Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 264
________________ मैदज्ञानव्यवहारौ] न्यायागमानुसारिणीव्याख्यासमेतम् शक्तीनां यथानुरूपं प्रतिविषयनियतप्रत्यायनवृत्तित्वात्-सत्यपि सर्वसर्वात्मकत्वे द्रव्यार्थनयस्य वर्णात्मकघटशब्दशक्तेः पृथुकुक्ष्यर्द्धग्रीवाद्याकारप्रत्यायने नियता वृत्तिर्नान्यत्र, रूपादिद्रव्यशक्तिप्रवृत्तिभेदनियतेन्द्रियग्राह्यत्ववत्, शब्दशक्तिप्रवृत्तिभेदाभेदज्ञानव्यवहारादित्यर्थः, सद्व्याचष्टे नित्यप्रवृत्तीत्यादि, नित्यप्रवृत्तेः क्रमप्राप्त्या विशिष्टो यो वस्तुभागस्तद[भिनिवेशिभिरभिधानैः सर्वस्य वस्तुरूपस्याभिधातुं शब्दैरयोग्यत्वादिति, तन्निदर्शयति-यथा देवदत्तो गच्छतीत्यादि यावन्न वा व्युदस्यतीति गतार्थम् , तथाऽऽख्यातमपीत्यादि तद्वदेव गतार्थ यावत् क्रियांशविषयनियतशक्तित्वादिति, नामाख्यातयोर्नियतवस्तुभागाभिनिवेशित्वादिति तदेव कारणं तदनुपात्ययं भेदप्रत्यय इत्युपसंहरति, द्रव्यशक्त्यंशनियतशब्दप्रवृत्त्यनुपाति भेदज्ञानमित्यर्थः । __तथैव गतिस्थितिवृत्त्यवृत्त्यादिभेदव्यवहाराः, सर्वभेदपर्यनुभवार्थत्वान्नित्यप्रवृत्तेः, याऽसौ सततसम्प्रवृत्तिः सा सर्वान् गमनादीन् भावभेदान् पर्यनुभावयामि द्रव्यमिति प्रवर्तते, यदि तान्नानुभवेत् ततो न ते स्युः, तेनापर्यनुभूयमानत्वात्, खपुष्पवत् , सर्वप्रभेदनिर्भेदं बीजं 10 द्रव्यमिष्यते तद्वा द्रव्यं न स्यात् भेदापर्यनुभवनात् खपुष्पवत् । ___ (तथैवेति) तथैव गतिस्थितिवृत्त्यवृत्त्यादिभेदव्यवहाराः सर्वभेदपर्यनुभवार्थत्वान्नित्यप्रवृत्तेः, याऽसौ सततसम्प्रवृत्तिः सा सर्वान् गमनादीन भवनभेदान् पर्यनुभावयामि द्रव्यमिति प्रवर्त्तते, यदि तान्नानुभवेत् क्रियाभेदान् द्रव्यं ततो न ते स्युः, तेनापर्यनुभूयमानत्वात् खपुष्पवत् , सर्वप्रभेदनिर्भेदं बीजं द्रव्यमिति चेष्यते, तद्वा द्रव्यं न स्यात्, भेदापर्यनुभवनात् खपुष्पवत्-एवं तद्रव्यं बीजं स्माद्यवि 16 तान् भेदान् पर्यनुभवेत् ।। आहयथाऽनन्तरोक्तदेवदत्तशब्दो गत्यादीन् नोपादत्ते न च व्युदस्यति, नियतत्वाच्छब्दशतीनां प्रवृत्तत्वाच्च तथा वस्तुनापि देवदत्तेन गत्यादयः किमनुपात्ताव्युदस्ताः ? नेत्युच्यते विशेष:इत्यनादितः शब्दार्थयोः प्रतिनियतत्वाद्विवक्षाऽपि प्रतिनियतशब्दार्थविषयिण्येवेति तदर्थः । एतदेव ज्याचष्टे-सत्यपीति । याणा स्वविषयेष्वनादिर्योग्यता यथा। अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा' n इति शब्दानां प्रतिविषयनि-20 यत्तशक्तिमत्त्वमवसेयम् । चक्षुरादे रूपाद्यात्मद्रव्यप्रवृत्तिभेदेषु प्राहकत्वनैयत्यमिति निदर्शयति-पादिद्रव्येति । शब्दशक्त्यैव प्रवृत्तिविशेषरूपया मेदज्ञानममेदज्ञान तथा व्यवहारश्चेत्साह-शब्दशक्तीति । सर्वे शब्दा न सर्वार्थवाचकाः, अपि त्वन्वयव्यतिरेकाभ्यां प्रतिनियतार्थशक्तिमन्त इत्याह-नित्यप्रवृत्तेरिति, यस्मिन् हि शब्दे उच्चारिते यस्यार्थस्य नियमेनोपस्थितिस्तमर्थमेव स शब्दो बोधयति, नार्थान्तरम् , अत एव द्वारमित्यादी पिधेहीति प्रकरणादिना पदाध्याहारः सङ्गच्छते, न तु पिधानार्थकत्वं द्वारपदस्य, अत एव नामाख्यातादिपदभेदः, तस्मान्नाम सिद्धार्थमेव बोधयति, न साध्यार्थम्, भाख्यातच साध्यार्थमेव बोधयति न सिद्धार्थ मिति भावः । तदेवं शब्दस्पर्शरूपरसगन्धात्मिकाया द्रव्यप्रवृत्तेरंशभूता शब्दप्रवृत्तिरन्या ततव मेदज्ञानं मेदव्यवहारश्चेत्युपसंहरति-द्रव्यशत्यंशेति । नामाख्यातपदयोः परस्परार्थाबोधकत्वमुक्त्वाऽऽख्यातमेदानामपि गच्छतितिष्ठत्यादीनां अन्योन्यार्थाबोधकत्वाद्धेदव्यवहार इत्याह-तथैवेति नामाख्यातविधयैवेत्यर्थः । गतिस्थित्यादयः क्रममाविनः पर्यायविशेषा अनुक्षणभाविनः द्रव्यप्रवृत्तयः, तान् द्रव्यमनुभवति अन्यथा तत्वरूपहानिर्भवेत्, तद्भवनविशेषाननुभव. नादत एव द्रव्यं सर्वप्रमेदाननुभवत् खतो निर्भेदमित्याह-याऽसाविति क्रियाया द्रव्येणासम्बन्धे क्रियैव न स्यादित्याह-30 क्रियामेदानिति । तथा द्रव्यमपि न स्यादित्याह-तद्वति, तथा च क्रियाक्रियावद्व्यमिति भावः ।। न्दयोः प्रतिविषयनियतशक्तिमत्त्वेन निखिलवस्तुरूपाभिधानसामर्थ्यात् स्वाभिधेयातिरिक्तस्योपादानपरित्यागयोरुदासीनता तथा किमर्थोऽपि स्यात् , उतास्ति वा कश्चिद्विशेष इत्याशङ्कते-आहेति। अथ देवदत्तो गच्छतीत्यादौ देवदत्तशब्देन गत्यादिनोंपादीयते. . सि. क. भेदाज्ञान । २ सि. सर्वस्यावस्तुवस्तुरू। क. सर्वस्थावस्तुरू। ३ सि. क. योग्यस्वादिभिः । सि.क. 'ख्यानमः। ५ सि.क. शिवादिनि । ६ सि.क. शब्दाप्रवृ०। ७ सि.क. भेदान्यं । ___Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350