________________
mwwwww
५५८ द्वादशारनयचक्रम्
[उभयनयारे ततोऽर्थान्तरभूतां तां तदन्यगतिविचलनप्रतिबन्धात्मिकामवस्थां दर्शयति, आत्मनोऽक्रियात्वात् क्रियामन्तरेण कतुः कर्तृत्वाभावात् , तस्माद्युपत्तावव्युत्पत्तौ च यदि द्रव्यं ततोऽवस्था यतोऽवस्था ततो द्रव्यमिति विरुध्यते ।
(अत्रापीति) अत्रापि शरीरावस्थाक्रियात्वादन्यत्वम्-नन्वस्माभिरुपपादितं द्रव्यक्रियात्मक । सर्व वस्त्विति, तस्मादत्रापि शिलापुत्रकेण शीर्यते शरारुत्वाच्छरीरमिति शरारुर्भवति तेन शरारुणा
भूयत इति द्रव्यक्रियाभिधानं नातिवर्त्तते, तथा च द्रव्यस्यावस्था-द्रव्यमवतिष्ठते द्रव्येणावस्थीयते इत्यवस्थानस्य क्रियात्वानतिवृत्तेस्ततोऽन्यत्वमेव, एवं तावदव्युत्पत्ती, व्युत्पत्तावपि सामासिकपदत्वात् समासस्य च षष्ठीसमासत्वात् षष्ठ्याश्च कर्तरि विहितत्वात्-कर्तरि षष्ठीयं द्रव्यस्यावस्थेति द्रव्यमवतिष्ठत इत्यदि प्राग्वत् , सा यद्विषयमित्यादि यावत् तदन्यगतिविचलनप्रतिबन्धात्मिकामवस्थां दर्शयति; सा-षष्ठी 10 यद्विषयं द्रव्यस्य कर्तृत्वं-यां क्रियां साधयत् साधनं कर्त्त भवति तद्रव्यं ततोऽर्थान्तरभूतां तां-अवस्था
नक्रियां, दर्शयतीति सम्बध्यते, किं कारणं? आत्मनोऽक्रियात्वात्-तस्य द्रव्यस्य स्वयमक्रियात्वात् क्रियामन्तरेण कर्तुः कर्तृत्वाभावात् कर्तरि षष्ठी [न] स्यात् , ततः-तस्मात् द्रव्यादन्यत्र गतिः, अन्यस्य
गतिः, द्रव्याद्विचलनं-परिस्पन्दः परिणतिः पूर्वस्या औदासीन्यावस्थायाः प्रच्युतिः क्रियान्तरावस्थातो __ वा तयोरन्यगतिविचलनयोः प्रतिबन्ध आत्मा अस्या अवस्थानक्रियायाः सा तदन्यगतिविचलनप्रतिबन्धा15 त्मिका तां दर्शयति षष्ठीति, अथवा तदन्यगतिरिति-तस्मिंश्च नियमेन गतिर्विचलनं शेषं पूर्ववत् ,
पूर्वस्मिन् व्याख्याने भेदोऽनयोः, गतिर्देशान्तरप्राप्तिः[वि]चलनं स्वक्षेत्रेऽपि व्यावृत्ततेति, इह पुनरभेद इति विशेषः, तस्माद्व्युत्पत्तावव्युत्पत्तौ च यदि द्रव्यं ततोऽवस्थेति विरुध्यते, यतोऽवस्था ततो द्रव्यमिति विरुध्यते, आदिग्रहणात् लोके तथा दृष्टत्वात् प्रत्यक्षविरोधः, तथानुमेयत्वादनुमानविरोधः, तद्रूढेश्व
wwwmwmm
mmammmmawww
20 स्याह-शिलापुत्रकेण शीर्यत इति, अनेन क्रिया प्रतिपादिता । शरारुणा भूयत इति, अनेन द्रव्यं प्रतिपादितम् ।
एवं द्रव्यावस्थाशब्देनापि द्रव्यक्रियात्मकं वस्तूच्यत इति दर्शयति-तथाचेति । एवमव्युत्पत्तिपक्षाश्रयेग दोष आदर्शित इत्याह-एवन्तापदिति । द्रव्यस्यावस्थेति षष्ठीसमासत्वात् द्रव्यस्यावस्थानक्रियाकर्तृत्वेन कर्तृषष्ठ्यन्तत्वमिति व्युत्पत्तिपक्षमादर्शयति-व्युत्पत्तावपीति । सा यद्विषयमिति, इयं हि षष्ठी द्रव्यस्यावस्थानक्रियाकर्तृत्वं बोधयति द्रव्यस्य क्रियाहेतुत्वात् , एवं द्रव्यादवस्थाया अन्यत्वमपि दर्शयति, द्रव्यस्य क्रियातो भिन्नत्वात् , खयमक्रियमपि तत् क्रियाव25 द्भवति, अन्यथा तस्य क्रियाकर्तृत्वाभावेन षष्ठ्यनुपपत्तेरिति कर्तृत्वं दर्शितमिति भावः। अथ द्रव्यादन्यत्वं दर्शयतीत्याह
तत इति, तदन्यगतिविचलनप्रतिबन्धात्मिकामिति पदस्य गतिविचलनयोर्भेदमभेदञ्चाभ्युपगम्य द्विधा व्याख्यानं कर्तुकामः प्रथमं व्याख्यानं दर्शयति-तस्माद्रव्यादिति अन्यगतिश्च विचलनञ्चान्यगतिविचलने, तस्मादन्यगतिविचलने तदन्यगतिविचलने इत्येवं समासः, अवस्थानक्रिया हि द्रव्यादन्यत्रान्यस्य गतिं प्रतिरुणद्धि, तथा द्रव्याद्विचलनं-द्रव्यस्य विद्यमानावस्थायाः
प्रच्युतिः, द्रव्यस्य विद्यमानक्रियातोऽन्यस्याः क्रियायाः प्रच्युतिवा, तदपि प्रतिरुणद्धि षष्ठीति भावः । गतिविचलनयोरभेदमभ्युपेत्य 30 व्याचष्टे अथ वेति । पूर्वस्मिन्निति, पूर्वव्याख्यायां गतिविचलनयोर्भेदः, अत्र व्याख्यानेऽभेद इति विशेषः । भेदपक्षे गतिवि
चलनयोरर्थमाह-गतिरिति । व्युत्पत्त्यव्युत्पत्तिपक्षयोर्द्रव्यावस्थयोर्भेदात् अविकल्पितैकत्वे स्ववचनविरोध एवेति भावमाहतसादिति । प्रत्यक्षादिविरोधानादिना दर्शयति-आदिग्रहणादिति खवचनादिविरोध इत्यत्रादिग्रहणादित्यर्थः । लोकेऽपि
१.सि. क. दयुक्तम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org