________________
5
द्वादशारनयचक्रम्
[ उभयनय
विशेषत्वाभावादुभयत्र परिहारे विशेषग्रहणा [न]र्थक्यदेवदत्त क्रियात्ववृताद्यक्रियात्वदोषास्तदवस्था एवेति, तदुपसंहरत्येवञ्च कृत्वा प्रवृत्तिमात्र स्येत्यादि गतार्थं यावदनर्थकमुभयोरपि व्याख्याविकल्पयोरिति, एवं तावद्विशेषग्रहणमनर्थकम् ।
५६४
न केवलमनर्थकमेव किं तर्हि ? अनर्थार्थमपीत्यत आह
न चाफलमेव, अनिष्टकृदपि, एवं देवदत्तस्य क्रियात्वं स्यात्, अन्यनिवर्त्तनप्रवृत्तिविशेषत्वात्, पचादिवृतादिवदिति, येऽप्यमीवृतादयस्तेऽपि अक्रियास्तच्छन्दानामधातुसंज्ञा च स्यात्, सर्वभेदसम्बन्धानुगुणविशेषत्वादेवदत्तवदेव ।
न चाफलमेवानिष्टकृदपीति, तदनिष्टकृत्त्वं साधनेनैव भाव्यते - एवं देवदत्तस्य क्रियात्वं स्यात्, अन्यनिवर्त्तनप्रवृत्तिविशेषत्वात् पचादिवृतादिवदिति, प्रवृत्तिविशेषत्वमन्यत्वं तन्निवर्त्तनश्चेति द्रव्या• 10 दन्यस्य प्रवृत्तिसामान्यव्यतिरिक्तस्यार्थस्याभावादेवायुक्तमभ्युपगम्यापि दोषः - देवदत्तः क्रिया स्यात्, अन्यनिवर्त्तनत्वे सति विशेषप्रवृत्तित्वात् से गच्छत्यादिविशेषनिवर्त्तनो यज्ञदत्तादिविशेषनिवर्त्तनश्च सामान्यत्वात्, , उपादीयमानत्वे सत्यन्यनिवर्त्तनत्वात् प्रवृत्तिविशेषश्च ततश्च पचत्यादिवद्वर्त्तत्यादिवच्च क्रिया, क्रियात्वात्तद्वाचिनः शब्दस्य धातुसंज्ञा पूर्वप्रक्रान्तन्याय क्रमेण पचत्यादिवद्वृतादयः तद्वद्देवदत्तादय इति सर्व क्रियैवेत्यापन्नं, अनिष्टञ्चैतदावयोरिति, येऽप्यमी वृतादयस्तेऽप्यक्रियाः, तच्छब्दानामधातुसंज्ञेत्यादि, 16 सर्वभेदसम्बन्धानुगुणविशेषत्वाद्देवदत्तवदेव, पचादीनाञ्च गमनादिसर्वधात्वर्थव्यापित्वस्य प्रागुपपादितत्वात् सिद्धहेतुत्वात् साधीयः साधनमिदमपि चशब्दसूचितत्वादनन्तरोदाहृत द्विविध क्रियाकविशब्दप्रकृतत्वाश्च सर्वनामशब्दता च स्यात् ।
wwwwwwwww
wwwwwwwwww
,
सामान्यव्यतिरेकेण विशेषाभावादुपादीयमानं विशेषपदं न किमपि व्यावर्त्तयति, सर्वेषां प्रवृत्तिसामान्यरूपत्वात् खपुष्पादिविशेषाणां खपुष्पादिकल्पविशेषाणां वा प्रवृत्तिविशेषत्वाभावादिति भावः । विशेषपदस्य वैयर्थ्यमेव केवलमत्र न दोषोऽपि तु 20 अनिष्टकरत्वमपीत्याह-न चाफलमेवेति । यद्यपि द्रव्यादन्यन्नास्ति, प्रवृत्तिसामान्यव्यतिरिक्तमपि किञ्चिन्नास्ति तथापि सम्प्रति ते अभ्युपगम्यापि दोष उच्यत इत्याह-प्रवृत्तिविशेषत्वमिति । सामान्यं हि विशेषादन्यत्, अत एव देवदत्तादिव्यं गच्छत्यादिक्रियाविशेषान् यज्ञदत्तादिद्रव्यविशेषांश्च निवर्त्तयति, तच्च गृह्यमाणं सदन्यानि निवर्त्तयतीति प्रवृत्तिविशेषोऽपि अतश्च पचत्यादिवत् अन्यनिवर्त्तनत्वे सति विशेषप्रवृत्तित्वात् वृतादिवदुपादीयमानत्वे सत्यन्यनिवर्त्तनत्वाच्च देवदत्तादि द्रव्यं क्रिया स्यादित्याह- देवदत्त इति । द्रव्यक्रियोभयनिवर्त्तकत्वं तस्य कथमित्यत्राह - सामान्यत्वादिति सामान्यं हि विशेषमात्रं निवर्त्तय25 तीति भावः । किञ्च वृतादीनामपि सर्वभेदसम्बन्धानुगुणत्वेऽपि विशेषत्वाद्देवदत्तादिवदक्रियात्वेन धातुत्वं न स्यादित्याह - येऽप्यमीति । ननु वृतादेः सर्वभेदसम्बन्धानुगुणत्वमसिद्धमिति शङ्कायामाह - पचादीनाञ्श्चेति । प्रागुपपादितत्वादिति सततसम्प्रवृत्तितादात्म्यानतिक्रमात् पूर्वोत्तरव्यक्त्यव्यक्तिभवनैकत्वादित्यादिहेतुभिरिति भावः । सर्वनामशब्दता चेति, इह प्रवृत्तिः वैश्वरूप्यमापद्यमाना खजात्यनतिक्रमेणैव वर्तते तथापि प्रतिक्षणं पचिपठिगमनादिस्वधर्माणामनुवृत्तिः, एवञ्च प्रवृत्तिसामान्यानुगमात् सर्वावस्थाखियं प्रवृत्तिरित्येषां कारणं भवन्ती प्रवृत्तिसामान्यतामासादयति, तत्र च सर्वविशेषान्तर्भावात् सर्वनामेव सर्वनाम 30 व्यवहियते, तदादिसर्वनाम हि वस्तुमात्र प्रत्यवमर्शजनकं सर्वत्राविहतप्रवृत्ति च तथा पचादीनामपि सर्वविशेषान्तर्भावेण वस्तु
I
१ सि. क. भावादेवेत्युक्तम् । २ सि. स गच्छत्यादिविशेषत्वात् सगच्छनिवर्त्तन० । ४ सि. क. ।
Jain Education International 2010_04
For Private & Personal Use Only
३. सि. क. 'निवर्त्तनयो ।
www.jainelibrary.org