________________
भावनिवृत्तेर्भावता] न्यायागमानुसारिणीव्याख्यासमेतम्
५४७ स्यान्मतं विरोधिनो भावस्योत्तरस्य स्थित्यादेः प्रादुर्भावाद्गतेर्विनाशो गतेर्वा प्रादुर्भावे स्थितः, स चाभावोऽपि नाशः पाकजोत्पत्तिवदित्यत्रोच्यते- ।।
योऽप्यभावाभिमतो विनाशो विरोधिभावप्रादुर्भावे भावान्तरनिवृत्तिरितीष्टः सा च भावान्तरानभिव्यक्तिस्तस्य भावान्तरस्य भाव एव, विरोधिभावप्रादुर्भावत्वादेव, यथा जागरणेन स्वप्नो निवत्येतेऽनभिव्यक्तिं नीयत इत्युच्यते तथा स्वनेन जागरणम् , अन्यतरापनयने-। नान्यतरभवनात् सर्पस्फटाटोपकुण्डलभवनवत्,न हि क्रियान्तरादन्यन्नीयते न वाऽन्यज्जायतेऽपूर्वमिह किञ्चित् , एवमिहापि च गतिभवनं स्थितिनिवृत्तिः स्थितिभवनमेव गतिनिवृत्तिरिति ।
(योऽपीति) योऽप्यभावाभिमतो विनाशो विरोधिभावप्रादुर्भावे भावान्तरनिवृत्तिरितीष्टः सा च भावान्तरानभिव्यक्तिः, तस्य भावान्तरस्य-स्थितेरन्यस्य गत्यादेः, गतेर्वाऽन्यस्य स्थित्यादेर्भाव एव, नाभावो विरोधिभावप्रादुर्भावत्वादेव, यथा जागरणेन स्वप्नो निवर्त्यते तेनानभिव्यक्तिं नीयत इत्यु-10 च्यते यथा जागरणेन स्वप्नोऽनभिव्याक्तिं नीयते तथा स्वप्नेन जागरणम् , जाग्रतोऽपि च सुप्तवन्मन्दमन्दतरमन्दतमचैतन्यदर्शनात् सुप्तस्यापि जाग्रत इवाभिव्यक्ततराभिव्यक्ततमस्वप्नदर्शनात् , तदेव हि चैतन्य तीब्रमन्दावरणोदयक्षयोपशमापेक्षं निद्राप्रचलादिभेदं पटुपटुतरपटुतमैन्द्रियादिभेदश्च दृश्यते, तस्मादेकस्यैव वस्तुनोऽभिव्यक्त्यनभिव्यक्तिकृते स्वप्नजागरणे, अन्यतरापनयनेनान्यतरभवनात् , सर्पस्फटाटोपकुण्डलभवनवत् , अत आह न हि क्रियान्तरादन्यन्नीयत इत्यादि गतार्थ यावदिह किञ्चिदिति, एषा दृष्टान्तव-18 र्णना, इहापि च गतिभवनमित्यादि गतार्थं दार्टान्तिकवर्णनमपि, तस्मात् क्रियान्तरप्रादुर्भावे पूर्वभावनिवृत्तिर्नाभाव इति ।
अत्राह
स्यादेतत् यथा तु भुक्तिक्रियाप्रवृत्तिस्तृप्तिफलावसाना, प्रयोजनाभावे कारकानभिसम्बघटे रक्तरूपोत्पत्तौ श्यामरूपस्य विनाशः तथैव स्थित्यादेः प्रादुर्भावे गतेर्निवृत्तिर्गतिविनाश एवेति कथं प्रवृत्तेः सर्वात्मकतेल्याशङ्कते- 20 स्यान्मतमिति योऽप्यभावाभिमत इति प्रवृत्तेः सर्वक्रियाविशेषात्मकत्वेऽपि क्रियाविशेषाविवेकेन सा न व्यवहारपथमवतरति, तस्माद्यत्किञ्चितक्रियाविशेषरूपेणैव व्यवहार्या, देशकालाभ्यां यत्क्रियाविशेषेण सोच्यते, स क्रियाविशेष एवाभिव्यक्तिरुत्प. त्तिर्वोच्यते, अपरक्रियाविशेषाणां सतामप्यविवक्षितत्वात् ते तिरोभूता विनष्टा उच्यते स च विनाशो न शून्यतारूपः, अकिञ्चिद्रूपस्य प्रत्येतुमशक्यत्वात् , नहि प्रत्ययो जायते प्रत्येतव्यं नास्तीति युज्यते तस्माद्वस्त्वन्तर क्रियाविशेषव्यवहार्यमेव विनाश इत्युच्यते, तथा च स्थितिरूपेण प्रवृत्त्यनुभवनमेव गतिविनाशानुभवनं गतिरूपेण वा प्रवृत्त्यनुभवनमेव स्थितिविनाशानुभवनमिति 25 भावः । तत्र दृष्टान्तमाह-यथा जागरणेनेति, चितिशक्तेरावरणस्य तरतमभावेन प्रतिबन्धकसामग्रीसमवधाने यथानुरूपमावरणतिरोधाने चैतन्यस्य तरतमभावेनाभिव्यक्तिरेवञ्च तथा तथा चैतन्याभिव्यक्तिरेवावरणस्य तथा तथा विनाश उच्यते न तावदभावः कश्चिदेवं गतिव्यक्तिरेव स्थितिनिवृत्तिरिति भावः । इदमेवोपसंहरति-नहि क्रियान्तरादिति अत्र मूलं चारु नोपलभ्यते, नहि सर्पस्य क्रियाविशेषात् स्फटादयः पूर्वभावाः परभावाविर्भावे निरन्वयं ध्वस्ता भवन्ति नवा परभावा अपूर्वा उत्पद्यन्ते किन्तु विद्यमाना एव क्रियान्तरेणाभिव्यज्यन्ते इत्युत्तरभाव एव पूर्वभावनिवृत्तिरिति भावः। ननु यत्किञ्चित्फलोद्देशेन कारकाणां 30 प्रवृत्तिदृश्यते न तु निष्प्रयोजनम् , तथा च तस्मिन् प्रयोजने निष्पन्ने सति तानि कारकाणि न प्रवर्त्तन्ते यथा तृप्तिफले निष्पन्ने भोजनक्रिया निवर्त्तते न तु तृप्तिरेव भोजननिवृत्तिः, तयोः साध्यसाधनभावावगमात् , भोजननिवृत्तौ हि तृप्तिरेव हेतुः, तथा च तृप्तेः कारणत्वेन पूर्वभावित्वानिवृत्तेः कार्यत्वेनोत्तरभावित्वात् कथमुत्तरभावाभिव्यक्तिरेव पूर्वभावनिवृत्तिरित्याशयेनाशङ्कते-स्यादे
सि. क. निवृत्तिः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org