SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ५६० द्वादशारनयचक्रम् [उभयनयारे नान्यथा, तस्मान्नयोत्थानप्रकृताद्रव्यशब्दार्थवशात् भव्यभवत्यादिशब्दवशाच्च बलादेव द्वित्वसिद्धिरिति साधूक्तम् । यत्पुनरेतदुक्तमविशिष्टदेशसंयोगो वा स्थितिरिति लक्षणं तत्र युक्तं वाशब्दवर्ण्यम्, विकल्पार्थासम्भवात् द्वाभ्यामविरोधात् । 6 (यदिति) यत्पुनरेतदुक्तमविशिष्टदेशसंयोगो वा स्थितिरिति लक्षणं तत्र युक्तं वाशब्दवय॑म् तत्रापि वाशब्दस्यानर्थक्यं विकल्पार्थासम्भवात्, कस्मात् पुनस्तद्युक्तं ? द्वाभ्यामविरोधात्-क्रिया द्रव्यादर्थान्तरमित्यनेन दर्शनेनाविरोधात् , उक्तिवत्तु क्रियालक्षणेन द्रव्यक्रियाश्रयेण च प्रागुक्तेन न्यायेन चाविरोधादिति , एवं तावत् प्रवृत्तिसामान्यक्रियात्वनिवृत्त्यर्थविशेषग्रहणप्रयोजने दोषाभिधानं कृतम् । अधुनेदमपि विशेषग्रहणप्रयोजनं दूष्यते यदपि च द्वितीयं विशेषग्रहणप्रयोजनभिधीयते सर्वदा सर्वभावानां प्रवृत्तिसमन्वयात् देवदत्त इति नाप्रवृत्तिकम् सप्रवृत्तिकमेव, पचत्यादिवदेवदत्तादयोऽपि शब्दाः क्रियावचनाः, तस्मात् क्रियावचनो धातुरिति धातुसंज्ञास्तेऽपि स्युः, विशेषग्रहणसामर्थ्यात् पुनः देवदत्तादयो विशेषा न भवन्तीति निवर्त्यन्ते, सर्वभेदसम्बन्धानुगुण्यात्तु प्रवृत्तिसामान्यमेवेदं भवनवत् सत्यपि भवद्भवनभावविशेषे शब्दस्याविशेषार्थत्वात् न क्रियेति । (यदपि चेति) यदपि च द्वितीयं विशेषग्रहणप्रयोजनमभिधीयते सर्वदेत्यादि, सर्वदेति 15 प्रवृत्त्यनिवृत्तिं दर्शयति, सर्वभावानामिति व्याप्तिः, कुतः ? प्रवृत्तिसमन्वयाद्धेतोः देवदत्त इत्यपि नाप्रवृत्तिक-नाक्रियं वस्तु तेन शब्देनाभिधीयते, किं तर्हि ? सप्रवृत्तिकमेवोच्यते, यथा पचत्यादीनां क्रियावचनत्वमेवं देवदत्तादीनां द्रव्यवाचित्वाभिमतानामपि, वाच्यस्यार्थस्य प्रवृत्तया सत्तया गत्यादिसर्वभवनात्मिकया समन्वितत्वम् , ततः पचत्यादिवदेवदत्तादयोऽपि शब्दाः क्रियावचनाः, तस्मात् 'क्रियावचनो धातुः' (महाभा. अ १ पा ३ सूत्रे १) इति धातुसंज्ञास्तेऽपि स्युः, विशेषग्रहणसामर्थ्यात् 20.पुनर्विशेषा न भवन्तीति निवर्त्यन्ते, कस्मात् पुनर्देवदत्तादयो विशेषा न भवन्तीति ? उच्यते भेदामुव्यक्रिययोर्भेद इति भावः । एतदेवादर्शयति-यद्भूयत इति । नयोत्थानेति, एतन्नयोत्थाने प्रकृतो यो द्रव्यशब्दः तदशात्तदर्थवशाच्चेत्यर्थः । द्रव्यञ्च भव्य इति द्रव्यपर्यायभव्यशब्दवशात् यद्भवति यद्भयत इत्यादितदर्थशब्दवशादपि द्रव्यक्रियाभेदसिद्धिरित्याह-भव्येति । अथ गतिस्थित्योर्द्रव्यान्यभावत्वसमर्थनावसरे स्थितिलक्षणं प्रोक्तमभ्युपेत्याह-यत्पनरिति । अन्य प्रकारेण परिस्पन्दपरिणतद्रव्यस्य प्रकारान्तरेणाविशिष्टदेशसंयोगपरिणामेन भवनमेव स्थितिः, सा च प्रवृत्तिसामान्यं नातिवर्तत 25 इति भावः । अथ सर्वभावानां सर्वदा प्रवृत्तेः प्रवृत्तिवियुतवस्त्वभावात् प्रवृत्तिमात्रमेव किया तद्वाचकत्वात् पच्यादीनामिव देव. दत्तादिशब्दानामपि धातुत्वं स्यात्तद्वारणार्थ प्रवृत्तिविशेषः क्रियेत्युच्यत इति विशेषप्रयोजनं वाद्युक्तं निराकर्तुमाह-यदपि चेति । देवदत्तादेव्यस्य कथं क्रियावचनत्वमित्यत्राह-प्रवृत्तिसमन्वयादिति, क्रिया हि कारकाद्भेदेन नावगृह्यते, कारकाणां हि प्रवत्तिविशेषरूपाऽसौ तदभेदेन तत्समवेतैव. एवञ्च द्रव्यासंसृष्टक्रियावाचकस्य केवलस्य धातोः प्रयोगो यथा नास्ति किन्तु साध्यमा नावस्थारूपेणैव तथा क्रियानात्मकस्य द्रव्यस्यापि प्रयोगो नास्ति, अत एव हि परं ब्रह्म अवाच्यमुच्यते, तथा च प्रवृत्तिविशिष्ट30 स्यैव देवदत्तादेर्वाच्यतया देवदत्तादिशब्दानामपि क्रियावचनत्वाद्धातुत्वं प्रसज्यत इति भावः । कृते च विशेषग्रहणे क्रियाप्र वृत्तिका अपि देवदत्तादिशब्दा न क्रियाविशेषवचना इत्याह-विशेषग्रहणेति । तत्र कारणमाह-सर्वभेदेति सर्वे भेद _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy