________________
आकाशस्याप्यस्थितत्वम् ]
न्यायागमानुसारिणीव्याख्यासमेतम्
५४५
अगत्यादित्वाच्च नासत्त्वं हेत्वसिद्धेरेवोक्तवद्गत्यादिस्वरूपत्वात् सततभवनस्य, नन्वगमनस्थानञ्चाकाशं भवत्येव, तत्र किमगत्यादित्वादसत् स्यात् खपुष्पवत् ? उताकाशवत् सत् स्यादिति सन्देहहेतुता ।
( अगत्यादित्वाचेति) अगत्या दित्वाच्च नासत्त्वं हेत्वसिद्धेरेवोक्तवद्गत्यादिस्वरूपत्वात् सततभवनस्येति, अभ्युपगम्याप्यगत्यादिहेतुसिद्धिमनैकान्तिकत्वं ब्रूमः, नन्वगमनस्थानचाकाशं अगच्छदतिष्ठञ्च व्योम भवत्येव, तत्र किं अगत्यादित्वादसत् स्यात् खपुष्पवत् ? उताकाशवत् सत् स्यात् ? इति सन्देह हेतुतेति ।
स्यान्मतमगत्यस्तु कथमस्थानमाकाशम् ? नित्यस्थितत्वात् तस्माद्गतित्वादिति संशयहेतुता स्यात् [ अतः ] अस्थानत्वा दित्युक्तमित्यत्रोच्यते
www
नित्यस्थितत्वादाकाशस्य नेति चेदुच्यते, अस्याप्यस्थानत्वमेव, ष्ठागतिनिवर्त्तनवदस्था - 10 नमिति च स्थानादन्यद्गमनाद्युच्यते, न स्थानस्यात्यन्ताभाव एव, तस्मादाकाशमप्यस्थानगमनं सच्च, गत्यभावोऽप्रवृत्तिर्गतिनिवृत्तिरिति चेत् अथ निरुपाख्यमेव त्वत्परिकल्पितगत्यभावमात्रस्थानं प्राप्नोति, अभावत्वात् अभावत्वञ्चास्याप्रवृत्तत्वात् खपुष्पवत्, आकाशादि च प्रवृत्तं स्थानवदस्थानञ्श्चेति वक्ष्यामः ।
(नित्येति) अस्याप्य स्थानत्वमेव यस्मादुच्यते ष्ठागतिनिवर्त्तनवत् स्थानं गतिनिवृत्तौ प्रवृत्तं प्रवृत्ताया गतेर्या निवृत्तिः प्रतिबन्धः सा स्थितिः वक्ष्यमाणवत्, न चास्याप्रवृत्तगतेराकाशस्य प्रतिबन्धः, जानु प्रगतदेवदत्तगतिनिवर्त्तनवत्, अस्थानमिति च स्थानादन्यद्गमनाद्युच्यते न स्थानस्यात्यन्ताभाव एव,
wwwwwwww m
wwwwwwwwww
भवनवद्गत्यादीनामविच्छेदादेव गमनादीनां भवनसामान्याविनाभूतत्वम् भवनखात्मवत् तदेतत्सर्वं भवनमेवेदमेकरूपं देवदत्तमेदं गतिभेदं स्थितिमेदं वृत्त्यवृत्तिहसनकथनादिमेदं वा भवतीति सर्वत्र व्यक्तेर्भवति तेन तेन भूयत इत्यन्तेन प्रन्थेनोक्तमेवेति पूर्वस कलग्रन्थस्मरणं तथ्यायमनुस्मारयन्नितिशब्देन कारयतीति भावः । द्रव्यस्य द्वितीयो भावः क्रियाऽपि नोपपद्यते द्रव्यत्वे सत्यगत्यादित्वात्, खपुष्पवदिति यदुक्तं तन्निराकरोति- अगत्यादित्वाच्चेति, अगत्यादित्वाद्यदसत्त्वं प्रवृत्तिसामान्यस्य साध्यते तदपि न, अगत्यादि - 20 त्वस्यासिद्धेः, तदेव गतिस्थित्यादिभेदं भवतीत्युक्तत्वादिति भावः । यदि स्थित्यादिस्वरूपस्य भवन सामान्यस्यागत्यादित्वं सिद्धमित्युच्यते तदाऽप्याह- अभ्युपगम्यापीति, आकाशं हि न गमनरूपं स्थितिरूपं वा तथापि भवतीति तत्र सत्त्वेन समानाधिकरणमगत्यादित्वं दृष्टम्, खपुष्पे चासत्त्वेन समानाधिकरणम्, तथा च प्रवृत्तिसामान्यं किमगत्यादित्वादाकाशवत् सत् किं वा खपुष्पवदसदिति संशयजनकत्वादगत्यादित्वमनैकान्तिकमिति भावः । नन्वगत्यादित्वमाकाशे नास्ति, अगत्यादित्वादित्यादिना स्थित्यादेर्विवक्षिततया तत्र गत्यभावेऽपि स्थितेः सत्त्वेन अगतित्वरूप हेतोर्व्यभिचारित्वेऽपि अस्थितत्वरूपहेतोरनैकान्तिकत्वं नास्तीत्याशङ्क्य समाधत्ते - 25 नित्यस्थितत्वादिति, आकाशस्य नित्यत्वोक्तिर्न्यायमतानुसारेण, वैयाकरणमतेन तस्यापि त्रिगुणपरिणामात्, अन्यथा स्त्रीपुंनपुंसकलिङ्गानुपपत्तिर्भवेत्, प्रवृत्तिलक्षणत्वाल्लिङ्गस्य गुणसन्द्रावरूपत्वाच्च द्रव्यस्येति बोध्यम् । आकाशोऽपि न स्थितिमानित्याह-अस्यापीति, गतिनिवृत्तिरूपं स्थानं हि गतिमत एव भवति, न त्वगतिमतः, तत्प्रतिबन्धरूपत्वात्तस्य, आकाशश्च न गतिमानतो न स्थितिमानपीति नित्यस्थितत्वं तस्यानुपपन्नमतोऽस्थितत्वमपि गगने सत्त्वाद्व्यभिचरितमेवागतित्ववदिति भावः । यथा स्थानपदं गतिविरोधिभावं बोधयति तथाऽस्थानशब्दोऽपि स्थितिविरोधिनं भावमेव बोधयति, न तु निर्विशेषणमभावमात्रम्, तस्मादाकाशं 30 न स्थानात्मकं न वा गत्यात्मकमिति तस्यागतित्वमस्थानत्वञ्चेत्यनैकान्तिकत्वं हेतोर्दुर्वारमिति दर्शयति-अस्थानमिति चेति ।
१ सि. क. 'दित्ययुक्तेत्यत्रो० । २ सि. क. आस्यास्य । ३ सि. क. दस्थानमिति वृत्तौ प्रवृत्ताप्र० । ४ सि. माणत्वात् । ५ सि. क. नचास्य प्र० ।
द्वा० न० ३१ (६९)
Jain Education International 2010_04
15
For Private & Personal Use Only
www.jainelibrary.org