________________
५६२ द्वादशारनयंचक्रम्
[उभयनयारे प्राप्नोति क्रियावचनानामेव धातुत्वात् तेषाञ्चाक्रियात्वात्-प्रवृत्तिविशेष[स्य] क्रियात्वादित्येष दोषः यथा तत्र प्रवृत्तेः सामान्यनिवृत्त्यर्थे विशेषग्रहणे, तथेहापि देवदत्तादिधातुत्वनिवृत्त्यर्थे विशेषग्रहणे वृतादीनां धातुसंज्ञा नैव प्राप्नोति किं कारणं ? अक्रियावचनत्वात् , देवदत्तवत् , तदर्थस्याक्रियात्वादक्रियावचनत्वम् , तदर्थस्याक्रियात्वं सर्वभेदसंबन्धानुगुण्यात् , स वा देवदत्तः क्रिया स्यात् सर्वभेदसम्बन्धानुगुणत्वात्, 5 वृतादिवत्, अनिष्टश्चेतदिति, किश्चान्यत्-प्रवृत्तिसामान्यनिवृत्त्यर्थे देवदत्तादिद्रव्यनिवृत्त्यर्थे च विशेषग्रहणे द्विधाप्यस्वशब्दोपादानसाध्यभावादिलक्षणमुक्तिवचनञ्चानर्थकं स्यात्-यदुक्तमस्वशब्दोपादानसाध्यभावो भावलक्षणं, भावादिग्रहणात् स्वशब्दोपादानसिद्धभावः सत्त्वमिति लक्षणमुक्तित एव पृथगिति[न] वस्तुनोऽपि, लिङ्गसंख्यादिमदलिङ्गसंख्यादित्वेन द्वयोः पृथक्त्वं तथा त्रिकालात्रिकालविषयत्वं भूता
भूतभेद इत्यादिपृथक्त्वलक्षणवचनमनर्थकं द्वयोरपि क्रियात्वादिति । 10 यथा च तत्रोच्यते नैष दोषः, विशेष इति हि भवतः क्व सम्प्रत्ययः? य उपादीयमा
नोऽन्यं निवर्तयतीति परो ब्रूयात् यद्येवं वृतादयोऽपि उपादीयमाना विशेषान्निवर्तयन्ति तैर्हि गच्छत्यादयो विशेषा निवर्त्यन्ते न गच्छति न शेते न भुंक्ते वर्तत एवास्ति भवति विद्यत एव केवलमिति, तिष्ठत्यादिवत् , यथाचोक्तं भाष्यकारेण 'सामान्यमपि यथा विशेषस्तद्वदिति',
(महा० अ०१पा०२ सू०२४) ततश्चैषां सिद्धा धातुसंज्ञेति यथा तत्र प्रवृत्तिसामान्यनिवृत्त्यर्थे 18 विशेषग्रहणे परिहार एवमिहापि प्रत्युच्यते, एवञ्चोच्यमाने नन्वस्मद्धृदय एव दृष्टं फलमभिव्य
कम् , नन्वस्माभिरप्यभिहितं प्रवृत्तिरेव प्रवृत्तिविशेष इति, एवञ्च कृत्वा प्रवृत्तिमात्रस्य सर्वत्र भावात् विशेषग्रहणमनर्थकमुभयोरपि व्याख्याविकल्पयोः।
सामान्यप्रवृत्तिबोधकानां प्रवर्त्तत इत्यादीनां धातुत्वं न स्यादिति भावः। द्वितीय विशेषग्रहणप्रयोजनमपि दूषयति-तथेहापीति । कृते विशेषग्रहणे देवदत्तादीनां सर्वविशेषाधारतया सामान्यप्रवृत्तिरूपत्वान्न धातुत्वं यथा तथैव वृतादिसामान्यप्रवृत्तिबोधकधातूनां 20 धातुत्वं न स्यात् , तद्बोध्यप्रवृत्तेः सर्वविशेषाधारतया सामान्यरूपत्वेन प्रवृत्तिविशेषखरूपक्रियात्वाभावादित्याह-अक्रियावचनस्वादिति । सामान्यप्रवृत्तेरक्रियात्वे हेतुमाह-तदर्थस्येति वृतादिधात्वर्थस्येत्यर्थः, सर्वे ये भेदा विशेषास्तत्सम्बन्धमनुभवितुं योग्यत्वादिति हेत्वर्थः । सर्वभेदसम्बन्धानुगुणस्यापि वृतादेर्धातुत्वे देवदत्तादीनामपि धातुत्वमत एव स्यादित्याह-स वेति । प्रवृत्तिसामान्यस्य देवदत्तादेर्वा व्यावर्त्तनाय भवतु नाम विशेषग्रहणम् , उक्तरीत्या तयोरपि क्रियात्वात् , साध्यत्वेनावशब्दोपादानसाध्य
भावो भावः, स्वशब्दोपादानसिद्धभावो द्रव्यम् , अलिङ्गसंख्यादिमान् भावः, लिङ्गसंख्यादिमव्यम् , अत्रिकालविषयो भावः त्रिका25 लविषयं द्रव्यं भूतो भावः, अभूतं द्रव्यमित्यादिरूपेण द्रव्यभावस्वभावभेदवर्णनमुक्तिमात्रत एव भिन्नं न तु वस्तुनोर्भेदः, ततश्च
तथोक्तिरनर्थिकैवेत्याह-किश्चान्यदिति । भावादिग्रहणादिति साध्यभावादीत्यत्रादिग्रहणादित्यर्थः । वादिना सह भाष्यकारेण विचारद्वारेण समर्थितं वृतादीनां धातुत्वं निराकर्तुं भाष्यकृदुक्तिप्रकार प्रदर्शयति-यथा चेति । प्रवृत्तिविशेषलक्षणे यदृतादावव्याप्तिरुच्यते तन्नैष दोषः सम्भवति, यतः विशेषपदस्य कमर्थमभिप्रत्य भवान् दोषमाचष्टे इति भाष्यकारः पृच्छति-विशेष
इतीति । व्यावृत्तिमान् विशेषपदार्थ इत्याशयं वक्ति वादी-य उपादीयमान इति । वृतादयोऽपि व्यावर्तयन्त्येवान्यानिति कुतो न 30 तेषां धातुत्वमिति भाष्यकार आह-यद्येवमिति । द्वितीयविशेषग्रहणप्रयोजनव्याख्यानेऽपि देवदत्तादीनां धातुत्वं दुर्वारम् , तेषा
मप्युक्तरीत्या प्रवृत्तिविशेषत्वादिति दोषमभिधाय मूलकार उभयोरपि व्याख्ययोर्दोषमाह-एवमिहापीति । ननु प्रवृत्तिविशेषस्य
१ सि.क. नवृतादी।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org