________________
५५९
द्रव्यक्रियासिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम् रूढिविरोधः, एवं द्रव्यावस्थाविशेष इति क्रियालक्षणमभ्युपगमादिविरोधादयुक्तम् , कालसाधनयोगी भाव इत्येतयोः का[ला]दिष्वव्याप्तेरलक्षण[त्व]मिति तैरेव निराकृतमिति ।।
वन्मनोरथानुवृत्तेस्तु द्रव्यमात्रदर्शनाभिमुखीभूयापि बलादेवात्याज्याभिमततत्त्वद्रव्यशब्दार्थवशात् पुनरपि द्रव्यादर्थान्तरभूताया गतिस्थित्यादिक्रियाया आपत्तिः, भवति भवन वा द्रव्यमिति भव्यार्थत्वात् , तत्र प्रकृतिप्रत्ययार्थव्युत्पत्तेद्रव्यक्रिययोः सिद्धिः, यद्भयते । सा क्रिया यद्भवति तद्रव्यमिति साध्यसाधनभेदात् ।।
त्वन्मनोरथानुवृत्तेस्त्वित्यादि, द्रव्यस्यावस्थामात्रं क्रिया नार्थान्तरमित्येषः सांख्यमतानुवर्तिनो भवतः परप्रत्ययो मनोरथः स नोपपद्यते, सर्वत्र द्रव्यक्रियात्मकभावापत्तिभावादुक्तवत् , अथापि त्वन्मनोरथमनुवृत्त्य द्रव्यमात्रदर्शनाभिमुखीभूयापि-अवस्थाशब्दं श्रूयमाणमपि उज्झित्वा, यद्यपि तदुपर्युक्तं स्याद्रवीकृतचेतसो न किञ्चिद्मः तथापि बलादेव-उपपत्तेरेवात्याज्याभिमततत्त्वद्रव्य-10 शब्दा[र्थवशा]त्-अत्यागाहमभिमतं तत्त्वं तव सांख्यस्य च द्रव्यमेवार्थः, तदभिधायिनो द्रव्यशब्दस्य वशात् तदर्थवशाच्च पुनरपि वारं वारं द्रव्यादर्थान्तरभूताया गतिस्थित्यादिक्रियाया आपत्तिः, सा क्रियाऽऽपन्ना, कस्मात् ? भवति भवनं वा द्रव्यमिति भव्यार्थत्वात् , द्रव्यञ्च भव्ये भव्यशब्दश्च कर्तरि भावे वाऽस्तु तथा द्रव्यशब्दोऽपि, तत्र द्रव्यशब्दस्य भव्यार्थत्वात् प्रकृतिप्रत्ययार्थव्युत्पत्तिरवश्यम्भाविनी, ततश्च[प्रकृति]प्रत्ययार्थव्युत्पत्तेः द्रव्यक्रिययोः सिद्धिः-प्रकृत्यर्थस्य क्रियात्वात् प्रत्ययार्थस्य द्रव्यत्वात् कथं 15 व्युत्पत्तिरिति चेदुच्यते साध्यसाधनभेदात् , यद्भूयते सा क्रिया, यद्भवति तद्व्यम्,-यत्तद्भवता वस्तुना भूयते स प्रकृत्यर्थो भावः, यत्तद्भवति तत्कर्तृ, तस्मात् कर्तृभाव[ना]नात्वाद्रव्यक्रियानानात्वं स्यात् , द्रव्यावस्थयो/दस्य दर्शनालोकविरोध इत्याह-लोक इति । तयोर्भेदस्यानुमेयत्वात्तेनैकत्वं विरुध्यत इत्याह-तथेति । रूढिविरोधमाह-तद्रूडेश्चेति । द्रव्यावस्था क्रियेति लक्षणाभ्युपगमोऽपि एकत्वाभ्युपगमादिविरोधादयुक्त इत्याह-एवमिति । द्रव्यस्य कालयोगात् साधनयोगाद्वा भेदात् कालयोगोभावः साधनयोगो भाव इत्यपरेषां लक्षणं तैरेव कालादौ दोषमादये 20 दूषितमिति नात्र तत्प्रस्तूयत इति दर्शयति-कालसाधनेति । अथ द्रव्यमानं तत्त्वमिति सांख्यपक्षाभ्युपगमेऽपि क्रियाया अर्थान्तरत्वं बलात्ते प्रसज्यत एवेत्याह-स्वन्मनोरथानुवृत्तेस्त्विति द्रव्यमात्रप्रत्ययस्य मनोरथमात्रत्वे कारणमाहसर्वत्रेति भावस्य द्रव्यक्रियोभयरूपतायाः प्रतिपादितत्वादिति भावः । त्वदुपरि द्रवीकृतचेतसो वयं तव दर्शनविषयेऽव. स्थाशब्दपरिहारेण यद्यपि किञ्चिन्न ब्रूमो येनोक्तं स्यात्तथापि युक्तिभिरेव द्रव्यभिन्ना क्रिया सिद्ध्यतीत्याह-अथापीति। तववैयाकारणस्य, द्रव्यभिन्नक्रियापत्ती हेतुमाह-भवतीति । भवतीति कत्तव्युत्पत्तिः, भवनमिति भावव्युत्पत्तिर्भव्यशब्दस्य, 25 भव्यशब्दो हि 'भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा' इति कृदन्तसूत्रेण भावे कर्तरि च निपातितः, 'द्रव्यञ्च भध्ये' इति तद्धितसूत्रेण भव्यार्थे द्रव्यशब्दो निपातितः, तस्माद्रव्यशब्दो भव्यशब्दवत् कर्तरि भावे वा, उभयव्युत्पत्यङ्गीकारेण च भावप्राधान्यपक्षे क्रियायाः कर्तृप्राधान्यपक्षे द्रव्यस्य च सिद्धिरिति भावः । द्रव्यशब्दवशेन तत्सिद्धिमाहद्रव्यश्चेति । द्रव्यशब्दार्थवशेन तत्सिद्धिमाह-तत्र द्रव्यशब्दस्येति, प्रोक्तसूत्रेण द्रव्यशब्दस्य भव्यार्थत्वेनैकस्माच्छब्दात् क्रियाकर्तृभावादिबोधस्य विरोधादसम्भवेनान्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययविभागकल्पनयाऽर्थभेदात् प्रकृतिभूतस्य द्रोः क्रिया 30 प्रत्ययार्थः कर्ता द्रव्यमिति द्रव्यक्रिययोः सिद्धिरिति भावः । प्रकृतिप्रत्ययार्थव्युत्पत्तिमेव तावदाह-साध्यसाधनभेदादिति । धातुवाच्या क्रिया साध्यम् , प्रत्ययवाच्यः कर्त्ता सिद्धरूपः, भावप्रत्ययार्थोऽपि क्रियैवेति सिद्धत्वसाध्यत्वाभ्यां कर्तृभाव
१ सि. क. योगाभाव । २ सि. क. सारं सारं । ३ सि. क. नानात्वात् ।
womenmommmmm
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org