________________
विशेषसहितसामान्यता] न्यायागमानुसारिणीष्याख्यासमेतम्
यत्तु पुनः पचादिविशेषनिवर्तकत्वाद्धृतादयो धातुसंज्ञा भवन्तीत्युक्ते नैव निवर्तयन्ति पचादीन् वृतादयो विरोधाभावाच्च वृताद्यन्तर्भावात् पचादीनामतो न धातुसंज्ञा वृतादयः स्युरित्याशंक्य तत्प्रतिसमाधानं पुनरुच्यते निवृत्तिरत्रास्माभिर्नार्थधर्मप्रकल्पिता विवक्षिता, किं तर्हि ? पचतीत्यादिशब्दधर्मप्रकल्पिता सा विज्ञानप्रवृत्तिनिवृत्तिमात्रकृता, यथा देवदत्ते सर्वधमसम्बन्धिन्यपि पचति देवदत्त इत्युक्ते गच्छति तिष्ठत्यस्ति शेत इत्यादिक्रियाकलापं निवर्त्य । देवदत्तं पचतिशब्दो पचनक्रिययैव सम्बन्धयति, तद्विषयकविज्ञानाधानहेतुत्वात् , अयश्च धर्मो वृतादीनामप्यविशिष्ट इति ।
यत्तु पुनरित्यादि यावदयश्च धर्मो वृतादीनामप्यविशिष्ट इति, पचादिविशेषनिवर्तकत्वाद्धृतादयो धातुसंज्ञा भवन्तीयुक्ते परस्याशङ्का स्यात्-नैव निवर्त्तयन्ति पचादीन् वृतादयो विरोधाभावाच्च वृताधन्तर्भावात् पचादीनामतो विशेषनिवर्त्तकत्वाभावात् न धातुसंज्ञा वृतादयः स्युरित्याशंक्य तत्प्रतिसमा-10 धानं पुनरुच्यते न वयं वस्तुन्यसहभावतानिवृत्तिं ब्रूमः-निवृत्तिरत्रास्माभिर्नार्थधर्मप्रकल्पिता विवक्षिता, किं तर्हि ? शब्दधर्मप्रकल्पिता विवक्षिता, अर्थगता हि निवृत्तिरसहभावजनिता घटपटादिवदेकत्रासम्भवात् , शब्दगता तु विज्ञानप्रवृत्तिनिवृत्तिमात्रकृता सा देवदत्ते सन्निहितसत्ताद्रव्यत्वगतिस्थितिवृत्त्यवृत्त्यादिसर्वधर्मसम्बन्धिन्यपि-गच्छति देवदत्त इत्युक्ते तिष्ठत्यास्ते शेते इत्यादिक्रियाकलापं निवर्त्य देवदत्तं गच्छतिशब्दो गमनेनैव सम्बन्धयति, तद्विषयैकविज्ञानाधानहेतुत्वात् , न तथा वस्तुनिवृत्तिः सम्भवति 15 सततसन्निहितसर्वधर्मात्मकत्वाद्देवदत्तस्य, तदुदाहरति-किं तर्हि ? पचतीत्यादि गतार्थमुदाहृतार्थसम्भवादि दार्टीन्तिकोऽर्थः, अयश्च धर्मो वृतादीनामप्यविशिष्टो वर्त्तत ईहते चेष्टत इत्यादयोऽपिशब्दाः क्रियान्तरनिवृत्तिविज्ञानावसानधर्माणो न वस्तुगतान् धर्मानिवर्तयितुमलम् , शब्दानां बुद्धिप्रवृत्तिनिवृतिक्रियायां प्रभुत्वात् , वस्तुप्रवृत्तिनिवृत्त्युत्तरप्रवृत्तत्वादिति ।
अत्र ब्रूमः वस्तुनः प्रवृत्तेः सर्वप्रवृत्तिविशेषसहिताया एवाभ्यनुज्ञातत्वाभावितत्वाच 20 मात्रप्रत्यवमर्शजनकत्वात् सर्वत्राविहतप्रवृत्तित्वाञ्च सर्वनाम स्यादिति प्रतिभाति । प्रकारान्तरेण वृतादीनां समर्थितं धातुत्वं दूषयितुं समर्थनप्रकारमेव तावदाह-यत्तु पुनरिति, वृतादयः पचादिविशेषान्न निवर्तयन्ति सर्वभेदपर्यनुभवनात्मकत्वात् नित्यप्रवृत्तेः, अन्यथा प्रवृत्तिविशेषानात्मकत्वे गच्छत्यादिव्यापिता तस्या न स्यात्तस्मादतादेर्गच्छत्यादिना विरोधाभावादन्तर्भावितसर्वक्रियाभेदत्वाद्धातुसंज्ञा न स्यात् , परस्परविरुद्धयोरेव ह्येकोपादानेनान्यनिवृत्तिर्भवेत् , शीतोष्णयोरिव गच्छति तिष्ठत्यादेरिवेति शङ्कार्थः । तत्र वैयाकरणानां समाधानं प्रकटयति-तत्प्रतिसमाधानमिति । वस्तुन्यनेकनिमित्तसन्निधानादेव सर्वभेदानां सहभावानार्थाः परस्परं निवर्तयन्ति, तस्मान्निवृत्तिर्नार्थधर्मप्रकल्पिता, किन्तु योग्यशब्दनिवन्धनविवक्षानियमाश्रयेणेत्याशयेनाह-निवृत्तिरत्रेति। वस्तुन्यनेकधर्मसम्बन्धिन्यपि शब्दानां खशक्तिवैचित्र्यात् किञ्चिदेव तत्र प्रवर्तकम् , यथा देवदत्तादेः तक्षणच्छेदनाद्यनेकक्रियासन्निधानेऽपि तक्षणमाश्रित्य तथाविधविवक्षावशात्तक्षाऽयमित्यभिधानं कुम्भादिकरणप्रयुक्तभ्रमणनिमित्तं कुम्भकारोऽयमित्यभिधानं प्रवत्तते निवर्त्तते च तदेतरक्रियानिमित्तो व्यपदेशस्तथेति दर्शयति-देवदत्त इति । एवं वदतात्वयाऽस्मदभिमतस्यैव विशेषसहितस्यैव सामान्यस्य समर्थितत्वाद्वतादीनां पचादीनां धातुसंज्ञा प्राप्नोति न वा प्राप्नोतीति त्वयैव विचार्यमित्युपसंहरति नयवादमममू-80 अत्र ब्रूम इति । कथं भावित इत्यत्राह-सम्भावितैव हीति, निवृत्तिरत्रास्माभिर्नार्थधर्मप्रकल्पिता किं तर्हि ? पचतीत्यादि
१.सि. क. यत्र पुनः। २ सि. क. 'भावश्च । ३ सि. क. वृताद्यं च भावात् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org.