________________
५६९
www
द्रव्यक्रियाऽभावः] न्यायागमानुसारिणीव्याख्यासमेतम्
ततः किं प्राप्तम् ?भाव एव तु स तथाभूत आपद्यते, तद्भेदस्य तदात्मकत्वात् , मृद्वत् ।
भाव एवेति, भाव एव तु स तथाभूत आपद्यते-द्रव्यं क्रियैवापद्यते, कस्मात् ? तद्भेदस्य तदात्मकत्वात् , स्थित्युत्पत्तिविनाशा हि द्रव्यभेदाभिमता द्रव्यस्यैव[] भेदात्मनो भवन्ति तत एतद
दापन्नं क्रियाया आत्मेति, क्रियैव च द्रव्यं संज्ञामात्रभेदात् , मृद्वदिति दृष्टान्तः, यथा मृद्भेदाः । पिण्डशिवकादयो मृदात्मकाः सन्तो मृद्रूपा एव, तथा स्थित्यादयो द्रव्यभूतभावभेदा एवेति द्रव्याभावेऽर्थापत्त्या स्थित्यादयः क्रियाभेदा इत्यापन्नाः । ____ यदपि च कल्पितं प्रवृत्तिसामान्यव्यतिरेकेण कारकवत्या ओदनादिफलोदेशिन्याः परिग्रहार्थ विशेषग्रहणं तदपि न कार्यम् , कस्मात् ?
प्रवृत्तिभाववचनात्तु मत्पक्षे प्रवृत्तावेव व्यतिरेकसम्भवः, तस्माद्भावादेव सर्वस्य प्रकृत-10 त्वाद्रव्यं भाव इत्येतत्त्यागाद्वयविभागवचनं व्यर्थम् , ततश्च विभागेन लक्षणाभावात्तयोरभावः खपुष्पवत् तदभावात् क्रिया कुतः? तथाभवनक्रियासन्निधिलक्षणं द्रव्यं प्रवृत्तिसामान्यश्च कुतः! तथाभवनविनाभूतत्वात् खपुष्पवदेवेति सर्वनिर्मूलता चैवम् , अव्यक्तिरप्यसन्निहितत्वात् खपुष्पवत् ।
(प्रवृत्तिभावेति) प्रवृत्तिभाववचनात्तु मत्पक्षे प्रवृत्तावेव व्यतिरेकसम्भवः-प्रवृत्तिसामान्यमेव 15 भाव इत्युक्तत्वात् विशेषास्तत्रैव सम्भवन्ति ततोऽस्य व्यतिरेकसम्भवात् , यदप्योदनादिफलं तदपि] प्रवृत्तिसामान्यमेव, तस्माद्भावादेव-क्रियाया एव सर्वस्य प्रकृतत्वात् द्रव्यं भाव इत्येतत्त्यक्तम् , तत्त्यागाहयविभागवचनं व्यर्थ-द्रव्यं क्रिया च वस्त्वित्युभयाभ्युपगमो मूलत एव विघटते, ततश्च तथाभवनेन प्रवृत्तिलक्षणेन विना भूतस्य सन्निधानमपि निर्मूलम् , ततश्च द्वे अपि द्रव्यक्रिये विभक्ते न
सर्वप्रभेदानामात्मभूतत्वात् पिण्डशिवकादीनां भेदानां मृदात्मकानां आत्मभूतस्य मृद्वदित्याह-भाव एव विति, स इति 20 तच्छब्देन द्रव्यं परामृश्यते, विधेयप्राधान्यात् पुल्लिङ्गता ।हेतुमाह-तद्भेदस्यति द्वितीयतत्पदेन क्रियाया ग्रहणम् , कृष्णगौरपीतादयः पचिपठ्यादयो मेदाभिमताः स्थित्युत्पत्तिविनाशलक्षणा अभेदात्मनो द्रव्यस्यैवाभिमताः, तस्मात्तेषामात्मा द्रव्यं, द्रव्याभावे ते च क्रियाया एव भवेयुः, केवलं संज्ञाभेदाश्रयेणेव द्रव्यमित्युच्यते भवद्भिर्न त्वर्थभेदः कश्चिदिति भावः । दृष्टान्तमाह-यथेति, अथवा द्रव्यभेदत्वेनाभिमताः कृष्णादयः पच्यादयश्च क्रियात्मका दृष्टा इति तदात्मभूतस्यापि कियात्वं युक्तमिति भावः। ननु भवदेव भवति प्रवर्त्तमानमेव हि मृदादि केनचिद्धर्मेण पिण्डशिवकादिभावेन भवति नाप्रवर्तमानं 25 किञ्चित् ,भवनं प्रवृत्तिः कियेति पर्यायत्वात् , अप्रवृत्तभवनस्य कस्यचिदभावात् , तस्मात्तेन तेन प्रकारेण परिणममान प्रवर्तमान वस्तु भवतीत्युच्यत इत्युक्तत्वात् प्रवृत्तेरेव विशेषसम्भवो न तु सर्वप्रभेदनिर्भेदादीजा व्यादप्रवृत्तिलक्षणादित्याशयेनाहप्रवृत्तिभाववचनाविति, प्रवृत्तेरेव भावत्वोक्तरित्यर्थः । तदेव व्याचष्टे-प्रवृत्तिसामान्यमेवेति । प्रवृत्तेरेव मेदाभ्युपगमे द्रव्यभावयोरुभयोरभ्युपगमस्त्यक्तव्य एव, तथा च सति द्रव्यं क्रिया चेत्युभयं वस्त्विति विभागो नार्थवानित्या चष्टे-तस्माद्धावादेवेति । एवञ्च तव द्रव्यं तथाभवनाविनाभूतसन्निधिमद्वस्तु न भवति पचिपठ्यादिरूपेण यद्भवनं प्रवृत्तिः 30 तेन विनाभूतत्वात् , द्रव्यस्य च तथाभवनाविनाभूतसन्निधिमत्त्वाभावेन तथाविधसन्निधिवस्तुत्वव्यक्तिलक्षणा क्रियापि
१ सि. क. भेदात्मानो। २ क. सर्वस्येष्टकृतत्वात् ।
द्वा० न० ३४ (७२) Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org