________________
mmmmmmmmmmmm
wwwmmmmmm
द्वादशारनयचक्रम्
[उभयनयारे न्धाद्भुजेः निवृत्तिर्न क्रियान्तरबाधनात् तथैव तदपि स्यात् , अत्रोच्यते अत्रापि तु मा संस्था भुजिनिवृत्तिरभाव एव, किं तर्हि ? फलं क्रियान्तरम् , बुभुक्षां हि बाधित्वा भुक्तिक्रियाप्रादुर्भावः भुक्ति बाधित्वा तृप्तिक्रियाप्रादुर्भाव इत्येवं क्रियाचक्रकान्येतानि, तद्वन्नाभावो गतिनिवृत्तिः भाव एव स्थितिरिति ।
स्यादेतदित्यादि यावदेवमेतदपि स्यादिति, यथा तु भुक्तिक्रियाया निवृत्तिस्तृप्तिफलावसानातत्प्रयोजनमुद्दिश्य कारकप्रवृत्तेः, तस्मिंश्चावसिते प्रयोजने कारकाणि न प्रवर्तन्ते तस्मात् कारकानभिस म्बन्धात् भुजेनिवृत्तिः न क्रियान्तरबाधनात् , एवं गतिरपि प्राप्तिफलावसाना प्रयोजनाभावे कारकानभिसम्बन्धान्निवर्तते न क्रियान्तरबाधनादतः संशेमहे किं स्वप्नजागरणवक्रियान्तरन्यग्भवने क्रियान्तरो,
द्भवः तादात्म्ये सत्येव स्यात् ? उत अत्यन्तनिवृत्तिरेव गतेः, फलावसाने भुजिक्रियावदिति, अत्रोच्यते 10 अत्रापि तु मा मंस्था भुजिनिवृत्ति[रभाव एवेति, किं तर्हि?फलं-तृप्तिः क्रियान्तरं प्रवृत्तेरेव क्रियात्वात् बुभुक्षां हि बाधित्वेत्यादि यावत् क्रियाचक्रकान्येतानि, एतदुक्तं भवति क्रियान्तरप्रादुर्भावेन विना न क्रियानिवृत्तिः, नापि पूर्व क्रियान्यक्करणमन्तरेण क्रियान्तरप्रादुर्भावः, बुभुक्षाभुजितृप्तिक्रियाचक्रवत् पूर्वपूर्वबाधयोत्तरोत्तरप्रादुर्भावात् समानमेतदपीति, तस्मान्नाभावो गतिनिवृत्तिः, भाव एव स्थितिरिति ।
एतदनिच्छोर्दोष उच्यते
यदि स्थिति म न भावस्तीवस्तुकत्वे विवक्षाशब्दयोरप्रवृत्तिरित्यभिधानाभावः, अर्थाभावात् , काकवासितादिवदनर्थकंवा तत्स्यात् , अथ द्रव्यमानं स्थितिर्गतावपि स्यात् , उभयत्र द्रव्यस्य सत्त्वाद्विशेषाभावाच्च, यतस्तु खलु विरोधाविरोधात् भाव एव गतिस्थिती द्रव्यवत्, अत एव द्रव्यभवनादनन्यैव सती भवनान्यत्व एव गतिविरोधिनी स्थितिरिति । तदिति भुजिक्रियाप्रवृत्तेः फलावसानत्वे हेतुमाह-तत्प्रयोजनमिति, प्रयोजनाभिनिवृत्तौ कारकाणां प्रवृत्त्यभावात् प्रवृत्ति20 जनकहेत्वभावादेव भुजिनिवृत्तिर्न तूत्तरकालभाविक्रियान्तरेण भुजेर्बाधनम् , येन क्रियान्तरखरूपा भुजिनिवृत्तिर्भवेदिति भावः । तदेव दृष्टान्तमभिधाय दार्टान्तिकमादर्शयति-एवं गतिरपीति, गतेहि फलमुत्तरदेशप्राप्तिः, तन्निवृत्तौ सत्यां गमनसाधनोपरमात् गतिनिवृत्तिः,न तु स्थितिलक्षणक्रियान्तरेण गमनसाधनसत्त्वेऽपि बाधनात् गतिनिवृत्तिरित्यर्थः। विरोध्युत्तरभावप्रादुर्भावत्वादेव पूर्वभावनिवृत्तिविरोधिभावस्वरूपेति यदुक्तं तत्र संशयमादर्शयति-अतः संशेमहे इति तत्र विरोध्युत्तरक्रियाप्रादुर्भावे सति पूर्वक्रियानिवृत्तिरुत्तरक्रियास्वरूपे सत्येव दृष्टा, स्वप्नजागरणस्थले, एवं फलप्राप्तौ कारकानभिसम्बन्धात् पूर्वक्रियाया अत्यन्त25 निवृत्ति जिक्रियास्थले दृष्टा, तथा च गतिनिवृत्तिरपि किं विरोधिक्रियाप्रादुर्भावे सति विरोध्युत्तरक्रियास्वरूपा? उत भोजननि
वृत्तिवत् फलावसाने गतेनिवृत्तिरेवेति संशयात् विरोध्युत्तरभावप्रादुर्भावत्वादिति तादात्म्यसाधकहेतुरनैकान्तिक इति शङ्कितुरभिप्रायः । समाधत्ते-अत्रोच्यत इति विरोध्युत्तरभावप्रादुर्भावत्वादिति नानकान्तिको हेतुः, भुजिनिवृत्तेरभावात्मकत्वासम्भवात्, न हि भुजिक्रियास्थले विरोध्युत्तरक्रियाप्रादुर्भाव एव नास्तीति, किन्तु तृप्तिरेव विरोध्युत्तरक्रिया, तत्स्वरूप एव च भुजिनिवृत्तिरिति भावः। प्रवृत्तिपरम्परामविच्छिन्नां भुजिक्रियास्थले प्रदर्शयति-बुभुक्षां हीति । तात्पर्य विशदयति-एतदुक्तम्भवतीति 30 प्रवृत्तिपरम्पराया द्रव्ये सर्वदा भावादन्यक्रियाप्रादुर्भावेन विना न पूर्वक्रिया निवर्तते, न वा पूर्व क्रियाप्रतिरोधेन विना क्रियान्तरमाविर्भवतीति परस्पराश्रयेणैव वस्तुप्रवृत्तेर्न कस्यापि निवृत्तिरभावमात्रमतो गतिनिवृत्तिलक्षणास्थितिर्भाव एवेति भावः । स्थितेरभावात्मत्वेऽनुपपत्तिं दर्शयति-यदीति स्थितेः क्रियात्मकभावत्वानभ्युपगमे स्थितिद्रव्यात्मा भावो वा स्यात् , अवस्तु वा
१ सि. 'साभावे ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org