________________
५५४
wwwwwwinm
द्वादशारनयचक्रम्
[उभयनयारे यथा मुँजिरेवेत्यादि यावत् प्रकारमात्रं भिद्यत इति, अशनपानखाद्यस्वाद्यादिद्रव्यभेदेन कांस्यपाध्यां पाणी शरावे वेति क्षेत्रभेदेन प्रथमद्वितीयग्रासादिना दिनरात्र्यादिना वा कालभेदेन तीनमन्दक्षुधितग्लानौषधस्वस्वरसायनादिभावेन च प्रकारमात्रेणैव भिद्यते न भुजित्वेन, न हि तेषु प्रकारभि
श्रेषु कश्चिद जिर्भवत्यक्रिया वा, किन्तु सर्वोऽप्यसौ भुजिरूपानतिक्रमाद्भुजिरेव, अथवा परस्परता 5. प्रकारमात्रभेदाद्भिद्यते, सामान्यप्रवृत्तिरेव प्रवृत्तिविशेषो वर्तते, अस्त्यर्थस्य सर्वगतिस्थित्यादिभेदात्मक
त्वात् , एवं गतिस्थित्योरस्तियात्योर्वेति विरोधिभावप्रादुर्भावोऽपि सामान्यभवनस्यैव प्रकारमात्रभिन्नस्य विस्पन्दितमिति, तन्निगमयति-सर्वैव चासाविति यावत् क्रियैव, तस्मादस्तिभवतिविद्यतिपद्यतिवर्त्ततीनामेकार्थत्वात् प्रकारभेदाच्च ततोऽ[न]न्यसामान्यप्रवृत्तिविशेषो भुजिसामान्यमात्रप्रकारभिन्नभुजिविशेषवदिति ।
किश्चान्यत्
एवञ्च भुजिगतिस्थितिपच्यादीनामपि तथा तथा सर्वभावव्यापिता भाषतिजानातिश्वेतत्यादीनामपि पूर्वोत्तरव्यक्त्यव्यक्तिभवनैकत्वादेव च, पूर्वमभाषमाणो गच्छन् तिष्ठन्नुदासीनो वा पश्चाद्भाषते, तथा पश्यति जानातीच्छति द्वेष्टि प्रयतते स्मरतीत्यादिषु तुल्यश्चर्चः।
एवश्चेत्यादि, न केवलमस्त्यादय एव सर्वधात्वर्थव्यापित्वात् सामान्यप्रवृत्तिमात्रभावनायां 16 निदर्शनम् , किं तर्हि ? भुजिगतिपच्यादीनामपि तथा तथा सर्व[भावव्यापिता, भुक्तेस्तावत्-भुजेरभ्यव
हरणार्थस्योपयोगपर्यायत्वात् उपयोगस्यापत्त्यर्थत्वादापत्तेः परिणामार्थत्वात् परिणामस्य वृत्तिसत्ताभव. नार्थत्वात् , तथा गतिरपि सर्वभावव्यापिनी गमनचलनस्पन्दनपरिणामाँयेकार्थत्वात् , द्रवति द्रोष्यति दुद्रावेति दुः, द्रोर्विकारो द्रव्यं द्रव्यश्च भव्ये द्रव्यं सदैव गत्यात्मकं विपरिणामात्मकमित्यर्थः, आर्योऽपि यथा 'पोग्गले णं भंते ! किं एयति वेयति चलति फंदति खोभति खुभति तं तं भावं परि20 णमति ? हंता गोयमा! तदेव जाव परिणमति' (भग० श० ५ उ० ७ सू० २१२) इति, स्थितिरपि इति द्रव्यक्षेत्रादिभेदेन प्रकारमात्रेणैव भुजेर्भेद इति दर्शयति-अशनपानेति । सर्वप्रकारेषु भुत इति व्यवहाराविशेषः, न हि वान्न पुरुषो न भुत इति व्यवह्रियत इत्याशयेनाह-न हि तेविति । एवं गतिस्थित्योरिति, विरोधिभावप्रादुर्भावः, अस्तियात्योस्तु सामान्यविशेषभावप्रादुर्भावः, सर्वश्चायं प्रवृत्तिसामान्यस्य प्रकारविशेष एव, अस्त्यर्थस्य सर्वधात्वर्थेषु नियतत्वात् तत्तदर्थानाच तत्प्रकारभेदत्वात् , भुजिसामान्यमात्रप्रकारभिन्न जिविशेषवदिति भावः । एवं सर्वधात्वर्थेषु अस्त्यर्थस्य 28 व्यापितां प्रदर्शयित्वा सर्वे सर्वार्थवाचका इति न्यायात् सर्वधात्वर्थाः सर्वधात्वर्थव्यापिन इत्यादर्शयति-एवञ्चेति । तत्र भुजेस्सर्वधात्वर्थव्यापितां तावदाह-भक्तेस्तावदिति अन्नादेरभ्यवहरणं ह्यात्मन उपयोगविशेष एव, तत्रोपयोगे सत्येव भोजनप्रवृत्तेः, उपयोगश्च प्राप्तिविशेष आपद्यत इति शब्दाभिधेयः, सा चापत्तिः परिणामविशेषः सत्तारूपः, अस्तिभवतिविद्यतिपातिकततीनामेकार्थत्वात् , एवञ्च भुजेरस्त्यर्थत्वेन सर्वभावव्यापित्वं स्फुटमेवेति भावः । एवं गतेः सर्वभावव्यापित्वमाह-तथा
वतिरपीति गमनस्य परिणामपर्यायत्वेन क्रियामात्रस्य द्रव्यपरिणामत्वाद्गमनमपि सर्वधात्वर्थव्यापीति भावः। एतदेव द्रव्य30 शब्दव्युत्पादनद्वारेण दर्शयति-द्रवतीति । तत्र मानं दर्शयति-आर्षोऽपीति । स्थितेः सर्वभावव्यापित्वमाह-स्थितिर
पीति, स्थितेः स्वरूपापरित्यागार्थत्वात् सर्वाः क्रिया न स्वखरूपं कदापि परित्यजन्ति, खरूपपरित्यागे ह्यसत्य एव भवेयुरिति स्वरूपापरित्यागेन परिगमनं सर्वत्राविशिष्टमिति स्थितेः सर्वभावव्यापित्वमिति भावः । पच्यादीनामित्यादिना ग्राह्यानादर्शयति
सि. क. भुजावेवे० । २ सि. क. स्तिस्वियत्यो । ३ सि. क. सामान्यः । ४ सि. क. ह्येकार्थत्वात् ।
wriwwwwmamale
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org