययार्थभेदोपगमाच द्रव्यक्रियोभयातायाः पूर्व वर्णितत्वं सूचयति-सैवेति । पदस्यार्थमाह-पदार्थ इति । वाक्यं दर्शयति-वाक्यमिति 15 'आख्यातशब्दो नियतं साधनं यत्र गम्यते । तदप्येकं समासार्थ वाक्यमित्यभिधीयते ॥' इति वाक्यपदीये, यथा वर्षती. त्याख्यातशब्दमात्रे प्रोक्त देवो जलमिति कर्तृकर्माक्षेपात् परिपूर्णार्थत्वे यथा वर्षति देवो जलमिति वाक्यं तथा तदप्येकं पदं परिपूर्णार्थ वाक्यमेवाभिधीयत इति तदर्थः । व्याचष्टे-आख्यातमिति आख्यातमिति पदस्य साव्ययकारकमिति विशेषणा. द्विविष्टस्य वाक्यतावगतेर्मूलानुगुणं न प्रतिभाति, आख्यातं साव्ययकारकविशेषणमेकतिङिति च वाक्यमिति वार्तिककारादीनां लक्षणान्तरत्वेन वाक्यपदीयप्रकाशव्याख्यायां शङ्कितत्वात् । कोऽत्र नये वाक्यार्थ इत्यत्राह-तदर्थ इति द्रव्यक्रियासंघातो 20 वाक्यार्थः, वृक्ष इति वा तिष्ठतीति वा केवलात् नामपदादाख्यातपदाद्वा वृक्षस्तिष्ठतीत्यादिविशिष्टार्थप्रतीतेः, प्रागुपपादितत्वात्, न चैकस्यैव वृक्ष इति नामपदस्य तिष्ठतीयाख्यातपदस्य वा वाक्यत्वे वृक्षस्तिष्ठतीत्युभयोपादानमनर्थकमिति शवयम्, विशिटार्थप्रत्यायकस्य केवलस्य वृक्ष इति शब्दस्य वृक्षस्तिष्ठतीति शब्दस्य चान्यत्वात्, केवलं सादृश्यादेव वृक्षस्तिष्ठतीति वाक्यैकदेशं वृक्षशब्दमभिमन्यते, एवं च वृक्षशब्दमात्रप्रयोगादपि विशिष्टार्थप्रतीतेवृक्षस्तिष्ठतीत्युपादानमफलमेव, लोके शब्दप्रयोगे लापवानादराच क्वचिदृक्ष इति क्वचिच्च वृक्षस्तिष्ठतीति च प्रयुज्यते, वृक्षशब्दमात्रप्रयोगाच तिष्ठतीति प्रतिनियतार्थप्रतीतिरर्थप्रकरणादितो 25 भवतीति नानियतार्थबोध इत्येवं विस्तरेण पूर्वमुपपादितमिति सूचयति-विस्तरेणेति । एतन्नयमूलभूतमागमं प्रदर्शयति-नयविनिर्गमसूत्रमिति । भावव्युत्पत्त्यभिप्रायेणाह-भावो भाव एवेति । कर्तृव्युत्पत्तिप्रदर्शितार्थमाह-परित इति ॥
इति विजयलब्धिसूरिविरचिते विषमपदविवेचने नयचक्रस्य पञ्चमोऽर उभयनयः समाप्तः ॥
१ सि. क. °कारकवाक्यमेकमिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org