________________
५५० द्वादशारनयचक्रम्
[ उभयनयारे स्यादिति, यदि स्यान्मतं विरोधित्वादित्येतदनैकान्तिकमभावप्रसङ्गात् , गतेरभावो गत्या विरुध्यते प्रकाशाभावेनेव तमसा प्रकाशः, यथा त्वन्मतेनेव-ननु प्राग् गतिरेव क्रियान्तरप्रादुर्भावेनानभिव्यक्तिं नीयमाना भाव एवेत्युक्तम् , तत्र स्थित्या विरोधवत् खपुष्पादिना गत्यभावेनापि विरोधः, तत्र तद्विरोधित्वात्तदविनाभाव ईति गतिरभावाविनाभाविनी स्यात्तद्विरोधित्वात् , यच्च यद्विरोधि तत्तेना । विनाभावि दृष्टम् , यथा गतिः स्थित्या, खपुष्पादेर्वा भावत्वमेव स्याद्गतिविरोधित्वात् स्थितिवत् , एवं तदविनाभावित्वे सति कुत एतद्भावविषयमेव एतदभिधानं स्थितिरिति, खपुष्पादिरित्यभावविषयमेवैतदिति वा कुतः ? विशेषो वाऽत्र वाच्य इति ।
अत्र ब्रूमो यद्यभावोऽपि भावेनाभावेन वा भावो विरुध्यते तावुभौ भावावेव तर्हि, विरोधित्वात् यत्किञ्चिद्वद्देशतः कालतो वा, गत्यभावमात्रविषयत्वे चानुपपद्यमानस्थितिर्गति10 निवृत्तिरिति स्यात् तथा च कल्प्यमानायामनुपपद्यमानस्थिती गतिस्थित्यायेकभवनाविनाभूतद्रव्यविनाशविषयं स्थानमित्यभिधानं स्यात् , न चैवं द्रव्यस्य कूटस्थनित्यत्वाद्भवितुमर्हति, तस्मादेव च गतिनिवृत्तिः स्थिति भावः खपुष्पादिश्च, तस्माद्गत्यभावलक्षितभावविशेषस्थित्यविनाभाव्येव द्रव्यमिति ।
__ अत्र ब्रूमो यद्यभावोऽपीत्यादि, खपुष्पादेर्विपक्षं कृत्वा भवेन्नानिष्टापादनम् , किं विशे15षेणोक्तेन ? यथा स्थितेरभावत्वायुक्तिस्तथा खपुष्पादेरित्यभिप्रायः, तत्कथं भाव्यत इति तदुच्यते-यद्यभावो
भावेन अभावेन वा भावो विरुध्यते तावुभौ यो विरुध्येते भावावेव तर्हि विरोधित्वात् , यत्किश्चिद्वदित्युदाहरणसौलभ्यं दर्शयति, अहिनकुलादिवत् घटपटादिवत् घटकपालादिवद्वा सर्वत्र सहानवस्थानलक्षणविरोधदर्शनादेशतः कालतो वेति, तस्मात् खपुष्पादेरपि भावत्वं नानिष्टमिति, यदपि च त्वया स्थित्यभिधानमभावविषयमिति मन्यते तस्यापीयमुपपत्तिः स्याद्भवन्ती तद्यथा गत्यभावमात्रविषयत्वे 20 तद्विरुद्धत्वं स्थितिलक्षणे भावे गत्यभावे च विद्यत इत्यनैकान्तिकमिति शङ्कते-स्यान्मतमिति । गतिस्तु भाव एवेत्युक्तमित्याहननु प्रागिति गतिर्भावः क्रियान्तरेणाभिव्यक्ति नीयमानत्वात् पचनादिवदिति भावः। गतेः स्थित्या विरोधस्येवान्येनापि विरोधो दृष्ट इत्याह-तत्रेति गतावित्यर्थः । गतिरभावाविनाभाविनी अभावविरोधित्वात् स्थितिवदित्याह-तत्र तद्विरोधित्वादिति । अभावविरोधित्वस्याभावाविनाभावित्वव्याप्तत्वेऽपि स्थितेर्भावत्वमिष्यते चेत्तर्हि खपुष्पादेरपि भावत्वं स्यादित्याह-खपुष्पादे
ति, गतिविरोधित्वात् स्थितेरिव खपुष्पमपि भावः स्यादिति भावः । एवञ्च तद्विरोधित्वेन तद विनाभावित्वस्य स्थितिखपुष्पयोः 25 समानत्वेऽपि स्थितिशब्दो भावमेव वक्तिनाभावम् ,खपुष्पशब्दोऽभावमेव वक्ति न तु भावमिति कुतो वैषम्यम् , विशेषहेत्वभावादिति दर्शयति-एवमिति। तद्विरोधित्वस्य भावत्वव्याप्तत्वात् खपुष्पादौ यदि तद्विरोधित्वमभ्युपगम्यते तर्हि स्यात्तस्यापि भावत्वम् किं नः छिन्नमित्याशयेन समाधत्ते-अत्र बम इति,एवञ्च खपुष्पादिर्न व्यभिचारापादकः तद्विरुद्धत्वस्य भावधर्मत्वात्तुच्छेऽवृत्तरित्य
। एतदेवाचष्टे-खपष्पादेरिति । यदि तत्रापि हेतुरभ्युपेयते तर्हि सोऽपि भाव एवेत्याह-किं विशेषणोक्तेनेति। हेतुबलादेव भावत्वात् तत्सत्त्वे स्थितेरिव खपुष्पादेरप्यभावत्वमयुक्तमेव स्यादित्याह-यथा स्थितेरिति । भावत्वमेव समर्थयति30 यद्यभाव इति भावयोर्विरोधित्वञ्च देशतः कालतो वा सहानवस्थानरूपम् , यथाऽहिनकुल योः घटपटयोर्देशतः घटकपालयोश्च कालत इत्याह-अहिनकुलादिवदिति । यदि स्थितिर्गत्यभावविषयैव भवेत्तदा दोषमभिधत्ते-यदपि चेति गतिनिवृत्तिः
सि. नास्तीदं पदम् । २ सि. क. भावात्त इति। ३ सि. क. भावाननि० । ४ सि. क. योविरुध्यते । ५ सि. क. त्वचा।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org