Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 287
________________ ५५४ wwwwwwinm द्वादशारनयचक्रम् [उभयनयारे यथा मुँजिरेवेत्यादि यावत् प्रकारमात्रं भिद्यत इति, अशनपानखाद्यस्वाद्यादिद्रव्यभेदेन कांस्यपाध्यां पाणी शरावे वेति क्षेत्रभेदेन प्रथमद्वितीयग्रासादिना दिनरात्र्यादिना वा कालभेदेन तीनमन्दक्षुधितग्लानौषधस्वस्वरसायनादिभावेन च प्रकारमात्रेणैव भिद्यते न भुजित्वेन, न हि तेषु प्रकारभि श्रेषु कश्चिद जिर्भवत्यक्रिया वा, किन्तु सर्वोऽप्यसौ भुजिरूपानतिक्रमाद्भुजिरेव, अथवा परस्परता 5. प्रकारमात्रभेदाद्भिद्यते, सामान्यप्रवृत्तिरेव प्रवृत्तिविशेषो वर्तते, अस्त्यर्थस्य सर्वगतिस्थित्यादिभेदात्मक त्वात् , एवं गतिस्थित्योरस्तियात्योर्वेति विरोधिभावप्रादुर्भावोऽपि सामान्यभवनस्यैव प्रकारमात्रभिन्नस्य विस्पन्दितमिति, तन्निगमयति-सर्वैव चासाविति यावत् क्रियैव, तस्मादस्तिभवतिविद्यतिपद्यतिवर्त्ततीनामेकार्थत्वात् प्रकारभेदाच्च ततोऽ[न]न्यसामान्यप्रवृत्तिविशेषो भुजिसामान्यमात्रप्रकारभिन्नभुजिविशेषवदिति । किश्चान्यत् एवञ्च भुजिगतिस्थितिपच्यादीनामपि तथा तथा सर्वभावव्यापिता भाषतिजानातिश्वेतत्यादीनामपि पूर्वोत्तरव्यक्त्यव्यक्तिभवनैकत्वादेव च, पूर्वमभाषमाणो गच्छन् तिष्ठन्नुदासीनो वा पश्चाद्भाषते, तथा पश्यति जानातीच्छति द्वेष्टि प्रयतते स्मरतीत्यादिषु तुल्यश्चर्चः। एवश्चेत्यादि, न केवलमस्त्यादय एव सर्वधात्वर्थव्यापित्वात् सामान्यप्रवृत्तिमात्रभावनायां 16 निदर्शनम् , किं तर्हि ? भुजिगतिपच्यादीनामपि तथा तथा सर्व[भावव्यापिता, भुक्तेस्तावत्-भुजेरभ्यव हरणार्थस्योपयोगपर्यायत्वात् उपयोगस्यापत्त्यर्थत्वादापत्तेः परिणामार्थत्वात् परिणामस्य वृत्तिसत्ताभव. नार्थत्वात् , तथा गतिरपि सर्वभावव्यापिनी गमनचलनस्पन्दनपरिणामाँयेकार्थत्वात् , द्रवति द्रोष्यति दुद्रावेति दुः, द्रोर्विकारो द्रव्यं द्रव्यश्च भव्ये द्रव्यं सदैव गत्यात्मकं विपरिणामात्मकमित्यर्थः, आर्योऽपि यथा 'पोग्गले णं भंते ! किं एयति वेयति चलति फंदति खोभति खुभति तं तं भावं परि20 णमति ? हंता गोयमा! तदेव जाव परिणमति' (भग० श० ५ उ० ७ सू० २१२) इति, स्थितिरपि इति द्रव्यक्षेत्रादिभेदेन प्रकारमात्रेणैव भुजेर्भेद इति दर्शयति-अशनपानेति । सर्वप्रकारेषु भुत इति व्यवहाराविशेषः, न हि वान्न पुरुषो न भुत इति व्यवह्रियत इत्याशयेनाह-न हि तेविति । एवं गतिस्थित्योरिति, विरोधिभावप्रादुर्भावः, अस्तियात्योस्तु सामान्यविशेषभावप्रादुर्भावः, सर्वश्चायं प्रवृत्तिसामान्यस्य प्रकारविशेष एव, अस्त्यर्थस्य सर्वधात्वर्थेषु नियतत्वात् तत्तदर्थानाच तत्प्रकारभेदत्वात् , भुजिसामान्यमात्रप्रकारभिन्न जिविशेषवदिति भावः । एवं सर्वधात्वर्थेषु अस्त्यर्थस्य 28 व्यापितां प्रदर्शयित्वा सर्वे सर्वार्थवाचका इति न्यायात् सर्वधात्वर्थाः सर्वधात्वर्थव्यापिन इत्यादर्शयति-एवञ्चेति । तत्र भुजेस्सर्वधात्वर्थव्यापितां तावदाह-भक्तेस्तावदिति अन्नादेरभ्यवहरणं ह्यात्मन उपयोगविशेष एव, तत्रोपयोगे सत्येव भोजनप्रवृत्तेः, उपयोगश्च प्राप्तिविशेष आपद्यत इति शब्दाभिधेयः, सा चापत्तिः परिणामविशेषः सत्तारूपः, अस्तिभवतिविद्यतिपातिकततीनामेकार्थत्वात् , एवञ्च भुजेरस्त्यर्थत्वेन सर्वभावव्यापित्वं स्फुटमेवेति भावः । एवं गतेः सर्वभावव्यापित्वमाह-तथा वतिरपीति गमनस्य परिणामपर्यायत्वेन क्रियामात्रस्य द्रव्यपरिणामत्वाद्गमनमपि सर्वधात्वर्थव्यापीति भावः। एतदेव द्रव्य30 शब्दव्युत्पादनद्वारेण दर्शयति-द्रवतीति । तत्र मानं दर्शयति-आर्षोऽपीति । स्थितेः सर्वभावव्यापित्वमाह-स्थितिर पीति, स्थितेः स्वरूपापरित्यागार्थत्वात् सर्वाः क्रिया न स्वखरूपं कदापि परित्यजन्ति, खरूपपरित्यागे ह्यसत्य एव भवेयुरिति स्वरूपापरित्यागेन परिगमनं सर्वत्राविशिष्टमिति स्थितेः सर्वभावव्यापित्वमिति भावः । पच्यादीनामित्यादिना ग्राह्यानादर्शयति सि. क. भुजावेवे० । २ सि. क. स्तिस्वियत्यो । ३ सि. क. सामान्यः । ४ सि. क. ह्येकार्थत्वात् । wriwwwwmamale Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350