________________
WdtabbuWMWW
षष्ठो विधिनियमविधिः
-- - एवं विधिनियमभङ्गारे द्रव्यक्रियात्मकवादे संहृते षष्ठनय आह
नन्वेवमुभयमप्यवस्तु, अनुपपन्नस्वावस्थत्वात् खपुष्पवत् , स्वा अवस्थाः स्थित्युत्पत्तिविनाशा द्रव्यस्य वा स्युः क्रियाया वा, ता यदि भावस्य ततो द्रव्यमनवस्थमिति द्रव्यप्रभेदा• सम्भवः खपुष्पस्येव, ततश्च सर्वप्रभेदनिर्भेदं बीजमिति द्रव्यलक्षणहानिः ।
नन्वेवमित्यादि, विचाराश्रयं दोषापादनसाधनम् , उभयमपि-द्रव्यं क्रिया चेति, अवस्तु, अनुपपन्नवावस्थत्वात्- अनुपपन्नाः स्वा अवस्था अस्य तद्भावात् , अनुपपनस्वावस्थत्वात् , खपुष्पवदिति, कास्ता अवस्थाः ? उच्यते स्वा अवस्थाः स्थित्युत्पत्तिविनाशाः, ताश्च द्रव्यस्य वा स्युः क्रियाया वा, किश्चातः ? ता यदि भावस्य-ताः स्थित्यादयः प्रागुक्ततथा[भवनाविना]भूतसन्निहितवस्तुत्वव्यक्तिलक्ष10 णायाः क्रियाया इष्यन्तेऽवस्था इति, ततो द्रव्यमनवस्थं प्राप्तम् , अवस्थालक्षणत्वादुभयोरन्यतरकल्पनावे
यादवस्थाव्यतिरिक्तलक्षणाभावात् , भवतु द्रव्यमनवस्थं को दोष इति चेदुच्यते द्रव्यमनवस्थमिति द्रव्य. प्रभेदासम्भवः प्राप्तः, इतिशब्दस्य हेत्वर्थत्वादनवस्थत्वादित्यर्थः, द्रव्यप्रभेदा रूपादिगत्यादिविवर्ताः ते न सम्भवन्त्यनवस्थत्वात् असत्त्वात् , खपुष्पस्येव, ततश्च यदुक्तं द्रव्यस्य लक्षणं [तस्य हानिः, कतमस्येति चेदुच्यते-सर्वप्रभेदनिर्भेदं बीजमित्यस्य, तस्मानास्ति द्रव्यमनवस्थत्वात् खपुष्पवत् ।
16 अथास्याप्युभयस्य परस्परनिरपेक्षखातंत्र्ये द्रव्यभावयोरनुपपन्नस्थित्युत्पत्तिविनाशवावस्थयोरभावत्वं खपुष्पवदतः परतः
खतश्च तब्यक्त्याकृत्याख्यं गुणप्रधानभावेन द्रव्यादि सत् परतः सत्तादि खत इत्यसदपि भवतीति विधिनियमे विधीयते इति विधिनियमविधिदर्शनमुत्थापयति-एवं विधिनियमभङ्गार इति । पूर्वपक्षे दोषं साधनद्वारेणापादयति-नन्वेवमिति, द्रव्यक्रिययोः परस्परनिरपेक्षखातंत्र्येऽवस्तुत्वं प्रसज्यत इत्यर्थः । साधनार्थमाह-अनुपपन्ना इति, अस्य-उभयस्य द्रव्यक्रियात्मनः । पूर्वनये सम्मूञ्छितसर्वप्रभेदनिर्भेदं बीजं द्रष्यमिति द्रव्यलक्षणम् , तथाभवनाविनाभूतसन्निधिवस्तुत्वव्यक्तिः 20 क्रियेति च क्रियालक्षणमुक्तम्, तत्र स्थित्युत्पत्तिविनाशलक्षणा अवस्थाः कस्याभ्युपगम्यन्ते किं क्रियायाः,आहोखित् द्रव्यस्येल्ला- शंक्यान्यतरस्य तदङ्गीकारे उभयोरवस्तुत्वं प्रतिपादयितुं वादिभुखेन प्रश्नमुच्चारयति-किचात इति, ता द्रव्यस्य क्रियाया वा
भवन्तु तेन किं नः छिन्नमिति भावः । दोषमुद्धरति-ता यदीति । तथाभूतेति पचिपठिगम्यादिक्रियाविशेषरूपेण भवनयोग्यतया यत् यत्र शक्त्यात्मना सन्निहितं सद्व्यक्तीभवति तथाविधा क्रियेति भावः । अवस्थावत्त्वमेव द्रव्यस्य क्रियायाश्च लक्षण
नान्यत् , तत्रैकस्यावस्थावत्त्वेऽपरस्य चातथात्वे तथाविधस्य कल्पनैव व्यर्था, लक्षणाभावादित्याह-अवस्थेति । द्रव्यस्यानव25 स्थत्वे ततो रूपादिप्रभेदाः पचिपठ्यादिक्रियाप्रभेदाश्च न स्युरित्याह-द्रव्यमनवस्थमितीति । रूपगत्यादिविवर्ता इति एकस्य तत्त्वादप्रच्युतस्य निष्क्रियस्य सक्रमस्येव प्रकाशनं विवर्त्तः, तथा चाप्रविभागमपि द्रव्यं समाविष्टसर्वशक्तिदेशकालाभ्यां प्रविभक्तमिव चकास्तीति तत्प्रविभागानुसारेण जन्मनाशौ समस्तक्रियाभेदानुयायिनौ व्यावहारिकाविति यदभिमन्यते तन्न सङ्गच्छते द्रव्यस्यानवस्थत्वेन खपुष्पस्येवासत्त्वादिति भावः । द्रव्यस्य लक्ष्य स्याभावादेव तल्लक्षणमपि नोपपन्नमित्याह-ततश्चेति । सर्वप्रभेदाश्रयस्य खतः खरूपेण समवस्थानरूपस्य सर्वबीजभूतस्य द्रव्याख्यस्यानवस्थत्वेऽपि यद्यभ्युपगम्यते तर्हि तत् क्रियैव स्यात्
सि. क. अनवस्था।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org