Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
५७०
द्वादशारजयचक्रम्
wwwma
[विधिनियमविधिः स्तः ततस्तयोर्लक्षणमनुपपन्नं ततश्च विभागेन लक्षणाभावात्तयोरभावः खपुष्पवत्, तदभावात् क्रिया कुतः ? तथाभवनक्रियासन्निधिलक्षणं द्रव्यं प्रवृत्तिसामान्यश्च कुतः ? तथाभवनविनाभूतत्वात् खपुष्पवदेवेति, सर्वनिर्मूलता चैवमिति सन्निधिनिमूलत्वात् , क्रियाया व्यक्तिर्भेदानामव्यक्तिश्च [कुतः] तया विनेत्यत आह-अव्यक्तिरप्यसन्निहितत्वात् खपुष्पवत् ।
अथोच्येत भावस्य स्थित्युत्पत्तिलयाः कल्पनामात्राः सन्निहिततथाभूतवस्तुतत्त्वव्यक्ति द्रव्यमेवोक्तवत् , ताश्च क्रिययाऽभिव्यक्ति नीयन्त इत्यत्रोच्यते, एवं तर्हि सर्वप्रभेदनिर्भेदत्वमसत्यं द्रव्यस्य, क्रियायाश्चाक्रियात्वम् , सन्निहिततथाभूतवस्तुतत्त्वव्यतिकरत्वाभावात् , ततश्वाशेषपक्षध्वंसित्वमनुपपन्नस्वावस्थत्वात् ।
अथोच्यतेत्यादि, स्यान्मतं भावस्य प्रागुक्तवत् स्थित्युत्पत्तिलयाः कल्पनामात्राः समनन्त10 रोक्तदोषदर्शनात् सन्निहितॆतथाभूतवस्तुतत्त्वव्यक्ति द्रव्यमेवोक्तवत् सस्मूर्छितसर्वप्रभेदस्थित्यादिखावस्थैन्तु, ताश्च स्थित्याद्यवस्थाः क्रिययाऽभिव्यक्तिं नीयन्त इत्यत्रोच्यते, एवं तर्हि सर्वप्रभेदनिर्भेदत्वमसत्यं द्रव्यस्य-ते स्थित्यादिभेदा द्रव्यस्यैव संवृत्ता इति निर्भेदत्वोक्तिया॑हन्यते, किश्चान्यत् क्रियायाश्वाक्रियात्वम् , सन्निहिततथाभूतवस्तुतत्त्वव्यक्तिः क्रियेष्यते, ते हि भेदाः क्रिययाऽभिव्यज्यन्ते चेद्भेदाः प्रागपि क्रियाभिव्यक्तः सन्ति, तथाभूतत्वात् क्रियाया व्यक्तिकरत्वाभावस्तस्माचाव्यञ्जनात् क्रिया 10 द्रव्यवत् खरविषाणवद्वा न क्रियेति, ततश्च द्रव्यस्याद्रव्यत्वात् क्रियायाश्चाक्रियात्वादशेषपक्षध्वंसित्वमनुपपन्नस्वावस्थत्वात् द्रव्यस्य क्रियायाश्च खपुष्पवदभाव इति ।
Aaramwww
नास्तीत्याशयेनाह-ततश्च विभागेनेति । तथाविधे द्रव्ये भेदानामव्यक्तिः पूर्व ततश्च व्यक्तिः क्रियत इति यदुच्यते तदपि न सर्वदैवाव्यक्तिप्रसङ्गात् क्रियाया अभावादित्याह-क्रियाया व्यक्तिरिति । ननु नास्त्यनेकक्षणव्यापिनी काचित् क्रिया, यस्याः स्थित्युत्पत्तिलयाख्यास्तिस्रोऽवस्था भिन्नक्षणभाविन्यो भवेयुः, किन्तु पचतिपठत्यादिक्रियाविशेषेषु क्रमरूपताध्यासेन क्रियासामा20 न्याध्यासः, न तु सर्वविशेषक्रियानुस्यूताऽनध्यस्ता विशेषव्यतिरिक्ता वस्तुभूता क्रियासामान्यवाच्या विद्यते, अध्यस्तत्वादेव य
एव विशेषास्त एव सामान्यमप्युच्यन्ते, अत एव किं करोतीति प्रश्न पचति पठतीत्यादि प्रतिवचनं सङ्गच्छते, अन्यथा सामान्य प्रश्ने विशेषेण प्रतिवचनमसङ्गतं स्यात्, अत एव विशेषवचना अपि कृभ्वस्तय इत्युच्यन्ते, तस्मात् स्थित्युत्पत्तिलयाः क्रियासामान्यस्य कल्पिता एव, तस्य कल्पितत्वात् , अपि तु द्रव्यस्यैव ते इति द्वितीयविकल्पशङ्कायाः प्रतिविधानमाचष्टे-अथोच्येतेति।पूर्वपक्षमेव व्याचष्टे-स्यान्मतमिति, द्रव्य एव तादृशशकेरवस्थितत्वात् तत्रैव तादृशशक्तेः क्रिययाऽभिव्यक्तेश्च द्रव्यस्यैव स्थित्युत्पत्तिविनाशलक्षणा अवस्थाः,न तु कल्पितस्य क्रियासामान्यस्येति भावः। उक्तवदिति,प्रोक्तावस्थावदित्यर्थः, अमुमेवार्थमाह-सम्मूच्छितेति सम्मूर्छिता:-संसृष्टा अविनिभागेन सर्वे प्रभेदाः स्थित्यादिखावस्थारूपा यस्मिंस्तदिति विग्रहः। द्रव्यस्यैव सन्निहिततथाभूतवस्तुतत्त्वव्यक्तिरूपत्वे तस्यैव तथा तथा भावात् निर्भेदत्वं न संभवतीति तस्य सर्वप्रमेदनिर्भेदत्वोक्तिरना स्यादित्युत्तरयतिएवं तहीतिक्रियालक्षणस्योक्तस्य द्रव्य एवाभ्युपगमात्, क्रियायातल्लक्षणविरहेण क्रियात्वं न स्यादित्याह-किश्चान्यदिति । क्रियायास्तल्लक्षणमप्यसम्भवीत्याह-सन्निहितेति ते रूपादिपच्यादिभेदाः पूर्व वस्तुनि सन्निहिताः क्रियया तेऽभिव्यज्यन्त १० इति यदीष्यते तर्हि क्रियाया नाभिव्यञ्जकत्वं सन्निहितत्वादेव, अभिव्यजकत्वञ्चोत्पादकत्वमुत्पत्तिश्चासत एवेति क्रिया न क्रिया
स्यादनभिव्यजकत्वात् द्रव्यवत् , खरविषाणवदा, एवञ्चानवस्थत्वाव्यमद्रव्यमनभिव्यजकत्वात् क्रियाऽक्रिया चापन्नेति तवाशेषपक्षस्य विनाशित्वमेव भवेदित्याह-ते हि भेदा इति । सर्वपक्षध्वंसभयादेव द्रव्यस्याद्रव्यत्वं क्रियाया अक्रियात्वं नेच्छति तर्हि
१क.xx।२ सि.क.स्वावस्थस्तु ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350