________________
MWWwwww
प्रवृत्तिसामान्यविशेषता] न्यायागमानुसारिणीव्याख्यासमेतम्
(खपुष्पस्य चेति) खपुष्पस्य च समवायरूपेणानभिव्यक्तिः, अशोककुसुमादिप्रकारेणामिव्यक्तिरिति प्रकारत्वानतिवृत्तेद्रव्यक्रिययोः सर्वात्मकत्वादस्मिन् द्रव्यार्थनयभेदे सर्व द्रव्यं क्रिया च गमनादि, द्रव्यभेदानां गमनादिक्रियाभेदानाञ्चोक्तवद्भवनद्वयाभेदात् कतमत् खम् ? कतमञ्च पुष्पाणां विकसनमन्यत् ? इति देवदत्तगमनभवनद्वयत्ववत् तदपीति-खपुष्पादिरपि भावः, एवञ्चेत्यादि-एवश्च कृत्वा गमनस्थानादिक्रमभाविनीनामपि क्रियाणां सततसम्प्रवृत्तितादात्म्यानतिक्रमादेक एव पूर्वापरीभूतो भाव[ःप्रवृत्तिरित्युच्यते, एवमेव च तदुपपद्यते यदुक्तं 'पूर्वापरीभूतं भावमाख्यातेनाऽऽचष्टे व्रजति पचती' (निरु० अ०१ सू०१४) त्यादीति, सर्वधात्वैकार्थ्यस्य चानन्तरमुपपादयिष्यमाणत्वात्, कस्मात् स भावः प्रवृत्तिरित्युच्यते ? ब्रूमः, प्रकर्षेण वर्तनात् , स च प्रकर्षः सर्वप्रभेदानुभवनरूपः, स एव चान्तर्भावितखप्रभेदत्वात् प्रवृत्तिविशेष इत्युच्यते, रूपादिगत्यादीन खप्रभेदानन्तर्भावयन्नेव भावः सा- . मान्यभवनलक्षणो भवनभेदानां परस्परतो विशेषाद्विशेषो भेदानभ्युपगतत्वात्, न त्वदिष्टः कारकाणां 10 प्रवृत्तिविशेषः सामान्यप्रवृत्तेर्भिन्नः कश्चिदिति, दृष्टान्तो भुजिविशेषवदिति।
तद्व्याख्यानम्
यथा भुजिरेवाशनपानादिना द्रव्यक्षेत्रकालभावभेदेन प्रकारमात्रं भिद्यते, न हि तेषु . कश्चिदभुजिरक्रिया वा, सर्वोऽप्यसौ भुजिरेव, तथा सामान्यप्रवृत्तिरेव प्रवृत्तिविशेषः, अस्त्यर्थस्य सर्वगतिस्थित्यादिभेदात्मकत्वात् , एवं गतिस्थित्योरस्तियात्योर्वा, सर्वैव चासौ प्रकारमात्रभिन्न-16 सामान्यभवनलक्षणक्रियेव भुजिसामान्यमात्रप्रकारभिन्नभुजिविशेषवत् ।
खपुष्पादेः खपुष्पत्वेन विशिष्टरूपेणानभिव्यक्तिः पुष्पत्वेन रूपेण चाभिव्यक्तिरिति तस्यानभिव्यक्तिप्रकारेण सत्त्वमेवेति नासिद्धता हेतोरिति भावः। एतस्मिन्नये सर्वेषां घटपटादिद्रव्यविशेषाणां द्रव्यात्मकत्वात् गमनादिक्रियाविशेषाणाच क्रियात्मकत्वाइल्यक्रिययोध, भवनद्वयानतिरेकात् विशेषा एव सामान्यव्यतिरिक्ता न सन्तीति कतमत् खम् ? कतमञ्च पुष्पाणां विकसनमिति देवदत्तगमनयोर्मवनद्व यानतिरिक्तत्ववत् खपुष्पादेरपि भवनद्वयानतिरिक्तत्वमेवेति तस्याप्यन्यथाभवनं सिद्धमेवेत्याशयेनाह-द्रव्यक्रिययोरिति । एकच 20 क्रियाविशेषाणां सामान्यात्मकत्वादेव कारकाणां प्रवृत्तिविशेषलक्षणायाः क्रियायाः सततसम्प्रवृत्तिलक्षणसामान्यक्रियाव्यतिरिकाया असत्त्वादेव क्रियामात्रं सततसम्प्रवृत्तिरूपमेवेत्याह-एवञ्च कृत्वेति,एवञ्च पूर्वापरीभूतोभाव एव प्रवृत्तिः क्रियेत्युच्यत इति भावः। एतदभिप्रायेणैव नैरुकं वचनं सङ्गच्छत इत्याह-यदुक्तमिति, पूर्वापरीभूतमिति च्चिप्रत्ययान्तं पदम् , क्रियाया एकत्वादपू
मनपरं सन्तं पूर्वापरमिव भूतं पौर्वापर्येणावस्थितं भावं व्रजतिपचतीत्याद्याख्यातेनाऽऽचष्टे इति तदर्थः । पचिपठिभुजिगम्यादिसर्वधात्वर्थानां प्रवृत्तिसामान्यरूपत्वमनुपदमेवोपपादयिष्यत इत्याह-सर्वधात्विति। ननु पूर्वापरीभूतो भाव एव वृत्तिरिति 25 कुतो नोक्तम् , प्रवृत्तिरिति कुत उच्यते, एकस्यां क्रियायां को वा प्रकर्ष इत्यत्राह-करमादिति । सर्वान् क्रियाप्रमेदान खस्मिन्नेव समावेशयत्यत एव सर्वान् प्रमेदाननुभवतीति प्रकृष्टवर्तनरूपत्वादसौ प्रवृत्तिरिति प्रवृत्तिविशेष इति वोच्यते, न तु प्रवृत्तिरन्या, अन्यश्च प्रवृत्तिविशेष इत्याशयेनाह-स च प्रकर्ष इति । तदेव स्फुटयति-रूपगत्यादीनिति, प्रवृत्तिशरीरे विशेषाणामन्तर्गतत्वाद्विशेषाणाञ्च परस्परतो मेदात् प्रवृत्तिसामान्यमेव प्रवृत्तिविशेष उच्यत इति भावः । दृष्टान्तं भुजिविशेष , प्रकाशयति-यथा भुजिरेवेति, अशनपानादयो भुजेरेव प्रकारास्तान् कुर्वत्यविशेषेण भुत इति व्यवहारात , एवञ्च सामान्यविशे-30 षात्मा क्रियेति भावः, उक्तं वैयाकरणैस्तथैव अभिन्नाश्चैव भिन्नाञ्च प्राहुः कृभ्वस्तयः क्रिया एकानेकविशेषस्थाः प्रवृत्तिः सार्वनामिका ।।'
१सि.क. विशेषाविशेषो।
द्वा० न० ३२ (७०) Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org