Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 286
________________ MWWwwww प्रवृत्तिसामान्यविशेषता] न्यायागमानुसारिणीव्याख्यासमेतम् (खपुष्पस्य चेति) खपुष्पस्य च समवायरूपेणानभिव्यक्तिः, अशोककुसुमादिप्रकारेणामिव्यक्तिरिति प्रकारत्वानतिवृत्तेद्रव्यक्रिययोः सर्वात्मकत्वादस्मिन् द्रव्यार्थनयभेदे सर्व द्रव्यं क्रिया च गमनादि, द्रव्यभेदानां गमनादिक्रियाभेदानाञ्चोक्तवद्भवनद्वयाभेदात् कतमत् खम् ? कतमञ्च पुष्पाणां विकसनमन्यत् ? इति देवदत्तगमनभवनद्वयत्ववत् तदपीति-खपुष्पादिरपि भावः, एवञ्चेत्यादि-एवश्च कृत्वा गमनस्थानादिक्रमभाविनीनामपि क्रियाणां सततसम्प्रवृत्तितादात्म्यानतिक्रमादेक एव पूर्वापरीभूतो भाव[ःप्रवृत्तिरित्युच्यते, एवमेव च तदुपपद्यते यदुक्तं 'पूर्वापरीभूतं भावमाख्यातेनाऽऽचष्टे व्रजति पचती' (निरु० अ०१ सू०१४) त्यादीति, सर्वधात्वैकार्थ्यस्य चानन्तरमुपपादयिष्यमाणत्वात्, कस्मात् स भावः प्रवृत्तिरित्युच्यते ? ब्रूमः, प्रकर्षेण वर्तनात् , स च प्रकर्षः सर्वप्रभेदानुभवनरूपः, स एव चान्तर्भावितखप्रभेदत्वात् प्रवृत्तिविशेष इत्युच्यते, रूपादिगत्यादीन खप्रभेदानन्तर्भावयन्नेव भावः सा- . मान्यभवनलक्षणो भवनभेदानां परस्परतो विशेषाद्विशेषो भेदानभ्युपगतत्वात्, न त्वदिष्टः कारकाणां 10 प्रवृत्तिविशेषः सामान्यप्रवृत्तेर्भिन्नः कश्चिदिति, दृष्टान्तो भुजिविशेषवदिति। तद्व्याख्यानम् यथा भुजिरेवाशनपानादिना द्रव्यक्षेत्रकालभावभेदेन प्रकारमात्रं भिद्यते, न हि तेषु . कश्चिदभुजिरक्रिया वा, सर्वोऽप्यसौ भुजिरेव, तथा सामान्यप्रवृत्तिरेव प्रवृत्तिविशेषः, अस्त्यर्थस्य सर्वगतिस्थित्यादिभेदात्मकत्वात् , एवं गतिस्थित्योरस्तियात्योर्वा, सर्वैव चासौ प्रकारमात्रभिन्न-16 सामान्यभवनलक्षणक्रियेव भुजिसामान्यमात्रप्रकारभिन्नभुजिविशेषवत् । खपुष्पादेः खपुष्पत्वेन विशिष्टरूपेणानभिव्यक्तिः पुष्पत्वेन रूपेण चाभिव्यक्तिरिति तस्यानभिव्यक्तिप्रकारेण सत्त्वमेवेति नासिद्धता हेतोरिति भावः। एतस्मिन्नये सर्वेषां घटपटादिद्रव्यविशेषाणां द्रव्यात्मकत्वात् गमनादिक्रियाविशेषाणाच क्रियात्मकत्वाइल्यक्रिययोध, भवनद्वयानतिरेकात् विशेषा एव सामान्यव्यतिरिक्ता न सन्तीति कतमत् खम् ? कतमञ्च पुष्पाणां विकसनमिति देवदत्तगमनयोर्मवनद्व यानतिरिक्तत्ववत् खपुष्पादेरपि भवनद्वयानतिरिक्तत्वमेवेति तस्याप्यन्यथाभवनं सिद्धमेवेत्याशयेनाह-द्रव्यक्रिययोरिति । एकच 20 क्रियाविशेषाणां सामान्यात्मकत्वादेव कारकाणां प्रवृत्तिविशेषलक्षणायाः क्रियायाः सततसम्प्रवृत्तिलक्षणसामान्यक्रियाव्यतिरिकाया असत्त्वादेव क्रियामात्रं सततसम्प्रवृत्तिरूपमेवेत्याह-एवञ्च कृत्वेति,एवञ्च पूर्वापरीभूतोभाव एव प्रवृत्तिः क्रियेत्युच्यत इति भावः। एतदभिप्रायेणैव नैरुकं वचनं सङ्गच्छत इत्याह-यदुक्तमिति, पूर्वापरीभूतमिति च्चिप्रत्ययान्तं पदम् , क्रियाया एकत्वादपू मनपरं सन्तं पूर्वापरमिव भूतं पौर्वापर्येणावस्थितं भावं व्रजतिपचतीत्याद्याख्यातेनाऽऽचष्टे इति तदर्थः । पचिपठिभुजिगम्यादिसर्वधात्वर्थानां प्रवृत्तिसामान्यरूपत्वमनुपदमेवोपपादयिष्यत इत्याह-सर्वधात्विति। ननु पूर्वापरीभूतो भाव एव वृत्तिरिति 25 कुतो नोक्तम् , प्रवृत्तिरिति कुत उच्यते, एकस्यां क्रियायां को वा प्रकर्ष इत्यत्राह-करमादिति । सर्वान् क्रियाप्रमेदान खस्मिन्नेव समावेशयत्यत एव सर्वान् प्रमेदाननुभवतीति प्रकृष्टवर्तनरूपत्वादसौ प्रवृत्तिरिति प्रवृत्तिविशेष इति वोच्यते, न तु प्रवृत्तिरन्या, अन्यश्च प्रवृत्तिविशेष इत्याशयेनाह-स च प्रकर्ष इति । तदेव स्फुटयति-रूपगत्यादीनिति, प्रवृत्तिशरीरे विशेषाणामन्तर्गतत्वाद्विशेषाणाञ्च परस्परतो मेदात् प्रवृत्तिसामान्यमेव प्रवृत्तिविशेष उच्यत इति भावः । दृष्टान्तं भुजिविशेष , प्रकाशयति-यथा भुजिरेवेति, अशनपानादयो भुजेरेव प्रकारास्तान् कुर्वत्यविशेषेण भुत इति व्यवहारात , एवञ्च सामान्यविशे-30 षात्मा क्रियेति भावः, उक्तं वैयाकरणैस्तथैव अभिन्नाश्चैव भिन्नाञ्च प्राहुः कृभ्वस्तयः क्रिया एकानेकविशेषस्थाः प्रवृत्तिः सार्वनामिका ।।' १सि.क. विशेषाविशेषो। द्वा० न० ३२ (७०) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350