Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 284
________________ wwwmniwwwmom असद्वाचिनां भावार्थत्वम्] न्यायागमानुसारिणीव्याख्यासमेतम् चानुत्पद्यमानस्थितिर्गतिनिवृत्तिरिति, तथा च कल्प्यमानायामनुत्पद्यमानस्थितौ गतिनिवृत्तौ गतिस्थित्याद्येकभूतं भवनं प्रागुक्तन्यायकं तेनाविनाभूतं द्रव्यं तस्य विनाशोऽत्यन्तमभावस्तद्विषयं स्थानमित्यभिधानं स्यात्, न चैवं द्रव्यस्य कूटस्थनित्यत्वाद्भवितुमर्हति, तस्मादेव च-तदनिष्टभयात् प्रतिपत्तव्यं गतिनिवृत्तिः स्थिति भावस्तथा खपुष्पादिश्चेति, तदुपसंहरति-तस्माद्गत्यभावलक्षितेत्यादि गतार्थम् । अनन्तरं खपुष्पादिरपि प्रसङ्गतोऽमिहित: अभाव इति च भावादन्यो भावविशेषः, अब्राह्मणक्षत्रियादिवत् , एवं खपुष्पाद्यसत्त्ववाचिशब्दानां भावार्थत्वम् वक्ष्यते चास्योदाहरणम् । (अभाव इति) योऽसावभावाभिमतस्तत्राप्यभाव इति नापदार्थ उच्यते, किं तर्हि ? नत्रः पर्युदासवाचित्वाद्भावादन्योऽभाव इति भावविशेषः, अब्राह्मणक्षत्रियादिवत् , एवं खपुष्पाद्यसत्त्ववाचिशब्दानां भावार्थत्वम् , एवमसद्भावाभिमतेष्वपि सदर्थविषयत्वमिति न्यायव्यापितां दर्शयति-वक्ष्यते चा- 10 स्योदाहरणमतिदेशस्य । इदं तावत् प्रकृतं भाव्यते यथा तिष्ठति पचतीत्यन्यथाभवनं प्रवृत्तिसामान्यं भवनं नातिवर्त्तते तथा विनश्यति प्रध्वंसते नितिष्ठतीत्यादयोऽपि, येऽप्यत्यन्ताभावाभिमताः खपुष्पादिशब्दवाच्यास्तेषामपि न तु स्थितेरनुत्पद्यमानतालक्षणाऽवस्थेत्युच्येत तथा च गत्यविनाभूतद्रव्यविनाश एव स्थितिरिति स्यात् कूटस्थनित्यस्य द्रव्यस्येदृशी 15 अवस्था कथं सङ्गच्छेतेति भावः । गतिस्थित्यादीति गतिभवनेन स्थितिभवनेन वा केनचिदेकेन भवनेनाविनाभूतं द्रव्यं भवति, द्रव्यञ्च गमनस्थानादिसर्वप्रमेदानुभवनात्मकमिति पूर्व समर्थितमेव, स्थितेर्गमनाभावरूपत्वे तु गमनाविनाभूतद्रव्यनिवृत्तिरेव स्थितिरिति स्यात्तच्च द्रव्यस्य कूटस्थनित्यस्य न सम्भवतीति भावः । एवञ्च गतिनिवृत्तिः स्थित्यात्मा भाव एवाभ्युपेय इत्याहतस्मादेव चेति । गत्यभावलक्षितेति, अत्रापि मूलं नोपलभ्यते । गत्यभावेन लक्षिता या भावभूता स्थितिस्तदविना भाव्येव द्रव्यमिति भावः स्यादिति प्रतिभाति । ननु 'नजिव युक्तमन्यसदृशाधिकरणे' इति न्यायात्, अभाव इत्यत्र भावसादृश्यस्य 20 भावान्ये भावनम् , गतिनिवृत्त्यादिवद्भावनिवृत्तेरेव प्रतीतेरसतो भावान्यभावत्वासम्भवादित्याशङ्कायामाह-अभाव इति चेति. निरुपाख्ये व्यामोहाद्भावतत्त्वसमारोपे तत्त्वाध्यवसायात् भावादन्योऽभाव इति नञ् प्रयुज्यते भावादन्योऽसाविति बोधयितुम् , यथा ब्राह्मणसत्ताविषया बुद्धिर्यदा कुतश्चित् क्षत्रिये प्रसज्यते तदाब्राह्मणशब्दः प्रयुज्यते, सोऽयं मिथ्याध्यवसायो यदा तत्त्वज्ञानान्निवर्त्तते तदा ननः प्रयोगः, अब्राह्मणोऽयं क्षत्रिय इति क्षत्रियपदसामानधिकरण्यात्तदवगतिः नायं ब्राह्मणो मिथ्या त्वेवमवसितः, किन्तु पर्युदासवाचित्वान्ननः तत्सदृशो ब्राह्मणोऽयमिति सदृशः क्षत्रियादिरेवाब्राह्मणशब्दार्थो न लोष्टादिः समारोपनिबन्धनस्य 25 सादृश्यादेरभावात् , तथा निरुपाख्येऽपि बुद्ध्या निरूपितमाकारान्तरमवलम्ब्य भावशब्दप्रयोगात् तत्त्वज्ञाने तु तन्निवर्त्तनाय नमः प्रयोग इति भावः । सर्व एव शब्दा गुणसमुदाये वर्तन्त इति पक्षे जातिगुणक्रियालक्षणगुणसमुदायस्यैव शब्दात् प्रतीतेः सामान्यभ. वनमाश्रित्य खपुष्पादौ सामान्य विशेषवाचिभावशब्दप्रयोगप्रसङ्गेऽभावपदं प्रयुज्यते, तत्प्रयोगे च खपुष्पादौ यो विशेषो नास्ति तस्यैव निवृत्तिः प्रतीयते, अवशिष्टस्य च सद्भावोऽवगम्यत इत्याशयेन व्याचष्टे-योऽसाविति,अभावाभिमतः खपुष्पादिः, तत्राप्य पदेन नापदार्थो बोध्यते, किन्तु भावविशेषस्यैव निषेधः प्रतीयत इति भावविशेषादन्यो भावविशेष एव खपुष्पादिरिति भावः । 30 दृष्टान्तमाह-अब्राह्मणेति, ब्राह्मणशब्दः विद्याविनयादिसम्पन्नब्राह्मणत्वजातिमति प्रसिद्धः, तंत्र ब्राह्मणत्वजातिरहिते क्षत्रियादौ विद्याविनयादिगुणाश्रयेण ब्राह्मणशब्दप्रवृत्तिप्रसङ्गे ना तदेकदेशाप्रवृत्तिता बोध्यत इति भावः । खपुष्पादेभोवत्वं कथमित्यत्राहवक्ष्यते चेति, अनुपदमेवेति भावः । अथ विशेषभवनानि सामान्यभवनं नातिवर्तन्त इत्यादर्शयति-यथा तिष्ठतीति । १ सि. क. खपुष्पादिसव. । २ सि. वक्ष्येचा । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350