________________
१५६ द्वादशारनयचक्रम्
[ उभयनेयारे संगहवयणं समासेणं॥' ( ) इत्येवमादिनयलक्षणे द्रव्य क्रियात्मकद्वित्वाद्यनेकशो गमो नैगम इति निरुत्यपेक्षया द्रव्यक्रियाद्वित्वात्मकवस्तुवाद आदिनैगमनयदर्शनम् , त्रित्वादिदर्शनानां द्वितीयादिनैगमत्वात्, एतदर्शनमैनवबुद्ध्य पूर्वनयनिपाति-सङ्ग्रहनये निपतितुं शीलं यस्य निरूपणस्य तदिदं स्थितिस्वरू
पनिरूपणं क्रियते सङ्ग्रहनयदर्शनानुपाति, प्रथमात् विधिभङ्गात् व्यवहारनयात् आरातीया येऽतीताः : 3 पूर्वनयाः ते सङ्ग्रहनयभेदाः तदनुपाति यदुत्तरं क्रियालक्षणं स्थित्युदाहरणद्वारेणोच्यते तत्स्वरूपनिरूप
णाय तदविदितनयविषयविवेकैरेवोच्यते, कथं पुनस्तैः स्थितिस्वरूपनिरूपणं क्रियते ? उच्यते-सा तु द्रव्यावस्थाविशेषो गतिवत् प्रतिपत्तव्येत्येवं निरूप्यते यथा गतिर्द्रव्यस्यावस्थाविशेषो बालकुमारादिवाव्यादनन्या तथा स्थितिरिति, गतिस्थितिवच्च सर्वक्रिया इति ।
अत्रापि लक्षणान्तरे दोष उच्यते(10 अनोच्यते, अविकल्पितैकत्वे यत्नप्रसाधितक्रियार्थान्तरत्वत्यागः, अव्यक्तद्रव्यावस्था
त्वात् , यत्तद्रव्यं ततो नान्याऽवस्था तदवयवत्वात् , देवदत्तबालकुमारादिवत् , ततश्च द्रव्याथोन्तरभूतक्रियापदार्थाभ्युपगमविरोधः, एवमभिधानात्त्वव्युत्पत्ती व्युत्पत्तौ वोभयथापि स्ववचनादिविरोधः, तत्र तावदव्युत्पत्तौ अवस्थायास्ततोऽन्यत्वं, तत्स्वादिविषयशब्दवाच्य.त्वात्, देवदत्ताश्ववत् , यथा देवदत्ताश्व इत्युक्ते देवदत्तस्य स्वमश्वः, सोऽस्य स्वामीति तेन 16 विषयेणाश्वशब्देन तस्य वाच्यत्वात्ततोऽन्यत्वं दृष्टमेवं द्रव्यावस्थेति ।
' (अत्रोच्यत इति) अविकल्पितैक[त्व]इति चेदुच्यते यत्नप्रसाधितक्रियार्थान्तरत्वत्याग:-प्राक्त[न] यत्नेन प्रसाधितमुक्तिक्रियालक्षणाभिधानेन द्रव्यादर्थान्तरं क्रियेति तस्य त्यागो दोषः, किं कारणं ? अव्यक्तद्रव्यावस्थत्वात् , इह ह्यवस्थाशब्देनाव्यक्ताः क्रमभाविनो बालकुमारादयो धर्मा द्रव्यस्यैव देवदत्तादेरंशा एवोच्यन्ते, ते चांशास्तदवयवत्वात्ततो नान्ये, तस्मान्न ततोऽर्थान्तरमित्येतदापन्नम् , स चाभ्यु20 तमेवेत्याशयेनाह-इत्येवमादिनयलक्षण इति । विधिनयो हि प्रथममत्रोपन्यस्तो व्यवहारनयः, ततः परं प्रतिपदितास्त्रयो - मयाः सङ्ग्रहनयमेदाः, अयञ्च नयः पञ्चमो नैगमभेदः, तत्र प्रथमनयानन्तरमेतन्नयात् पूर्व ये नयास्ते सङ्ग्रहनयभेदाः, तथा चैत
भयवादी क्रियायाः स्थितिवव्यावस्थाविशेषत्वं यद्यभिधत्ते तह्ययं वनयमादिनैगमरूपं न जानात्येव, अत्र द्रव्यक्रिययोर्भेदात्, 'अवस्थाऽवस्थावद्भावो हि सङ्ग्रहनयविषयः स्यादिति दर्शयति-प्रथमादिति एतद्न्थोपवर्णितनयापेक्षया प्रथमो विधिनयः, 'आरातीयाः-समीपस्था इत्यर्थः, पूर्वनयाः-एतन्नयापेक्षया पूर्वोक्ता नया इत्यर्थः, यदुत्तर-यत्तेभ्य उत्तरनयेनानेन क्रियमाणमित्यर्थः, 25 तदविदितनयविषयविवेकैः एतन्नयस्य पञ्चमस्य कोऽसौ विषयःसङ्ग्रहो वा नैगमो वेति तद्विषयानभिज्ञैरित्यर्थः। तन्मतीयं क्रियानि: रूपणं दर्शयति-सा स्विति.यथा गतिव्यावस्थाविशेषस्तथा स्थितिरपि,एवमेव सर्वाः क्रिया अपि, तथा च द्रव्यावस्था विशेषः
क्रियेति भावः।मतमेतन्निराचष्टे-अत्रोच्यत इति, अवस्थावस्थावतोरभेदेन द्रव्यस्यावस्थाविशेषत्वे क्रियाया अविकल्पितैकत्वप्रसङ्गः, द्रव्यस्याविकल्पितमेकत्वं स्यात् ततश्च पूर्व यद्रव्यक्रिययोरन्यत्वं प्रसाधितं तस्यर्थ स्यादित्याह-अविकल्पितैकत्व इति विकल्पविनिर्मुक्तस्य एकरूपस्य द्रव्यस्य तत्त्वे क्रियाद्रव्ययोर्भेदानभ्युपगमे पूर्व महता यत्नेन प्रसाधितं यद्रव्यात् क्रियाया
त्यागः प्रसज्यत इत्यर्थः, लिङ्गादिमद्रव्यं तद्रहिता च क्रिया भिन्नमुभयमेव भाव इत्यादिना हि तयोरन्यत्वं -साधितमिति भावः। त्यागे हेतुमाह-अव्यक्तति, अव्यक्ता अस्फुटा-द्रव्यस्यावस्था-क्रियात्मिका तद्भावात् , क्रियाया द्रव्यांशत्वादे व्यक्तत्वमत एव चानन्यत्वं तस्या इति द्रव्यादर्थान्तरत्वसाधनं त्यक्तमिति भावः । अनन्यत्वं मानेन साधयति
सि. क. 'मनुबुद्ध ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org