________________
wwwmniwwwmom
असद्वाचिनां भावार्थत्वम्] न्यायागमानुसारिणीव्याख्यासमेतम् चानुत्पद्यमानस्थितिर्गतिनिवृत्तिरिति, तथा च कल्प्यमानायामनुत्पद्यमानस्थितौ गतिनिवृत्तौ गतिस्थित्याद्येकभूतं भवनं प्रागुक्तन्यायकं तेनाविनाभूतं द्रव्यं तस्य विनाशोऽत्यन्तमभावस्तद्विषयं स्थानमित्यभिधानं स्यात्, न चैवं द्रव्यस्य कूटस्थनित्यत्वाद्भवितुमर्हति, तस्मादेव च-तदनिष्टभयात् प्रतिपत्तव्यं गतिनिवृत्तिः स्थिति भावस्तथा खपुष्पादिश्चेति, तदुपसंहरति-तस्माद्गत्यभावलक्षितेत्यादि गतार्थम् ।
अनन्तरं खपुष्पादिरपि प्रसङ्गतोऽमिहित:
अभाव इति च भावादन्यो भावविशेषः, अब्राह्मणक्षत्रियादिवत् , एवं खपुष्पाद्यसत्त्ववाचिशब्दानां भावार्थत्वम् वक्ष्यते चास्योदाहरणम् ।
(अभाव इति) योऽसावभावाभिमतस्तत्राप्यभाव इति नापदार्थ उच्यते, किं तर्हि ? नत्रः पर्युदासवाचित्वाद्भावादन्योऽभाव इति भावविशेषः, अब्राह्मणक्षत्रियादिवत् , एवं खपुष्पाद्यसत्त्ववाचिशब्दानां भावार्थत्वम् , एवमसद्भावाभिमतेष्वपि सदर्थविषयत्वमिति न्यायव्यापितां दर्शयति-वक्ष्यते चा- 10 स्योदाहरणमतिदेशस्य ।
इदं तावत् प्रकृतं भाव्यते
यथा तिष्ठति पचतीत्यन्यथाभवनं प्रवृत्तिसामान्यं भवनं नातिवर्त्तते तथा विनश्यति प्रध्वंसते नितिष्ठतीत्यादयोऽपि, येऽप्यत्यन्ताभावाभिमताः खपुष्पादिशब्दवाच्यास्तेषामपि न तु स्थितेरनुत्पद्यमानतालक्षणाऽवस्थेत्युच्येत तथा च गत्यविनाभूतद्रव्यविनाश एव स्थितिरिति स्यात् कूटस्थनित्यस्य द्रव्यस्येदृशी 15 अवस्था कथं सङ्गच्छेतेति भावः । गतिस्थित्यादीति गतिभवनेन स्थितिभवनेन वा केनचिदेकेन भवनेनाविनाभूतं द्रव्यं भवति, द्रव्यञ्च गमनस्थानादिसर्वप्रमेदानुभवनात्मकमिति पूर्व समर्थितमेव, स्थितेर्गमनाभावरूपत्वे तु गमनाविनाभूतद्रव्यनिवृत्तिरेव स्थितिरिति स्यात्तच्च द्रव्यस्य कूटस्थनित्यस्य न सम्भवतीति भावः । एवञ्च गतिनिवृत्तिः स्थित्यात्मा भाव एवाभ्युपेय इत्याहतस्मादेव चेति । गत्यभावलक्षितेति, अत्रापि मूलं नोपलभ्यते । गत्यभावेन लक्षिता या भावभूता स्थितिस्तदविना भाव्येव द्रव्यमिति भावः स्यादिति प्रतिभाति । ननु 'नजिव युक्तमन्यसदृशाधिकरणे' इति न्यायात्, अभाव इत्यत्र भावसादृश्यस्य 20 भावान्ये भावनम् , गतिनिवृत्त्यादिवद्भावनिवृत्तेरेव प्रतीतेरसतो भावान्यभावत्वासम्भवादित्याशङ्कायामाह-अभाव इति चेति. निरुपाख्ये व्यामोहाद्भावतत्त्वसमारोपे तत्त्वाध्यवसायात् भावादन्योऽभाव इति नञ् प्रयुज्यते भावादन्योऽसाविति बोधयितुम् , यथा ब्राह्मणसत्ताविषया बुद्धिर्यदा कुतश्चित् क्षत्रिये प्रसज्यते तदाब्राह्मणशब्दः प्रयुज्यते, सोऽयं मिथ्याध्यवसायो यदा तत्त्वज्ञानान्निवर्त्तते तदा ननः प्रयोगः, अब्राह्मणोऽयं क्षत्रिय इति क्षत्रियपदसामानधिकरण्यात्तदवगतिः नायं ब्राह्मणो मिथ्या त्वेवमवसितः, किन्तु पर्युदासवाचित्वान्ननः तत्सदृशो ब्राह्मणोऽयमिति सदृशः क्षत्रियादिरेवाब्राह्मणशब्दार्थो न लोष्टादिः समारोपनिबन्धनस्य 25 सादृश्यादेरभावात् , तथा निरुपाख्येऽपि बुद्ध्या निरूपितमाकारान्तरमवलम्ब्य भावशब्दप्रयोगात् तत्त्वज्ञाने तु तन्निवर्त्तनाय नमः प्रयोग इति भावः । सर्व एव शब्दा गुणसमुदाये वर्तन्त इति पक्षे जातिगुणक्रियालक्षणगुणसमुदायस्यैव शब्दात् प्रतीतेः सामान्यभ. वनमाश्रित्य खपुष्पादौ सामान्य विशेषवाचिभावशब्दप्रयोगप्रसङ्गेऽभावपदं प्रयुज्यते, तत्प्रयोगे च खपुष्पादौ यो विशेषो नास्ति तस्यैव निवृत्तिः प्रतीयते, अवशिष्टस्य च सद्भावोऽवगम्यत इत्याशयेन व्याचष्टे-योऽसाविति,अभावाभिमतः खपुष्पादिः, तत्राप्य
पदेन नापदार्थो बोध्यते, किन्तु भावविशेषस्यैव निषेधः प्रतीयत इति भावविशेषादन्यो भावविशेष एव खपुष्पादिरिति भावः । 30 दृष्टान्तमाह-अब्राह्मणेति, ब्राह्मणशब्दः विद्याविनयादिसम्पन्नब्राह्मणत्वजातिमति प्रसिद्धः, तंत्र ब्राह्मणत्वजातिरहिते क्षत्रियादौ विद्याविनयादिगुणाश्रयेण ब्राह्मणशब्दप्रवृत्तिप्रसङ्गे ना तदेकदेशाप्रवृत्तिता बोध्यत इति भावः । खपुष्पादेभोवत्वं कथमित्यत्राहवक्ष्यते चेति, अनुपदमेवेति भावः । अथ विशेषभवनानि सामान्यभवनं नातिवर्तन्त इत्यादर्शयति-यथा तिष्ठतीति ।
१ सि. क. खपुष्पादिसव. । २ सि. वक्ष्येचा ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org