________________
प्रवृत्तिव्यापिता] न्यायागमानुसारिणीव्याख्यासमेतम्
५५५ तिष्ठत्यास्तेऽस्ति स्वरूपं न यजति परिणमति तथा तथा भवतीत्यर्थः, पचतिकृषतिलिखत्यादयः पच्यादयः, तेषामपि पच्यादीनामस्त्याद्यविशेषः, पाकस्य क्रियाफलत्वात् क्रियायाश्च हेतुफलरूपाभिन्नपरिणतित्वात् , पच्यते पचत्यात्मानं बीजमकरीभवति जायतेऽस्ति विपरिणमतीत्यायेकार्थत्वात् , तथा कृषति लिखति तथाऽऽत्मनः शिरां दर्शयति कण्डूयत इत्यायेकार्थम् , तथा तथा सर्वभाववृत्तेः । स्यान्मतमस्तु भुज्यादीनां सर्वभावव्यापिता, गतिस्थितिसत्ताविपरिणामाद्यनतिक्रमात् , पठिहसिविदि-6 श्वितिगड्यादीनां कथमिति चेदुच्यते भाषतिजानातिश्वेतत्यादीनामपि पूर्वोत्तरव्यक्त्यव्यक्तिभवनैकत्वादेव च, तथा तथा सर्वभावव्यापितेति वर्तते, भाष व्यक्तायां वाचि, ज्ञाऽवबोधने, श्विता वर्णे गडि वदनैकदेशे इत्येवमादीनां पूर्वोक्तपूर्वापरीभूतव्यक्तिलक्षणभवनस्यैकत्वात् , एकमेव हि पूर्वापरीभूतं भवनं गतिस्थित्यादिवत् क्रियात्वादित्युक्तम् , तथा लषत्यादिनामपि, पूर्वापरीभूतकभवनव्यक्त्यव्यक्तिलक्षणक्रियात्वानतिवृत्तेः सर्वभावव्यापितैव, पूर्वमभाषमाणो गच्छन् तिष्ठन्नुदासीनो वा पश्चाद्भाषते, पश्यति जानाति इच्छति 10 द्वेष्टि प्रयतते स्मरतीत्यादिषु तुल्यश्चर्चः, तस्मान्न काचिदपूर्वापरीभूता क्रियाऽस्ति क्रियात्वाच्च सर्वधात्वर्थाः सर्वधात्वर्थव्यापिन इति साधूक्तम् , एवन्तावत् प्रवृत्तिसामान्यमेव क्रियाप्रवृत्तिविशेष इत्युक्तम् । __ अधुना लक्षणान्तरं परीक्ष्यमत आह
यदप्यादिनैगमनयदर्शनमनवबुध्य पूर्वनयनिपातिस्थितिस्वरूपनिरूपणं क्रियते, सा तु द्रव्यावस्थाविशेषो गतिवदिति, यथा गतिव्यस्यावस्थाविशेषो बालकुमारादिवव्यादनन्या 15 तथा स्थितिरिति गतिस्थितिवच्च सर्वक्रिया इति ।
यदप्यादिनैगमेत्यादि, 'णेगेहिं मिणति माणेहिं णेगमो एस तस्स णेरुत्ती' । 'संगहिअ पिंडितत्थं
aamwww
पचतीति । पाकस्य सर्वभावव्यापित्वमाह-पाकस्येति । पचिधातोः पाकोऽर्थः, पाको नाम क्रियायाः फलम्। तथा च क्रियाफलयोः कार्यकारणभूतयोरभिन्नपरिणतित्वात् जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति षड्भावविकाराभिन्नार्थत्वात् सर्वभावव्यापितेति भावः। एवमितरेषामपि धात्वर्थानां सर्वभावव्यापित्वं प्रदर्शयति-भाषतीति पठिहस्योर्भाषधात्वर्थान्तर्गत-20 त्वात् विदेोधात्वर्थान्तर्गतत्वान्न शङ्काग्रन्थेनासङ्गतिर्बोध्या, पूर्वमभाषमाणोऽपठन्नहसन् पश्चाद्भाषते पठति हसति चेति अव्यकस्य व्यक्ततया भवनात्तेन सहैकत्वमिति सर्वाः क्रियाः पूर्वापरीभूता भवनाविशिष्टाः प्रवृत्तिविशेषत्वेनाभिमताः प्रवृत्तिसामान्यमेवेति सर्वासामेकत्वं विज्ञेयमिति भावः। एतदेव साधयति-एकमेव हीति । न्यायव्यापितामादर्शयितुमनेकान्युदाहरणानीति बोध्यम्। क्रियालक्षणं निगमयति-एवन्तावदिति अथ सत्त्वरजस्तमस्साम्यावस्थालक्षणप्रकृतिद्रव्यस्यावस्थाविशेषः कारकाणां प्रवृत्तिविशेषलक्षणा क्रियेति सांख्यलक्षणं निराकर्तुमाह-यदपीति।णेगेहिं इति, एतत्सदृश्शी गाथाऽऽवश्यकनियुक्तौ गाथामन्यत्राप-28 रार्धश्चान्यत्र दृश्यते, तद्यथा-'णेगेहिं माणेहिं मिणइत्ती णेगमस्स गेरुत्ती' ॥ ७५५ ॥ इति, ततश्च 'संगहियपिंडियत्य संगहक्यणं समासतो बिति'॥७५६॥ इति, किन्त्वत्र नैगमस्य विभागद्वयादिभ्य आरम्भात् विभागद्वयादेरेव विशेषसङ्कहत्वाचोभयं प्रदर्शयितुं गाधार्धद्वयं समुच्चित्यात्र टीकाकृद्भिरुपन्यस्तेति प्रतिभाति । तथा णेगेहिं मिणति माणेहिं इत्ययं पादो गाथालक्षणहीनो भासते। कैममनयस्यानेकप्रकारत्वात् भावो द्विविधः द्रव्यक्रियाभेदादित्येवं वस्तुनो द्वैविध्यप्रतिपादकं दर्शनमाद्यनैगमनयदर्शनमुच्यते तस्याथत्वच त्रित्वादिना विभागकरणापेक्षया प्रथमत्वात् , त्रैविध्यादिविषयदर्शनानि हि द्वितीयादिनैगमानि भवन्ति, अत्र नये स्थित्यादेठ्याव-30 स्थावर्णनं न युज्यते वस्तुनो द्वैविध्यात् , एतन्नये स्थित्यादेव्यावस्थावर्णनं तद्वत् क्रियाया लक्षणश्च तदेतन्नयखरूपाज्ञानविजृम्भि
१ सि. क. त्यादिदोषार्थत्वात् । २ कण्डूयत इत्यायेकार्थमिति वाक्यं प्रतिषु वृत्तरित्यनन्तरं दृश्यते ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org