Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 302
________________ ५६९ www द्रव्यक्रियाऽभावः] न्यायागमानुसारिणीव्याख्यासमेतम् ततः किं प्राप्तम् ?भाव एव तु स तथाभूत आपद्यते, तद्भेदस्य तदात्मकत्वात् , मृद्वत् । भाव एवेति, भाव एव तु स तथाभूत आपद्यते-द्रव्यं क्रियैवापद्यते, कस्मात् ? तद्भेदस्य तदात्मकत्वात् , स्थित्युत्पत्तिविनाशा हि द्रव्यभेदाभिमता द्रव्यस्यैव[] भेदात्मनो भवन्ति तत एतद दापन्नं क्रियाया आत्मेति, क्रियैव च द्रव्यं संज्ञामात्रभेदात् , मृद्वदिति दृष्टान्तः, यथा मृद्भेदाः । पिण्डशिवकादयो मृदात्मकाः सन्तो मृद्रूपा एव, तथा स्थित्यादयो द्रव्यभूतभावभेदा एवेति द्रव्याभावेऽर्थापत्त्या स्थित्यादयः क्रियाभेदा इत्यापन्नाः । ____ यदपि च कल्पितं प्रवृत्तिसामान्यव्यतिरेकेण कारकवत्या ओदनादिफलोदेशिन्याः परिग्रहार्थ विशेषग्रहणं तदपि न कार्यम् , कस्मात् ? प्रवृत्तिभाववचनात्तु मत्पक्षे प्रवृत्तावेव व्यतिरेकसम्भवः, तस्माद्भावादेव सर्वस्य प्रकृत-10 त्वाद्रव्यं भाव इत्येतत्त्यागाद्वयविभागवचनं व्यर्थम् , ततश्च विभागेन लक्षणाभावात्तयोरभावः खपुष्पवत् तदभावात् क्रिया कुतः? तथाभवनक्रियासन्निधिलक्षणं द्रव्यं प्रवृत्तिसामान्यश्च कुतः! तथाभवनविनाभूतत्वात् खपुष्पवदेवेति सर्वनिर्मूलता चैवम् , अव्यक्तिरप्यसन्निहितत्वात् खपुष्पवत् । (प्रवृत्तिभावेति) प्रवृत्तिभाववचनात्तु मत्पक्षे प्रवृत्तावेव व्यतिरेकसम्भवः-प्रवृत्तिसामान्यमेव 15 भाव इत्युक्तत्वात् विशेषास्तत्रैव सम्भवन्ति ततोऽस्य व्यतिरेकसम्भवात् , यदप्योदनादिफलं तदपि] प्रवृत्तिसामान्यमेव, तस्माद्भावादेव-क्रियाया एव सर्वस्य प्रकृतत्वात् द्रव्यं भाव इत्येतत्त्यक्तम् , तत्त्यागाहयविभागवचनं व्यर्थ-द्रव्यं क्रिया च वस्त्वित्युभयाभ्युपगमो मूलत एव विघटते, ततश्च तथाभवनेन प्रवृत्तिलक्षणेन विना भूतस्य सन्निधानमपि निर्मूलम् , ततश्च द्वे अपि द्रव्यक्रिये विभक्ते न सर्वप्रभेदानामात्मभूतत्वात् पिण्डशिवकादीनां भेदानां मृदात्मकानां आत्मभूतस्य मृद्वदित्याह-भाव एव विति, स इति 20 तच्छब्देन द्रव्यं परामृश्यते, विधेयप्राधान्यात् पुल्लिङ्गता ।हेतुमाह-तद्भेदस्यति द्वितीयतत्पदेन क्रियाया ग्रहणम् , कृष्णगौरपीतादयः पचिपठ्यादयो मेदाभिमताः स्थित्युत्पत्तिविनाशलक्षणा अभेदात्मनो द्रव्यस्यैवाभिमताः, तस्मात्तेषामात्मा द्रव्यं, द्रव्याभावे ते च क्रियाया एव भवेयुः, केवलं संज्ञाभेदाश्रयेणेव द्रव्यमित्युच्यते भवद्भिर्न त्वर्थभेदः कश्चिदिति भावः । दृष्टान्तमाह-यथेति, अथवा द्रव्यभेदत्वेनाभिमताः कृष्णादयः पच्यादयश्च क्रियात्मका दृष्टा इति तदात्मभूतस्यापि कियात्वं युक्तमिति भावः। ननु भवदेव भवति प्रवर्त्तमानमेव हि मृदादि केनचिद्धर्मेण पिण्डशिवकादिभावेन भवति नाप्रवर्तमानं 25 किञ्चित् ,भवनं प्रवृत्तिः कियेति पर्यायत्वात् , अप्रवृत्तभवनस्य कस्यचिदभावात् , तस्मात्तेन तेन प्रकारेण परिणममान प्रवर्तमान वस्तु भवतीत्युच्यत इत्युक्तत्वात् प्रवृत्तेरेव विशेषसम्भवो न तु सर्वप्रभेदनिर्भेदादीजा व्यादप्रवृत्तिलक्षणादित्याशयेनाहप्रवृत्तिभाववचनाविति, प्रवृत्तेरेव भावत्वोक्तरित्यर्थः । तदेव व्याचष्टे-प्रवृत्तिसामान्यमेवेति । प्रवृत्तेरेव मेदाभ्युपगमे द्रव्यभावयोरुभयोरभ्युपगमस्त्यक्तव्य एव, तथा च सति द्रव्यं क्रिया चेत्युभयं वस्त्विति विभागो नार्थवानित्या चष्टे-तस्माद्धावादेवेति । एवञ्च तव द्रव्यं तथाभवनाविनाभूतसन्निधिमद्वस्तु न भवति पचिपठ्यादिरूपेण यद्भवनं प्रवृत्तिः 30 तेन विनाभूतत्वात् , द्रव्यस्य च तथाभवनाविनाभूतसन्निधिमत्त्वाभावेन तथाविधसन्निधिवस्तुत्वव्यक्तिलक्षणा क्रियापि १ सि. क. भेदात्मानो। २ क. सर्वस्येष्टकृतत्वात् । द्वा० न० ३४ (७२) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350