Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 281
________________ mmmmmmmmmmmm wwwmmmmmm द्वादशारनयचक्रम् [उभयनयारे न्धाद्भुजेः निवृत्तिर्न क्रियान्तरबाधनात् तथैव तदपि स्यात् , अत्रोच्यते अत्रापि तु मा संस्था भुजिनिवृत्तिरभाव एव, किं तर्हि ? फलं क्रियान्तरम् , बुभुक्षां हि बाधित्वा भुक्तिक्रियाप्रादुर्भावः भुक्ति बाधित्वा तृप्तिक्रियाप्रादुर्भाव इत्येवं क्रियाचक्रकान्येतानि, तद्वन्नाभावो गतिनिवृत्तिः भाव एव स्थितिरिति । स्यादेतदित्यादि यावदेवमेतदपि स्यादिति, यथा तु भुक्तिक्रियाया निवृत्तिस्तृप्तिफलावसानातत्प्रयोजनमुद्दिश्य कारकप्रवृत्तेः, तस्मिंश्चावसिते प्रयोजने कारकाणि न प्रवर्तन्ते तस्मात् कारकानभिस म्बन्धात् भुजेनिवृत्तिः न क्रियान्तरबाधनात् , एवं गतिरपि प्राप्तिफलावसाना प्रयोजनाभावे कारकानभिसम्बन्धान्निवर्तते न क्रियान्तरबाधनादतः संशेमहे किं स्वप्नजागरणवक्रियान्तरन्यग्भवने क्रियान्तरो, द्भवः तादात्म्ये सत्येव स्यात् ? उत अत्यन्तनिवृत्तिरेव गतेः, फलावसाने भुजिक्रियावदिति, अत्रोच्यते 10 अत्रापि तु मा मंस्था भुजिनिवृत्ति[रभाव एवेति, किं तर्हि?फलं-तृप्तिः क्रियान्तरं प्रवृत्तेरेव क्रियात्वात् बुभुक्षां हि बाधित्वेत्यादि यावत् क्रियाचक्रकान्येतानि, एतदुक्तं भवति क्रियान्तरप्रादुर्भावेन विना न क्रियानिवृत्तिः, नापि पूर्व क्रियान्यक्करणमन्तरेण क्रियान्तरप्रादुर्भावः, बुभुक्षाभुजितृप्तिक्रियाचक्रवत् पूर्वपूर्वबाधयोत्तरोत्तरप्रादुर्भावात् समानमेतदपीति, तस्मान्नाभावो गतिनिवृत्तिः, भाव एव स्थितिरिति । एतदनिच्छोर्दोष उच्यते यदि स्थिति म न भावस्तीवस्तुकत्वे विवक्षाशब्दयोरप्रवृत्तिरित्यभिधानाभावः, अर्थाभावात् , काकवासितादिवदनर्थकंवा तत्स्यात् , अथ द्रव्यमानं स्थितिर्गतावपि स्यात् , उभयत्र द्रव्यस्य सत्त्वाद्विशेषाभावाच्च, यतस्तु खलु विरोधाविरोधात् भाव एव गतिस्थिती द्रव्यवत्, अत एव द्रव्यभवनादनन्यैव सती भवनान्यत्व एव गतिविरोधिनी स्थितिरिति । तदिति भुजिक्रियाप्रवृत्तेः फलावसानत्वे हेतुमाह-तत्प्रयोजनमिति, प्रयोजनाभिनिवृत्तौ कारकाणां प्रवृत्त्यभावात् प्रवृत्ति20 जनकहेत्वभावादेव भुजिनिवृत्तिर्न तूत्तरकालभाविक्रियान्तरेण भुजेर्बाधनम् , येन क्रियान्तरखरूपा भुजिनिवृत्तिर्भवेदिति भावः । तदेव दृष्टान्तमभिधाय दार्टान्तिकमादर्शयति-एवं गतिरपीति, गतेहि फलमुत्तरदेशप्राप्तिः, तन्निवृत्तौ सत्यां गमनसाधनोपरमात् गतिनिवृत्तिः,न तु स्थितिलक्षणक्रियान्तरेण गमनसाधनसत्त्वेऽपि बाधनात् गतिनिवृत्तिरित्यर्थः। विरोध्युत्तरभावप्रादुर्भावत्वादेव पूर्वभावनिवृत्तिविरोधिभावस्वरूपेति यदुक्तं तत्र संशयमादर्शयति-अतः संशेमहे इति तत्र विरोध्युत्तरक्रियाप्रादुर्भावे सति पूर्वक्रियानिवृत्तिरुत्तरक्रियास्वरूपे सत्येव दृष्टा, स्वप्नजागरणस्थले, एवं फलप्राप्तौ कारकानभिसम्बन्धात् पूर्वक्रियाया अत्यन्त25 निवृत्ति जिक्रियास्थले दृष्टा, तथा च गतिनिवृत्तिरपि किं विरोधिक्रियाप्रादुर्भावे सति विरोध्युत्तरक्रियास्वरूपा? उत भोजननि वृत्तिवत् फलावसाने गतेनिवृत्तिरेवेति संशयात् विरोध्युत्तरभावप्रादुर्भावत्वादिति तादात्म्यसाधकहेतुरनैकान्तिक इति शङ्कितुरभिप्रायः । समाधत्ते-अत्रोच्यत इति विरोध्युत्तरभावप्रादुर्भावत्वादिति नानकान्तिको हेतुः, भुजिनिवृत्तेरभावात्मकत्वासम्भवात्, न हि भुजिक्रियास्थले विरोध्युत्तरक्रियाप्रादुर्भाव एव नास्तीति, किन्तु तृप्तिरेव विरोध्युत्तरक्रिया, तत्स्वरूप एव च भुजिनिवृत्तिरिति भावः। प्रवृत्तिपरम्परामविच्छिन्नां भुजिक्रियास्थले प्रदर्शयति-बुभुक्षां हीति । तात्पर्य विशदयति-एतदुक्तम्भवतीति 30 प्रवृत्तिपरम्पराया द्रव्ये सर्वदा भावादन्यक्रियाप्रादुर्भावेन विना न पूर्वक्रिया निवर्तते, न वा पूर्व क्रियाप्रतिरोधेन विना क्रियान्तरमाविर्भवतीति परस्पराश्रयेणैव वस्तुप्रवृत्तेर्न कस्यापि निवृत्तिरभावमात्रमतो गतिनिवृत्तिलक्षणास्थितिर्भाव एवेति भावः । स्थितेरभावात्मत्वेऽनुपपत्तिं दर्शयति-यदीति स्थितेः क्रियात्मकभावत्वानभ्युपगमे स्थितिद्रव्यात्मा भावो वा स्यात् , अवस्तु वा १ सि. 'साभावे । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350