Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 294
________________ विशेषपदवैयर्थ्यम्] न्यायागमानुसारिणीव्याख्यासमेतम् सर्वभेदसम्बन्धानुगुण्यात्तु नायं विशेषः-सर्व्हसिपठिगम्यादिभिर्भेदैर्देवदत्तभवनप्रवृत्तेः सम्बन्धेनाऽनुगुणत्वात् प्रवृत्तिसामान्यमेवेदं भवनवत् सत्यपि भवद्भवनभावविशेषे तु शब्दस्य[1] विशेषार्थत्वात् , तस्मात् [न] क्रियेति देवदत्तादेरक्रियात्वमुपसंहरति, इतिशब्दस्य समाप्त्यर्थत्वात् , एवमर्थं विशेषग्रहणमिति प्रकृतोपसंहारः, प्रवृत्तिविशेषः क्रिया न प्रवृत्तिसामान्यमिति न भवनमानं नापि देवदत्त इत्युपसंहारार्थः । अस्यापि विशेषग्रहणस्य सदोषत्वमुच्यतेइदमपि त्यक्तद्रव्यार्थोत्थानम् , प्रत्याख्यातविशेषग्रहणप्रयोजनतुल्यदोषानुबन्धञ्च । (इदमपीति) इदमपि त्यक्तद्रव्यार्थोत्थानम्,-इदं हि विशेषग्रहणप्रयोजनव्याख्यानमुत्थान एव द्रव्यार्थत्यागं कुरुते, अपिशब्दात् प्रागुक्तभवनसामान्यक्रियात्वनिवृत्त्यर्थं विशेषग्रहणमन्ते क्रियामेव त्यजतीति स्मारयति, सर्वदा सर्वभावानां प्रवृत्तिसमन्वयादिति हेतुवचनेन देवदत्त इति नाप्रवृत्तिकमिति नामवाच्यार्थस्वरूपवचनेन च प्रवृत्तिमात्रमेवेदं न द्रव्यं नामेति द्रव्यार्थस्य प्रागभ्युपगतस्य त्याग: 10 कृतो भवत्यनेनापि विशेषग्रहणप्रयोजनवचनेन द्वितीयेनेति, न केवलं द्रव्यार्थत्याग एव दोषः, किं तर्हि ? प्रत्याख्यातविशेषग्रहणप्रयोजनतुल्यदोषानुबन्धश्च । - इदं कथमिति चेदुच्यते यथा तत्र प्रवृत्तिसामान्यनिवृत्त्यर्थे विशेषग्रहणे प्रवर्तत ईहते चेष्टत इत्यादीनां धातुसंज्ञा न प्रामोति क्रियावचनानामेव धातुत्वात्तेषाञ्चाक्रियात्वात् तथेहापि देवदत्तादिधातुत्व-15 निवृत्त्यर्थे विशेषग्रहणे वृतादीनां धातुसंज्ञा नैव प्राप्नोति, अक्रियावचनत्वाद्देवदत्तवत्, स वा क्रिया स्यात् सर्वभेदसम्बन्धानुगुणत्वाद्धृतादिवत् , अनिष्टश्चैतदिति । प्रवृत्तिसामान्यनिवृत्त्यर्थे देवदत्तादिद्रव्यनिवृत्त्यर्थे च विशेषग्रहणे द्विधाऽप्यस्वशब्दोपादानसाध्यभावादिलक्षणमुक्तिवचनश्चानर्थकं स्यात् , द्वयोरपि क्रियात्वात् ।। यथा तत्रेत्यादि अन्थ उपसंहृते दोषासत्या चोद्यमेवोत्तरत्वेन समर्थयति, भाष्यकारेण कार- 20 कवृत्त्याः फलोदेशिन्याः क्रियात्वं प्रतिपाद्योपसंहृतं तस्मात् प्रवृत्तिविशेषः क्रिया न प्रवृत्तिसामान्यमिति, तत्र दोष आसज्यते यदि प्रवृत्तिविशेषः क्रिया प्रवर्तत ईहते चेष्टत इत्यादीनां धातुसंज्ञा न आविर्भावतिरोभावात्मकाः, ते एव हि विशेषाः, तमोबहुला प्रवृत्तिः स्थितिरूपा सामान्यात्मिका द्रव्यमुच्यते, अत एव सामान्ये नपुंसक भवति, एवञ्चाविर्भावतिरोभावलक्षणसर्वभेदसम्बन्धेऽपि सामान्य स्यैकरूपतया प्रवृत्तिमात्रत्वेन न प्रवृत्तिविशेषतेति देवदत्तादिद्रव्यवाचिनो न धातुत्वमिति भावः। तत्र दृष्टान्तमाह-भवनवदिति, शब्दस्य-देवदत्तादिशब्दस्य, अविशेषार्थत्वात्-भवनमा-25 त्रवान्चित्वात् , अस्तिभवतिविद्यतीनां भवनसामान्यवाचित्वेन न क्रियाविशेषवचनत्वमेवं देवदत्तादिशब्दानामपीति: विशेषग्रहणसाफल्य दूषयति-इदमपीति विशेषग्रहणेन तत्प्रयोजनप्रदर्शनपरव्याख्यानेन च क्रियाया द्रव्यस्य च निराकरणमेव कृतं भवतेति भावः । एतदेवाह-इदं हीति । प्रवृत्तिमात्रमेवेदमित्यत्रैवशब्देन द्रव्यस्य व्यावर्तितत्वाव्यार्थत्याग इत्याह-प्रवृत्तिमात्रमेवेदमिति । प्रत्याख्यातविशेषग्रहणप्रयोजनतुल्यदोषानुबन्धमेव स्फुटीकरोति-यथा तत्रेति, कारकवत्या इति साधनशतिभिः सह साध्यमेकं साधयती प्रवृत्तिः क्रिया, सा पूर्व सामान्यरूपा भागशः प्रविभज्यते, तस्मात् कारकाणां प्रवृत्तिविशेषः क्रियेति 30 भाज्याभिप्रायः । तद्भाष्यस्य निर्गलितार्थं खयं दर्शयति-तस्मादिति । तदर्थे दोषमुद्भावयति-यदीति विशिष्ट प्रवृत्तेरेव क्रियात्वे wwwww सि.क. सम्बन्धिना। द्वा० न० ३३ (७१) _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350