________________
विशेषग्रहणवैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
५६३ यथा च तत्रोच्यते नैष दोष इत्यादि, एवं दोषेऽभिहिते स्यान्मतं प्रवृत्तिसामान्यनिवृत्त्यर्थविशेषग्रहणप्रयोजनदोषं परिहरामीति विशेष इति भवतः क सम्प्रत्ययः ? इति प्रश्नोपक्रमं दोषवादिनैव परिहारमभिधापयिष्यतस्ते दोषवादी किल ब्रूयात्-य उपादीयमानोऽन्यं निवर्त्तयतीति परो ब्रूयात् यद्येवं वृतादयोऽप्युपादीयमाना विशेषान् निवर्तयन्तीति, तैर्हि गच्छत्यादयो विशेपा निवर्त्यन्ते न गच्छति न शेते न भुक्ते वर्तत एवास्ति भवति विद्यत एव केवलमिति, तस्मादुपादीयमाना गमनादीन् विशेषान् । निवर्तयन्ति वृतादयस्तिष्ठत्यादिवत् , तथा चोक्तं भाष्यकारेण 'सामान्यमपि यथा विशेषस्तद्वत्' (महाभा० अ०१ पा० २ सूत्रे २४) इति ज्ञापकमिदमिति, वर्त्तत्यादिविशेषोपादीयमानत्वे विशेषनिवृत्तिहेतुत्वात् तिष्ठत्यादिनिवृत्तिहेतुगच्छत्यादिवत् , ततश्चैषां सिद्धा धातुसंज्ञा-वृतादीनामिति, यथा तत्र प्रवृत्तिसामान्यनिवृत्त्यर्थे विशेषग्रणे परिहार एवमिहापि प्रत्युच्यते-द्रव्यनिवृत्त्यर्थेऽपि विशेषग्रहणे परिहार उच्यते, प्रत्युच्येत सर्वदा सर्वभावानां प्रवृत्तिसमन्वयाद्देवदत्त इत्यपि नाप्रवृत्तिकं वस्तु तस्मात्तन्निवृत्यर्थं सर्वभेदस-10 म्बन्धानुगुण्यात्तु नायं विशेष इत्येतदर्थेऽपि विशेषग्रहणे देवदत्तस्य क्रियात्वं स्यात् , वृतादीनां तद्वदक्रियात्वात् [धातु] संज्ञा मा भूत् , स्वशब्दोपादानसिद्धतादवचनानर्थक्यश्चेत्या] दिदोषापादने कृते स एव परिहार उच्यते त्वया, विशेष इति भवतः क सम्प्रत्यय इत्यादि यावत् सिद्धा धातुसंज्ञा, एवं परिहारद्वयेऽपि समानमिदमुत्तरमुच्यते-एवञ्चोच्यमाने नन्वस्मद्धृदय एव दृष्टं-नन्वित्यनुज्ञापने-अनुज्ञातं त्वयैतद्यदस्मद्धदयक्षेत्र उप्तस्य दर्शनबीजस्य त्वद्वचनसलिलसेकेन फलमभिव्यक्तं, तद्विवृणोति स्मारयन्-नन्वस्मा- 15 भिरप्यभिहितं प्रवृत्तिरेव प्रवृत्तिविशेष इति-यदुच्यते वृतादिसामान्यमुपादीयमानं गमनादिविशेष निवर्तयतीति तद्यज्येत यदि वृतादिसामान्यव्यतिरेकेण गमनादिविशेषः स्यात् , स तु सामान्यमेवेत्युक्तम् तस्मान्न सामान्यविशेषाभावात् उपादीयमानं विशेषानिवर्तयितुमर्हति, खपुष्पादिविशेषाणि च तत्प्रवृत्ति
wwwwwwwwm
क्रियात्वे वृतादीनां धातुत्वं न स्यात् तेषां प्रवृत्तिविशेषाबोधकत्वादिति वदतो भवतो विशेषपदेन किमभिप्रेतमिति दोषवादिनैव परिहारमभिधापयितुकामो भाष्यकारो वादिनं पृच्छतीत्याह-स्यान्मतमिति, उक्तं हि भाष्यकृता 'कां पुनः क्रियां भवान् मत्वाह- 20 अस्तिभवतिविद्यतीनां धातुसंज्ञा न प्राप्नोतीति । परोक्ति प्रकटयति-य उपदीयमान इति, उक्ता हि भाष्यकृता परोक्तिः 'न ब्रूमः कारकाणि क्रियेति, किं तर्हि ? कारकाणां प्रवृत्तिविशेषः क्रिया, अन्यथा हि कारकाणि शुष्कौदने प्रवर्त्तन्ते, अन्यथा च मांसौदने' इति। तामेव युक्तिं भाष्यकार: वृतादौ दर्शयति-यद्येवं वृतादय इति उक्तं च भाष्यकृता 'यद्येवं सिद्धाऽस्तिभवतिविद्यतीनां धातुसंज्ञा, अन्यथा हि कारकाण्यस्तौ प्रवर्तन्तेऽन्यथा हि म्रियतौ' इति । तिष्ठत्यादिवदिति, उक्तं हि भाष्ये 'एवं तर्हि क्रियायाः क्रिया निवर्तिका भवति द्रव्यं द्रव्यस्य निवर्तकम् , एवं हि कश्चित् कञ्चित् पृच्छति किमवस्थो देवदत्तस्य व्याधिरिति 23 स आह-वर्द्धत इति, अपर आह-अपक्षीयत इति,अपर आह स्थित इति, स्थित इत्युक्ते वर्द्धतेश्चापक्षीयतेश्च निवृत्तिर्भवति' इति, एवं च किया क्रियान्तराद्यावर्त्तमाना प्रवृत्तिविशेष उच्यते तद्वाचिनश्च धातुत्वम् , तथाच स्थित्यादयः क्रियाः क्रियान्तरनिवर्तकत्वात् तिष्ठत्यादिनिवर्तकगच्छत्यादिवत् , वैधयेण द्रव्यवत् , द्रव्यं हि द्रव्यस्य निवर्तकं न तु क्रियान्तरस्य, सर्वभेदसम्बन्धानुगुण्यादिति भावः। एवञ्च सामान्यस्य विशेषत्वादपि द्वितीयव्याख्यायां देवदत्तादेव्यस्यापि प्रवृत्तिविशेषत्वाद्धातुत्वं प्रसज्यत इत्याह-एवमिहापीति।सर्वस्यापि प्रवृत्तिमात्रत्वात सामान्यव्यतिरिक्तविशेषाभावात् विशेषपदव्यावाभावेन तद्भहणं व्यर्थमिति यदुक्तमस्माभि-30 स्तदेव त्वयापि प्रकटीकृतमिति द्वयोरपि व्याख्ययोस्तद्दोषतादवस्थ्यमुद्भावयति-एवञ्चोच्यमान इति । उपसंहरति-तस्मादिति
१ सि. क, भावतः । २ सि. क. हारमेवेहापि । सि. क मुत्तरमिदमु०। ४ सि. °चातप्रवृ.।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org