Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 277
________________ riamom mmwww द्वादशारनयचक्रम् [उभयनयारे यथा च विशेषा इत्यादि, प्रवृत्तिविशेषसामान्यलक्षणयोः क्रिययोरविशेषापादनग्रन्थो गतार्थः, पचेरोदनफलनिर्वृत्तौ कारकान्तरापेक्षावन्मृद्भवनस्यापि घटफलनिर्वृत्तौ कारकान्तरापेक्षेति पिण्डादिषु सर्वेषु भवनमेव कुम्भकारादीनि मृदोऽन्यानि कारकाण्यपेक्षत इत्यर्थः, तान्युदाहरति-कर्ता कुम्भकारोऽस्येत्यादि, कर्तृकरणसम्प्रदानापादानाधिकरणानि कुलोलो दण्डादिनोदकार्थ मृदाहृत्य तच्छालायामिति, कालोऽपि केषा5 श्चित् कारकमिति तदर्शयन्नाह-मालवनगरे सप्तवर्षशतानीति, तत्राम एव घटो वर्ष न दय॑ते सङ्गोप्यते च सङ्गोपितसाराणि द्रव्य[णीति ख्यापनार्थ गोदोहं वा तडागादाविति, तथैवापरस्य क्षणमप्यनवस्थानमुदके प्रक्षिप्तस्येति च कारकविशेषापेक्षाप्रदर्शनम् । यदप्युक्तं [प्रवृत्ति] सामान्यं प्रवृत्तिविशेषत्वेनाभूतत्वात् कारकवद्गच्छत्यादिव्यापी न भवतीति तदपि नानुमानमसिद्धहेतुत्वात् प्रवृत्तिसामान्यस्य प्रवृत्तिविशेष. त्वेनाभूतत्वमसिद्धम् , प्रवृत्तिविशेषस्वरूपत्वादेव तत्सामान्यस्य सामान्यस्य प्रवृत्तिविशेषस्वरूपत्वश्च 10 सर्वभवनस्याविच्छिन्नत्वात् तदविनाभावाच्च गत्यादिविशेषाणाम् , भवनस्वात्मवदिति, तन्याय मनुस्मारयन्नाह प्रवृत्तिविशेषत्वेनाभूतत्वाद्यसिद्धतापि चैवमुक्तव, आदिग्रह्णाद्विरोधाविरोधभावौ द्रव्यक्रिययोरेवमुक्तावेवेति । यदप्युक्तमसत्त्वाद्रव्यद्वितीयतापि नैव प्रवृत्तिसामान्यस्यासत्त्वञ्च खपुष्पवदगत्यादित्वादिति, अत्रोच्यते 15 भवनस्यापि साधनाकांक्षा वर्तत एवेत्साह-पचेरोदनफलनिवृत्ताविति, अत्रेदं बोध्यं वैयाकरणमतेऽस्तिभवतिविद्यतीना मपि प्रवृत्तिविशेषत्वमेव, अन्यथा तेषां धातुसंज्ञा नोपपद्येत, साधितञ्च भाष्ये भवनस्यापि क्रियाविशेषत्वम् 'अन्यथा हि कारकाण्यस्तो प्रवर्तन्ते, अन्यथा हि म्रियतौ' इति, अत्र च प्रवृत्तिसामान्यं भवनं प्रवृत्तिविशेषाः पच्यादय इत्याश्रित्य पच्यादीनां प्रवृत्तिविशेषाणां कारकापेक्षावत् प्रवृत्तिसामान्यं भवनमपि घटादिफलजनने कारकाण्यपेक्षत इति विशेषाभावात् प्रवृत्तिविशेष इत्यत्र विशेषपदोपादानमनर्थकमेवेत्युक्तमिति । आकांक्षामेव दर्शयति-कर्ता कुम्भकार इति घटस्य कर्ता कुम्भकार इत्यर्थः, कुम्भकारः कत्ता, दण्डादि करणम् , उदकाहरणादि सम्प्रदानम्, मृदपादानम्, शालाऽधिकरणमित्येतानि कारकाण्यपेक्षन्ते 20 इति भावः । देशकालभावगन्तव्याध्वनामपि अकर्मकधातुयोगे सकर्मकधातुयोगेऽपि कर्मत्वात् कुरून् खपिति मासमास्ते हमास्ते क्रोशमास्त इत्यादाविव घटादिनिष्पत्तौ कालस्यापि कारकत्वे सप्तवर्षशतानि कारकं भवतीति देशविशेषजातघटा. पेक्षया दृष्टान्तमाह-मालवनगर इति प्रवृत्तिसामान्यस्याक्रियात्वे वाद्युक्तं मानं दूषयति-यदप्युक्तमिति । प्रवृत्तिसामान्यस्यैव प्रवृत्तिविशेषत्वात्त्वदुक्तो हेतुरसिद्ध इत्याह-तदपि नानुमानमिति । भवनं हि वस्तुषु सर्वदा वत्तते न कदाचिदपि तस्यास्ति विच्छेदः, यदि विच्छेदः स्यात् स्यान्नाम विशेषप्रवृत्तिकाले सामान्यप्रवृत्तिर्नास्तीति विशेषप्रवृत्तेः क्रियात्वम्, न चैवमिति गत्यादिकालेऽपि तस्याः सत्त्वेनाविनाभावात् विशेषोऽपि प्रवृत्तिसामान्यमेव, तथा च भवनखात्मा यथा भवनभूत 25 एव तथा प्रवृत्तिविशेषोऽपि भवनभूत एवेति प्रवृत्तिविशेषत्वेनाभूतत्वं सामान्यस्यासिद्धमित्यादर्शयति सामान्यस्येति, सर्वभव नस्याविच्छिन्नत्वात् सर्वकालं भवनस्य प्रवाहरूपेण सत्त्वात् , गतिस्थित्यादिसर्वेषां भावानां विच्छेदस्यैवाभावादिति वाऽर्थः, .सि. क. पेक्षावा मृ० । २ सि. क. कुलालदण्डायुदकातयाहृत्य तच्छालाया इति । ३ सि. क. वर्षेऽत्रद । ४ सि. क, तथैवामरस्य । ५सि.क, प्रवृत्तिविशेषत्वेनाभूतत्वमसिद्धम् प्रवृत्तिविशेषरूपत्वात् सामान्यस्य प्रवृत्तिविशेषस्वरूपत्वात् इत्यधिकं दृश्यते । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350