Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 295
________________ ५६२ द्वादशारनयंचक्रम् [उभयनयारे प्राप्नोति क्रियावचनानामेव धातुत्वात् तेषाञ्चाक्रियात्वात्-प्रवृत्तिविशेष[स्य] क्रियात्वादित्येष दोषः यथा तत्र प्रवृत्तेः सामान्यनिवृत्त्यर्थे विशेषग्रहणे, तथेहापि देवदत्तादिधातुत्वनिवृत्त्यर्थे विशेषग्रहणे वृतादीनां धातुसंज्ञा नैव प्राप्नोति किं कारणं ? अक्रियावचनत्वात् , देवदत्तवत् , तदर्थस्याक्रियात्वादक्रियावचनत्वम् , तदर्थस्याक्रियात्वं सर्वभेदसंबन्धानुगुण्यात् , स वा देवदत्तः क्रिया स्यात् सर्वभेदसम्बन्धानुगुणत्वात्, 5 वृतादिवत्, अनिष्टश्चेतदिति, किश्चान्यत्-प्रवृत्तिसामान्यनिवृत्त्यर्थे देवदत्तादिद्रव्यनिवृत्त्यर्थे च विशेषग्रहणे द्विधाप्यस्वशब्दोपादानसाध्यभावादिलक्षणमुक्तिवचनञ्चानर्थकं स्यात्-यदुक्तमस्वशब्दोपादानसाध्यभावो भावलक्षणं, भावादिग्रहणात् स्वशब्दोपादानसिद्धभावः सत्त्वमिति लक्षणमुक्तित एव पृथगिति[न] वस्तुनोऽपि, लिङ्गसंख्यादिमदलिङ्गसंख्यादित्वेन द्वयोः पृथक्त्वं तथा त्रिकालात्रिकालविषयत्वं भूता भूतभेद इत्यादिपृथक्त्वलक्षणवचनमनर्थकं द्वयोरपि क्रियात्वादिति । 10 यथा च तत्रोच्यते नैष दोषः, विशेष इति हि भवतः क्व सम्प्रत्ययः? य उपादीयमा नोऽन्यं निवर्तयतीति परो ब्रूयात् यद्येवं वृतादयोऽपि उपादीयमाना विशेषान्निवर्तयन्ति तैर्हि गच्छत्यादयो विशेषा निवर्त्यन्ते न गच्छति न शेते न भुंक्ते वर्तत एवास्ति भवति विद्यत एव केवलमिति, तिष्ठत्यादिवत् , यथाचोक्तं भाष्यकारेण 'सामान्यमपि यथा विशेषस्तद्वदिति', (महा० अ०१पा०२ सू०२४) ततश्चैषां सिद्धा धातुसंज्ञेति यथा तत्र प्रवृत्तिसामान्यनिवृत्त्यर्थे 18 विशेषग्रहणे परिहार एवमिहापि प्रत्युच्यते, एवञ्चोच्यमाने नन्वस्मद्धृदय एव दृष्टं फलमभिव्य कम् , नन्वस्माभिरप्यभिहितं प्रवृत्तिरेव प्रवृत्तिविशेष इति, एवञ्च कृत्वा प्रवृत्तिमात्रस्य सर्वत्र भावात् विशेषग्रहणमनर्थकमुभयोरपि व्याख्याविकल्पयोः। सामान्यप्रवृत्तिबोधकानां प्रवर्त्तत इत्यादीनां धातुत्वं न स्यादिति भावः। द्वितीय विशेषग्रहणप्रयोजनमपि दूषयति-तथेहापीति । कृते विशेषग्रहणे देवदत्तादीनां सर्वविशेषाधारतया सामान्यप्रवृत्तिरूपत्वान्न धातुत्वं यथा तथैव वृतादिसामान्यप्रवृत्तिबोधकधातूनां 20 धातुत्वं न स्यात् , तद्बोध्यप्रवृत्तेः सर्वविशेषाधारतया सामान्यरूपत्वेन प्रवृत्तिविशेषखरूपक्रियात्वाभावादित्याह-अक्रियावचनस्वादिति । सामान्यप्रवृत्तेरक्रियात्वे हेतुमाह-तदर्थस्येति वृतादिधात्वर्थस्येत्यर्थः, सर्वे ये भेदा विशेषास्तत्सम्बन्धमनुभवितुं योग्यत्वादिति हेत्वर्थः । सर्वभेदसम्बन्धानुगुणस्यापि वृतादेर्धातुत्वे देवदत्तादीनामपि धातुत्वमत एव स्यादित्याह-स वेति । प्रवृत्तिसामान्यस्य देवदत्तादेर्वा व्यावर्त्तनाय भवतु नाम विशेषग्रहणम् , उक्तरीत्या तयोरपि क्रियात्वात् , साध्यत्वेनावशब्दोपादानसाध्य भावो भावः, स्वशब्दोपादानसिद्धभावो द्रव्यम् , अलिङ्गसंख्यादिमान् भावः, लिङ्गसंख्यादिमव्यम् , अत्रिकालविषयो भावः त्रिका25 लविषयं द्रव्यं भूतो भावः, अभूतं द्रव्यमित्यादिरूपेण द्रव्यभावस्वभावभेदवर्णनमुक्तिमात्रत एव भिन्नं न तु वस्तुनोर्भेदः, ततश्च तथोक्तिरनर्थिकैवेत्याह-किश्चान्यदिति । भावादिग्रहणादिति साध्यभावादीत्यत्रादिग्रहणादित्यर्थः । वादिना सह भाष्यकारेण विचारद्वारेण समर्थितं वृतादीनां धातुत्वं निराकर्तुं भाष्यकृदुक्तिप्रकार प्रदर्शयति-यथा चेति । प्रवृत्तिविशेषलक्षणे यदृतादावव्याप्तिरुच्यते तन्नैष दोषः सम्भवति, यतः विशेषपदस्य कमर्थमभिप्रत्य भवान् दोषमाचष्टे इति भाष्यकारः पृच्छति-विशेष इतीति । व्यावृत्तिमान् विशेषपदार्थ इत्याशयं वक्ति वादी-य उपादीयमान इति । वृतादयोऽपि व्यावर्तयन्त्येवान्यानिति कुतो न 30 तेषां धातुत्वमिति भाष्यकार आह-यद्येवमिति । द्वितीयविशेषग्रहणप्रयोजनव्याख्यानेऽपि देवदत्तादीनां धातुत्वं दुर्वारम् , तेषा मप्युक्तरीत्या प्रवृत्तिविशेषत्वादिति दोषमभिधाय मूलकार उभयोरपि व्याख्ययोर्दोषमाह-एवमिहापीति । ननु प्रवृत्तिविशेषस्य १ सि.क. नवृतादी। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350