________________
भाव एव गतिस्थिती ]
न्यायागमानुसारिणीव्याख्यासमेतम्
५४९
यदि स्थितिर्नामेत्यादि, स्थितेर्भावत्वानभ्युपगमे द्वयी गतिः स्थितिशब्दस्य स्यात्, तृतीयविकल्पाभावात्, यद्वा स्थित्यभिधानमवस्तुकं यद्वा द्रव्यमात्रविषयं स्यात्, किचात: ? इदमतो भवति दोषजातम्, अवस्तुकत्वे विवक्षाशब्दयोरप्रवृत्तिप्रसङ्गः - यद्यवस्तुविषयं स्थितिशब्दवचनं वक्तुमिच्छा विवक्षा सा स्वनिश्चितमर्थं परं प्रत्यायेयामीति जायते, अर्थाभावाच्च न जायते, तथा चाभिधीयतेऽनेनेत्यभिधानं स्थितिशब्दः, तस्याभावः स्यादर्थाभावात्, काकवासितादिवदनर्थकं वा तत्स्यादिति, एवं 3 तावदस्तुकत्वे दोष:, अथ द्रव्यमात्रं स्थितिः द्रव्यस्याविरोधाद्गतावपि स्यात्, यथा देवदत्तसद्भावाद्गत्यविरोधाच्च देवदत्तो गच्छतीत्यत्र देव [ दत्त ] त्वाभिधानं प्रवर्त्तते तथा देवदत्तस्तिष्ठति गच्छति चेत्येतद्भिधानं प्रवर्त्तेत, उभयत्र द्रव्यस्य सत्त्वाद्विशेषाभावाच्च एवं दोषदर्शनान्न गत्यभावमात्रं स्थितिः, यतस्तु खल्वित्यादि विरोधाविरोधद्भाव एव गतिस्थिती - गतिस्थित्योः परस्परतो विरोधात् देवदत्तद्रव्येण सहाविरोधाद्भाव एव गतिस्थिती द्रव्यवत् प्रन्थो गतार्थो यावद्भवनान्यत्व एव गतिविरोधिनी स्थितिरिति, 10 भवनान्यत्व इति द्रव्यभवनार्दनन्यैव गतिः स्थितिर्वा इति प्रवृत्तिभवनान्यत्व एवेति यथोपक्रान्तमुपसंहरति ।
स्यान्मतं विरोधित्वादित्यनैकान्तिकमभावप्रसङ्गात्, गतेरभावो गत्या विरुद्ध्यते प्रकाशाभावेनेव तमसा प्रकाशः त्वन्मतेनेव, स्थित्या विरोधवत् खपुष्पादिना गत्यभावेनापि विरोधस्तत्र तद्विरोधित्वात्तदविनाभावात्, खपुष्पादेव भावत्वमेव स्यात् गतिविरोधित्वात् 15 स्थितिवत्, एवं सति कुत एतद्भावविषयमेव, अभावविषयमेवैतदिति कुतः ? इति ।
स्यादिति गतिद्वयव्यतिरिक्तगतेरभाव इत्याह-स्थितेरिति । गतिद्वयं प्रदर्शयति यद्वेति । तत्र प्रथमपक्षे दोषमाह - अवस्तुकत्व इति, विवक्षापूर्विका हि शब्दप्रवृत्तिः, तत्र यदि स्थितिरवस्तु तर्हि तत्र विवक्षाऽनुदयेन शब्दप्रवृत्तिर्न स्यादिति भावः । इदमेव स्फुटयति- यद्यवस्तुविषयमिति, गतिनिवृत्तिर्यद्यभावमात्रं तर्ह्यवस्तुत्वात् स्थितिशब्दोऽनभिधानं भवेत् तेन कस्यचिदर्थानभिधानादिति भावः । ननु अभावोऽसन् अवस्तु शशशृङ्गम् निवृत्तिरित्यादयः शब्दा अपि 20 असदर्थबोधका दृष्टाः, अन्यथाऽसदिदमिति परप्रतिपादनासम्भवः स्यात्, हरिणाप्युक्तम् 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' । इति, तस्मान्नानभिधानं स्थितिशब्द इत्याशङ्कायामाह - काकवासितादिवदिति । अथ द्वितीयपक्षे दोषमाहअथ द्रव्यमात्रमिति, यदि स्थितिशब्दस्य द्रव्यमर्थस्तर्हि तस्य गतौ स्थितौ वैकरूपत्वाद्गच्छत्यपि तिष्ठतीत्यभिधानं प्रवर्तेतेति भावः । विशेषाभावाच्चेति गच्छति द्रव्ये गच्छतिशब्द एव प्रयोक्तव्यो न तु तिष्ठतिशब्द इत्यत्र नियामकाभावादित्यर्थः । उपसंहरति - एवमिति तदेवं स्थितेर्गत्यभावमात्रत्वे दोषदर्शनान्न तन्मात्रं स्थितिः किन्तु गतिविरोधिभावविशेष एवेति भावः । 25 अथ गतिस्थित्योर्भावत्वं परस्परतोऽन्यत्वं च साधयति - यतस्तु खल्विति अत्र मूलं सम्यङ्नोपलब्धम् । यथा गतिस्थित्योर्द्रव्येण सहाविरोधाद्भावत्वम्, तथा भवनस्य प्रवृत्तिलक्षणस्यान्यान्यत्व एव गतिस्थित्योर्विरोधः सम्भवति, अतो विरोधाविरोधाद्भावत्वं गतिस्थित्योस्तथा च स्थितिर्भाव एव तद्विरुद्धत्वादिति भावः । अथ विरोधित्वं तयोर्न सम्भवति भावाभावयोरेव विरोधात्, दृष्टं हि प्रकाशाभावस्वरूपेण तमसा प्रकाशस्य विरोधः, गतेश्च स्थित्या विरोधवत् खपुष्पादिनापि विरोधोऽस्ति तत्रानेकभावैर्विरोधकल्पनापेक्षया गत्यभावेनानेकभावनियतेन विरोधो लाघवाद्युक्तः, अस्ति हि गत्यभावः आसनशयनादिकालेऽपीति 30
१ सि. क. भवत्वान्नभ्यु ० । २ सि. क. त्याययामिति । 'भवनादननैव ।
Jain Education International 2010_04
३ सि. क. 'विरोधिभावावस्तुस्थितिः । ४ सि. क.
For Private & Personal Use Only
www.jainelibrary.org