________________
५५७
'द्रव्यावस्थयोरन्यता] न्यायागमानुसारिणीव्याख्यासमेतम् पगतद्रव्यार्थान्तरभूतक्रियापदार्थत्यागो दोषः, एष प्रयोगेणैवोद्भाव्यते यत्तद्रव्यं ततो नान्यदित्यादि गतार्थ यावदभ्युपगमविरोध इति, एवमभिधानात्त्वव्युत्पत्तौ[व्युत्पत्तौवेत्यादि, अत्र द्रव्यावस्थेत्यस्य शब्दस्यार्थद्वयकल्पना स्यात्-राजवृक्षादिशब्दवदव्युत्पतिः, व्युत्पत्तिा राजपुरुषशब्दवत् , उभयथापि ववचना[दि]विरोधः, तद्व्याचष्टे तत्र तावदव्युत्पत्ताववस्थायास्ततोऽन्यत्वं-द्रव्यादन्यावस्था तत्स्वादि विषयशब्दवाच्यत्वात् तस्य स्वस्वामिसम्बन्धादिषष्ठीविषयिणोऽवस्थाशब्देन वाच्यत्वं द्रव्यस्य, इतरथा 6 [द्रव्यशब्दोऽवस्थाशब्दो वाऽनर्थकः स्यात् , इह तद्विशेषवाचिनोऽपि शब्दस्य वाच्यार्थोऽन्य इत्यवश्यमभ्युपगन्तव्यम् , देवदत्ताश्ववत् , यथा देवदत्ताश्व इत्युक्ते देवदत्तस्य स्वमश्वः सोऽस्य स्वामीति तेन विषयेण स्वामिविषयेणाश्वशब्देन तस्य देवदत्तस्य वाच्यत्वात् ततोऽन्यत्वं दृष्टमेवं द्रव्यावस्थेति ।
शिलापुत्रकशरीरवन्नेति चेन्न, अवस्थाशरीरशब्दप्रयोगानर्थक्यात् ।
(शिलेति) शिलापुत्रकशरीरवन्नेति चेत् स्यान्मतं शिलापुत्रकस्य शरीरमित्यत्र शिलापुत्रकादनन्य- 10 स्मिन्नपि शरीरै स्वादिविषयशब्दवाच्यत्वदर्शनादनैकान्तिकतेति एतच्च न, अवस्थाशरीरशब्दप्रयोगानर्थक्यात् , यद्यनन्यच्छिलापुत्रकाच्छिलापुत्रकशरीरं शरीरमेव शिलापुत्रक इति घटकुटशब्दवत् पर्यायमात्रप्रतीतपदार्थक श्रोतारं प्रत्यन्यतरप्रयोगानर्थक्यं स्याद्गतार्थत्वात् तथा द्रव्यमेवावस्था द्रव्यावस्थेत्यन्यतरानर्थक्यम् , तस्मादन्यतरानर्थक्यान्नेदमुपपन्नं शिलापुत्रकशरीरवन्नानैकान्तिकतेति ।
किश्चान्यत्
अत्रापि शरीरावस्थाक्रियात्वादन्यत्वम् , शिलापुत्रकेण शीर्यते शरारुत्वाच्छरीरमिति शरारुर्भवति तेन शरारुणा भूयत इति द्रव्यक्रियाभिधानं नातिवर्त्तते, तथा च द्रव्यस्यावस्था द्रव्यमवतिष्ठते द्रव्येणावस्थीयत इत्यवस्थानस्य क्रियात्वानतिवृत्तेः, व्युत्पत्तावपि सामासिकपदत्वात् समासस्य च षष्ठीसमासत्वात् षष्ठ्याश्च कर्तरि विहितत्वात् , सा यद्विषयं द्रव्यस्य कर्तृत्वं एष प्रयोगेणैवेति । एवं द्रव्यावस्थेतिशब्देन व्युत्पत्तिपक्षे चाभेदाभ्युपगमो विरुध्यत इत्याह-एवमभिधानात्त्विति, 20 द्रव्यावस्थेत्यभिधानादित्यर्थः । अर्थद्वयकल्पनेति राजा वृक्ष इत्यादिवदव्युत्पन्नशब्दाङ्गीकारेण राजपुरुषशब्दवत्सामासिकशब्दत्वायत्पन्नशब्दाङ्गीकारेण चार्थद्वयकल्पनेऽपि खवचनादिविरोधो भवतीत्यर्थः। तत्र तावदव्युत्पन्नशब्दपक्षे विरोधं दर्शयतितत्र तावदिति द्रव्यावस्थाशब्दस्याव्युत्पन्नत्वेऽपि द्रव्यस्यावस्थेति वाक्यसमानार्थकत्वात् खखामिभावसम्बन्धार्थकषष्ठीविषयत्वेन द्रव्यादन्यत्वं क्रियाया द्रव्यावस्थास्वरूपाया आवश्यकमन्यथा द्रव्यशब्दोऽवस्थाशब्दो वा व्यर्थः स्यादिति द्रव्यावस्थाशब्दवाच्यो द्रव्यादन्य एव सिद्ध्यतीति भावः। तत्र दृष्टान्तमाह-देवदत्ताश्ववदिति, यथाऽत्र देवदत्तः खामी अश्वस्य, 25 अश्वश्च देवदत्तस्य स्खमिति तयोर्भेदश्च प्रतीयते तथा द्रव्यावस्थाशब्देनापि, तस्मात्तयोर्भेदादंशबोधकावस्थाशब्दोपादानं विरुद्धमिति भावः । ननु षष्ट्या स्वस्वामिभावप्रतीतावपि न भेदः प्रतीयते शिलापुत्रकशरीरादौ स्वस्वामिभावप्रतीतावप्यभेददर्शनादित्याशङ्कते-शिलापुत्रकेति। तद्याचष्टे-स्यान्मतमिति। एवं तर्हि शिलापुत्रकशरीरशब्दयोः पर्यायत्वप्रसङ्गेन घटकुटशब्दप्रयोगेऽन्यतरवैयर्थ्यवत् वैयर्थ्यमन्यतरस्य स्यात्, एवं द्रव्यावस्थाशब्देऽपीति तत्वादिविषयशब्दवाच्यत्वं भेदसाधकमेव न शिलापुत्रकशरीरादौ व्यभिचारः, तत्रापि शिलापुत्रकशरीरयोरभेदे पर्यायताप्रसङ्गेन वैयर्थ्यप्राप्या भेदस्यावश्यकत्वादित्याशयेन 30 समाधत्ते-अवस्था शरीरेति । किञ्च सर्वस्य वस्तुनो द्रव्यक्रियात्मकत्वेन शिलापुत्रकशरीरस्यापि तथात्वेन नानैकान्तिकत्वमिति दर्शयति-अत्रापीति शिलापुत्रकशरीरमित्यत्र शरीरशब्दः क्रियारूपः, शू धातुनिष्पन्नत्वेन विशरणबोधकत्वादि
१ सि. क. नने दि. । २ सि. क. °मभिधानात्वे० । ३ सि. क. स्वादिति वि० । ४ सि. क. °षध्ववि० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org