________________
५४६
द्वादशारनयचक्रम्
wwwmwww
[उभयनयारे तस्मादाकाशमप्यस्थानगमनं सञ्चेत्यनैकान्तिकहेतुता तदवस्थैव साधनयोरनयोरिति । गत्यभावोऽप्रवृत्तिगैतिनिवृत्तिरिति चेत् स्यान्मतं नन्वभावगतेतिनिवृत्तिर[प्रवृत्तिः, तस्माद्गल्यभावमात्रत्वात् स्थितेरभावत्वान्नास्थानं न स्थानं तदेव चाकाशं गतेरेवाभावादित्यत्रोच्यते अथ निरुपाख्यमेवेत्यादि, उपाख्या संज्ञा, निर्गतोपाख्यं त्वत्परिकल्पितगत्यभावमात्रस्थानं तत्प्राप्नोति, अभावत्वादभावत्वश्चास्याप्रवृत्तत्वात् , 5 खपुष्पवत्, आकाशादि च प्रवृत्तं स्थानवदस्थानश्चेति वक्ष्यामः।
गतिविशेषणसामर्थ्यादिति चेत् तदेवेदमस्मदिष्टं गत्यभावस्य स्थानस्य सत्त्वं सिद्धम् , स्थित्यभावस्य गमनस्य सत्त्ववदिति गतिविशेषणसामर्थ्यापादितस्थित्याधुत्तरभावसत्यत्वादेव सर्वात्मकगतिस्थित्यादिभवनतत्त्वमवलम्ब्य तदपरित्यागेन तत्स्वाभाव्यान्निरुच्यते भवनं भाव इति ।
(गतीति) गतिविशेषणसामर्थ्यादिति चेत् स्यान्मतं यदि सर्वथा स्थानं निवृत्तिरभाव इति अविशेषं ब्रूयाम् खपुष्पवनिरुपाख्यं स्यात् , किं तर्हि ? गत्या विशिष्टं स्थानं गतिनिवृत्तिरिति ब्रूमः, तस्माद्गत्यभाव इति सोपाख्यमित्यत्रोच्यते तदेवेदमस्मदिष्टं स्थानस्य सत्त्वं गत्यभावस्य[स्थित्यभावस्य गमनस्यसत्त्ववत्, गतिविशेषणयोगात् भवन्मतविरुद्धं [सिद्धम् ] तस्मिंश्च सिद्धे स्थाने तद्गतिस्थित्यादिसर्वक्रिया
पदाभिधेयो भावः-सदेव नासदिति सिद्धं तस्माच गतिविशेषणसामर्थ्यापादितस्थित्याद्युत्तरभावसत्यत्वात् , 15 अत एव च सर्वात्मकेत्यादि यावद्भवनं भाव इति, येयं निरुक्तिर्भवनं भाव इति साप्येतस्मादेव
कारणात् गतिस्थित्यादिसर्वात्मकमेव भवनस्य तत्त्वमवलम्ब्य तदपरित्यागेन तत्स्वाभाव्यात्-तत्तद्भवनानुभवस्वभावत्वात् पूर्वस्य गतिस्वभावस्योत्तरस्य स्थितिस्वभावस्य, अथवा पूर्वस्य स्थिति[व]भावस्योत्तरस्य गति[ख]भावस्य यथाविवक्षाक्रमं यथापरिणतिक्रमञ्च यथासंख्यमेकस्याभिव्यक्त्येतरस्यानभिव्यक्त्या च भवनं भाव इति निरुच्यते ।
10
mmmmmmmmmmm
20 ननु ठा गतिनिवृत्तावित्युक्तत्वानिवृत्तिमात्रमेव स्थानशब्देन प्रतीयते, न तु काचित् प्रवृत्तिः, तस्माद्गतिनिवृत्तिर्गत्यभाव एवाप्रवृ
त्यात्मा, स च नाकाशे, गतेरभावात् , तथा चाभावरूपं स्थानमस्थानं वा तत्र नास्तीति नानैकान्तिकत्वं हेतोरित्याशङ्कतेगत्यभाव इति, अभावगतेः गतिनिवृत्तिपदेनाभावस्य बोधादित्यर्थः । एवं सति स्थानं गत्यभावमात्रं प्रसक्तं तथा चाप्रवृत्तिरूपत्वादभावो भवदुक्को निरुपाख्य एव प्रसज्यते खपुष्पवदिति समाधत्ते-अथेति । आकाशादि च न तथाभूतमित्याह-आका
शादि चेति । प्रतियोग्यनुयोग्यन्यतरासम्बद्धस्यैवाभावस्य निरुपाख्यत्वं न सर्वथा, अन्यथा खपुष्पेणेव नना कस्यापि प्रतिषेधो 25 निरुपाख्यत्वान्न भवेत्तथा च प्रतियोगिना गत्यादिना विशिष्टत्वान्नाभावो निरुपाख्य इत्याशङ्कते-गतिविशेषणेति। गत्या विशिष्ट
स्थानं गतिविलक्षणं स्थानमित्यर्थः । एवं तर्हि सोपाख्यत्वेऽभावः सन्नेव भवेदिति समाधत्ते-तदेवेदमिति, एवञ्च प्रवृत्तिसामान्य गतिस्थित्यादिसर्वरूपत्वात्सर्वपदाभिधेयं सदेवेति भावः । प्रवृत्तिः सर्वात्मकत्वादेव भवतीति भाव उच्यते सैव हि स्वखरूपमत्यजती तेन तेन रूपेण भवति गतिभवनस्वभावं स्थितिभवनस्वभाव वा यथाविवक्षमनुभवतीत्याह-गतिविशेषणेति गत्युत्तरं भवतो गतिनिवृत्तिरूपस्थानस्य गतिविशेषणादेव सद्रूपत्वादित्यर्थः। भवनस्य सर्वात्मकत्वेऽपि क्रमेणैवाभिव्यक्तिस्वभावत्वमिति दर्शयति
यथाविवक्षाक्रममिति भवन स्यापि तथा तथा भवने सामग्र्यपेक्षणात् प्रतिनियतसामग्रीसहकारेण प्रतिनियतगत्यादिभवनव्यक्तिः 30 इतरेषां स्थित्यादीनामनभिव्यक्तिश्चेति भावः। ननु विरोधिभावप्रादुर्भावे पूर्वभावनिवृत्ति म पूर्वभावस्य विनाश एव, यथा पाकेन
१सि. क. तद्वच्छति।२ सि.क. सत्यमेव ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org