SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ mmmmmmmmmmmmmmmmmmmm ५५२ द्वादशारनयचक्रम् [उभयनयारे तथाऽभवनं किन्तु भवनमेव, यथाऽगतिस्थितिः गतेरेव प्रकारान्तरता, सति नियतत्वात् प्रकाराणाम् । (यथेति) यथा तिष्ठति पचतीत्यन्यथाभवनं-अन्येन प्रकारेण परिस्पन्दपरिणतस्य द्रव्यस्य ततः प्रकारादन्येनापरिस्पन्दपरिणतिप्रकारेण भवनं तिष्ठत्यास्ते शेते इत्यादि, तण्डुलादिकठिनद्रव्यमृदू5 भवनं पचतीत्यादि, यथैताः क्रिया अन्यथाभवनमात्रभेदाः प्रवृत्तिसामान्यं भवनं नातिवर्तन्ते तथा विनश्यति प्रध्वंसते नितिष्ठतीत्यादयोऽपि भवनप्रकाराः प्रवृत्तिसामान्यं भावत्वञ्च नातिवर्तन्ते, एवं क्रियापदवाच्यस्यार्थस्यान्यथाभवनमात्रता व्याख्याता, येऽप्यत्यन्ताभावामिमताः खपुष्पादिशब्दवाच्याः तेषामपि न तु तथाऽभवनं-अन्येन प्रकारेण न त्वभवन किन्तु]भवनमेव नात्यन्ताभवनमित्यर्थः, यथाऽगतिस्थिति:-गतेरन्या स्थितिरगतिस्थितिः, न तु गत्यभावमात्रं गतेरेव प्रकारान्तरता यथा सा स्थितिर10 न्यथाभवनमेवं खपुष्पादिरप्यन्यथाभवनम् , किं कारणं ? सति नियतत्वात् प्रकाराणाम् , प्रकारत्वात् सन्नेव खपुष्पादिः, यो यः प्रकारः स सन्नेव, यथा गतिनिवृत्तिः स्थितिरुक्तन्याया[त् ]सती । कथं खपुष्पादेः प्रकारतेति चेदुच्यते खपुष्पस्य च समवायरूपेणानभिव्यक्तिः, अशोककुसुमादिप्रकारेणाभिव्यक्तिरिति प्रकारत्वानतिवृत्तेन॒व्यक्रिययोश्च सर्वात्मकत्वाद्भवनद्वयाभेदात् कतमत् खं? कतमच्च पुष्पाणां विक15 सनमन्यदिति देवदत्तगमनभवनद्वयत्ववत्तदपि, एवञ्च गमनस्थानादिक्रमभाविनीनामपि क्रि याणां सततसम्प्रवृत्तितादात्म्यानतिक्रमादेक एव पूर्वापरीभूतो भावः प्रवृत्तिरित्युच्यते, प्रकर्षेण वर्तनात् स च प्रकर्षः सर्वप्रभेदानुभवनरूपः, स एव चान्त वितस्वप्रभेदत्वात् प्रवृत्तिविशेष इत्युच्यते, न त्वदिष्टकारकाणांप्रवृत्तिविशेषः सामान्यप्रवृत्तेर्भिन्नः कश्चित् भुजिविशेषवत् । Ammmmmmmmmm यथैताः क्रिया इति सामान्यस्य विशेषात्मकत्वात् सम्बन्धिभेदेनैक एवानेकरूपः, यथा खगतभवनलक्षणापेक्षया सामान्यभाव30 स्वरूपोऽपि तण्डुलादेम॒दूभवनाद्यपेक्षया पचिर्विशेषरूपः,यथा वा अपरिस्पंदात्मना स्थितिमद्रव्यमेव पचनादिलक्षणपरिस्पन्दप्रकारेण पचतीति भवति, एवं गत्यादिपरिस्पन्दप्रकारेण परिगतं द्रव्यमपरिस्पन्दप्रकारेणाऽऽस्ते तिष्ठति शेते इत्यादिरूपेण परिणतं भवति, अतः पचनगमनस्थानाऽऽसनशयनादयो विशेषास्तदात्मना भवनलक्षणं सामान्यं नातिवर्तन्त इति भावः। तदेवं द्रव्यस्य भावाभावात्मकत्वाद्धावभागमाश्रित्य भावविशेषाणां प्रवृत्तिसामान्याविनाभावित्वमादर्शितम,अथाभावभागमाश्रित विनाभावित्वं दर्शयति-तथा विनश्यतीति घटादिद्रव्यं हि क्वचिद्देशे काले वा सौक्षम्यात्तनुतामापद्यते साऽवस्था तिरोभावा25 त्मिका विनश्यति प्रध्वंसत इत्यादिशब्दैव्य॑वह्रियत इति तथाविधद्रव्यप्रवृत्तिरेव विनाश इति प्रवृत्तिसामान्याविनाभाविभाव एवा. साविति द्रव्यस्यान्यथाभवनमेव क्रियापदाभिधेयोऽर्थ इति भावः । अथात्यन्ताभावत्वेनाभिमतानां खपुष्पादीनामपि भावत्वं समर्थयति-येऽप्यत्यन्ताभावाभिमता इति खपुष्पादयोऽन्यथाऽभवनरूपा इति न किन्त्वन्यथाभवनरूपा एव, तेषामपि प्रकारत्वात् , यथा गतेरन्या स्थितिर्गतेरेव प्रकारान्तरं न तुगतरत्यन्ताभावः, तथा खपुष्पादिरपि भावादन्यो भावस्यैव प्रकारान्तरं न तु भावस्यात्यन्ताभाव इति भावः । खपुष्पादिर्भावः प्रकारत्वात् स्थितिवदिति मानमभिप्रेत्याह-यथाऽगतिस्थितिरिति 30 गतेरन्यप्रकारेण भवनमेव स्थितिर्न तु गत्यभावमात्रमित्यर्थः । हेतुमाह-सति नियतत्वादिति प्रकार भावः । व्याप्तिं प्राहयति-यो यः प्रकार इति । पक्षे खपुष्पादौ हेतुं प्रकारत्वं साधयत्यसिद्धिपरिहाराय-खपुष्पस्य चेति १.सि. क. कथमगतिः । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy