Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 279
________________ ५४६ द्वादशारनयचक्रम् wwwmwww [उभयनयारे तस्मादाकाशमप्यस्थानगमनं सञ्चेत्यनैकान्तिकहेतुता तदवस्थैव साधनयोरनयोरिति । गत्यभावोऽप्रवृत्तिगैतिनिवृत्तिरिति चेत् स्यान्मतं नन्वभावगतेतिनिवृत्तिर[प्रवृत्तिः, तस्माद्गल्यभावमात्रत्वात् स्थितेरभावत्वान्नास्थानं न स्थानं तदेव चाकाशं गतेरेवाभावादित्यत्रोच्यते अथ निरुपाख्यमेवेत्यादि, उपाख्या संज्ञा, निर्गतोपाख्यं त्वत्परिकल्पितगत्यभावमात्रस्थानं तत्प्राप्नोति, अभावत्वादभावत्वश्चास्याप्रवृत्तत्वात् , 5 खपुष्पवत्, आकाशादि च प्रवृत्तं स्थानवदस्थानश्चेति वक्ष्यामः। गतिविशेषणसामर्थ्यादिति चेत् तदेवेदमस्मदिष्टं गत्यभावस्य स्थानस्य सत्त्वं सिद्धम् , स्थित्यभावस्य गमनस्य सत्त्ववदिति गतिविशेषणसामर्थ्यापादितस्थित्याधुत्तरभावसत्यत्वादेव सर्वात्मकगतिस्थित्यादिभवनतत्त्वमवलम्ब्य तदपरित्यागेन तत्स्वाभाव्यान्निरुच्यते भवनं भाव इति । (गतीति) गतिविशेषणसामर्थ्यादिति चेत् स्यान्मतं यदि सर्वथा स्थानं निवृत्तिरभाव इति अविशेषं ब्रूयाम् खपुष्पवनिरुपाख्यं स्यात् , किं तर्हि ? गत्या विशिष्टं स्थानं गतिनिवृत्तिरिति ब्रूमः, तस्माद्गत्यभाव इति सोपाख्यमित्यत्रोच्यते तदेवेदमस्मदिष्टं स्थानस्य सत्त्वं गत्यभावस्य[स्थित्यभावस्य गमनस्यसत्त्ववत्, गतिविशेषणयोगात् भवन्मतविरुद्धं [सिद्धम् ] तस्मिंश्च सिद्धे स्थाने तद्गतिस्थित्यादिसर्वक्रिया पदाभिधेयो भावः-सदेव नासदिति सिद्धं तस्माच गतिविशेषणसामर्थ्यापादितस्थित्याद्युत्तरभावसत्यत्वात् , 15 अत एव च सर्वात्मकेत्यादि यावद्भवनं भाव इति, येयं निरुक्तिर्भवनं भाव इति साप्येतस्मादेव कारणात् गतिस्थित्यादिसर्वात्मकमेव भवनस्य तत्त्वमवलम्ब्य तदपरित्यागेन तत्स्वाभाव्यात्-तत्तद्भवनानुभवस्वभावत्वात् पूर्वस्य गतिस्वभावस्योत्तरस्य स्थितिस्वभावस्य, अथवा पूर्वस्य स्थिति[व]भावस्योत्तरस्य गति[ख]भावस्य यथाविवक्षाक्रमं यथापरिणतिक्रमञ्च यथासंख्यमेकस्याभिव्यक्त्येतरस्यानभिव्यक्त्या च भवनं भाव इति निरुच्यते । 10 mmmmmmmmmmm 20 ननु ठा गतिनिवृत्तावित्युक्तत्वानिवृत्तिमात्रमेव स्थानशब्देन प्रतीयते, न तु काचित् प्रवृत्तिः, तस्माद्गतिनिवृत्तिर्गत्यभाव एवाप्रवृ त्यात्मा, स च नाकाशे, गतेरभावात् , तथा चाभावरूपं स्थानमस्थानं वा तत्र नास्तीति नानैकान्तिकत्वं हेतोरित्याशङ्कतेगत्यभाव इति, अभावगतेः गतिनिवृत्तिपदेनाभावस्य बोधादित्यर्थः । एवं सति स्थानं गत्यभावमात्रं प्रसक्तं तथा चाप्रवृत्तिरूपत्वादभावो भवदुक्को निरुपाख्य एव प्रसज्यते खपुष्पवदिति समाधत्ते-अथेति । आकाशादि च न तथाभूतमित्याह-आका शादि चेति । प्रतियोग्यनुयोग्यन्यतरासम्बद्धस्यैवाभावस्य निरुपाख्यत्वं न सर्वथा, अन्यथा खपुष्पेणेव नना कस्यापि प्रतिषेधो 25 निरुपाख्यत्वान्न भवेत्तथा च प्रतियोगिना गत्यादिना विशिष्टत्वान्नाभावो निरुपाख्य इत्याशङ्कते-गतिविशेषणेति। गत्या विशिष्ट स्थानं गतिविलक्षणं स्थानमित्यर्थः । एवं तर्हि सोपाख्यत्वेऽभावः सन्नेव भवेदिति समाधत्ते-तदेवेदमिति, एवञ्च प्रवृत्तिसामान्य गतिस्थित्यादिसर्वरूपत्वात्सर्वपदाभिधेयं सदेवेति भावः । प्रवृत्तिः सर्वात्मकत्वादेव भवतीति भाव उच्यते सैव हि स्वखरूपमत्यजती तेन तेन रूपेण भवति गतिभवनस्वभावं स्थितिभवनस्वभाव वा यथाविवक्षमनुभवतीत्याह-गतिविशेषणेति गत्युत्तरं भवतो गतिनिवृत्तिरूपस्थानस्य गतिविशेषणादेव सद्रूपत्वादित्यर्थः। भवनस्य सर्वात्मकत्वेऽपि क्रमेणैवाभिव्यक्तिस्वभावत्वमिति दर्शयति यथाविवक्षाक्रममिति भवन स्यापि तथा तथा भवने सामग्र्यपेक्षणात् प्रतिनियतसामग्रीसहकारेण प्रतिनियतगत्यादिभवनव्यक्तिः 30 इतरेषां स्थित्यादीनामनभिव्यक्तिश्चेति भावः। ननु विरोधिभावप्रादुर्भावे पूर्वभावनिवृत्ति म पूर्वभावस्य विनाश एव, यथा पाकेन १सि. क. तद्वच्छति।२ सि.क. सत्यमेव । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350