Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 262
________________ ५२९ क्रियाया नित्यता] न्यायागमानुसारिणीव्याख्यासमेतम् सस्मादेतेन क्रियाया अपि नित्यत्वमित्याह तदतद्भवनाविच्छेदात्मकप्रवृत्तिनित्यत्वस्याकूटस्थत्वाद्भवनमेवेदं गतिवृत्तिस्थित्यादि, सततसंप्रवृत्तिरूपभवनात्मकत्वादतो द्रव्यं क्रिया चोभयं नित्यं भावः। (तदतदिति) तंदतद्भवनाविच्छेदात्मकप्रवृत्तिनित्यत्वस्याकूटस्थत्वात्-तद्भवनमतद्भवनश्च सरूपैकशेषात्तदतद्भवनम् [ तद्भवनं]तावदस्तिभवत्यादिविषयं पुनःपुनर्भवत्येवेति, अतद्भवनं स्थानाद्गमनं । गमनाञ्च स्थानमिति, तदतद्भवनं भवनसहिते ते एव स्थानगमने, तथा वृत्त्यवृत्ती, तस्याविच्छेद आत्मा यस्याः प्रवृत्तेरविच्छेदात्मिका सा तदतद्भवनाविच्छेदात्मकप्रवृत्तिः, तस्या अपि नित्यत्वं तदकूटस्थंकूटस्थद्रव्यनित्यत्वविलक्षणं तद्भावात्-तदतद्भवनाविच्छेदात्मकप्रवृत्तिनित्यत्वस्याकूटस्थत्वाद्भवनमेवेदं गतिवृत्तिस्थित्यादि-एता यानस्थानवृत्त्यवृत्त्यादिकाः परस्परविरोधिन्यः क्रियास्ता एता भवनमेव, सततसम्प्रवृत्तिरूपभवनात्मकत्वात् भवद्भवनविलक्षणं नित्यश्च प्रवृत्तिभवनमेवेत्यभिन्नं क्रियामात्रमतो 10 द्रव्यं क्रिया चोभयं नित्यं भावः । स्यान्मतं क्रियाभेदाभावाद्भेदज्ञानव्यवहाराभावः स्यात् , दृश्येते भेदज्ञानं भेदव्यवहारश्वेत्येतच्चायुक्तम् तस्माद्भेदज्ञानव्यवहारौ तु शब्दभेदद्रव्यप्रवृत्तितत्त्वानुरूप्यात्, शक्तिमतो द्रव्यस्य www nawww www भवृत्तिकालवदिति योजना स्यादिति प्रतिभाति । तदेवं यानस्थानयोवृत्त्यवृत्त्योः सततभवनात् द्रव्यव्यतिरिकायाः क्रियाया अपि 15 प्रवाहतो नित्यत्वमिति निरूपयति-तदतद्भवनेति तच्चातञ्च तदतदी, भवनश्च भवनच्च भवने, अत्र सरूपैकशेषः, तदतही च ते तदतद्भवने, तयोरविच्छेद आत्मा यस्याः सा तदतद्भवनाविच्छेदात्मिकेत्येवं समास इत्याशयेनाह-तद्वनमिति सजातीयताभवनपरम्परा तद्भवनम् , यथोत्पत्तिप्रभृत्याविनाशं घटस्यानुक्षणं भवनम् , स्थूलरूपधारणानुकूलव्यापारस्यास्त्याचर्थत्वात् , उत्पत्तिप्रभृत्याविनाशाच्च सत्तानुषङ्गात्तस्याश्च साध्यतया प्रतीयमानस्वाचानुक्षणभवनरूपता अत एव च तस्याः कालसम्बन्धः अभूद्भवति भविष्यतीति । अतद्भवनच विजातीयभवनपरम्परा, यथा स एव देवदत्तः कदाचिद्गच्छति कदाचितिष्ठति १० पुनर्गच्छति पुनस्तिष्ठतीति विलक्षणक्रियाभवनपरम्परेत्याशयेनाह-तद्भवनमिति । तथा वृत्त्यवृत्तीति कदाचित्तियज्ञदत्तादेः, कदाचिदवृत्तिः, देवदत्तादेर्यानस्थानाभ्यामिति भावः। तदेवं सजातीयसाधनसान्निध्ये भावानामनुक्षणं भवनपरिणाममनुभवतां विजातीयतथाविधसाधनसम्पत्तो गमनस्थानाद्यतद्भवनपरिणाममनुभवतां प्रवृत्तिविशेषैः निरन्तरमवियोगः, बत एवास्त्यादीनां गम्यादीनाञ्च कारकप्रवृत्तिविशेषत्वेन धातुता सेत्स्यति, प्रवृत्तिप्रवाहस्याविच्छेदादेव प्रवाहतो नित्यत्वं भवनात्मप्रवृत्तरित्याशयेनाह-तस्याविच्छेद इति, गमनस्थानादीनां क्रियाविशेषाणां विनाशेऽपि प्रवृत्तिसामान्यस्य भवनलक्षणस्यावि-25 च्छेदान्नित्यत्वम्, यद्यपि भवनमपि प्रतिकलमन्यदेव तथापि तद्वृत्तिधर्मो न विहन्यत इति भावः। कूटस्थेति, कूटमयोधनः, तद्यत्तिष्ठति तत्कूटस्थं संसर्गप्रध्वंसपरिणामानित्यताविरहितं द्रव्यं तथाविधद्रव्यनित्यत्वविलक्षणं क्रियाया नित्यत्वमिति भावः। एवञ्च गत्यादिक्रियाविशेषाणां भवनसामान्यात्मकरवं सामान्य विलक्षणविशेषाभावादित्याशयेनाह-भवनमेवेदमिति । भवदिति भवद्भवनं-द्रव्यभवनं ततो विलक्षणमित्यर्थः । गतिस्थित्यादितोऽभिन्नं भवनं क्रियामात्रमतो द्रव्यं किया चेत्यभयं मूलं वस्त्वित्युपसंहरति-अभिन्न मिति । सर्वासां क्रियाणामेकरूपत्वे गच्छति तिष्ठति वर्तते न वर्तत इत्येवं क्रियाभेदज्ञानं 30 तन्यवहारश्च कथं स्यादित्याशङ्कायां शब्दव्यवहार एव केवलं नार्थभेदः क्वचिदिति समाधत्ते-तस्माद्भेदक्षानेति । सि.क. नतदतन। २ सि.क. तस्थापि। ३ सि.क. भवनवनवनविलक्षण । द्वा० न० २९ (६७) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350