Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 275
________________ ५४२” द्वादशारनयचक्रम् [उभयनयारे तथा च द्रव्यं क्रिया च द्वौ भावाविति द्रव्यस्य द्वितीयो भावः क्रियेत्येतदपि चनोपपद्यते, तस्याः क्रियाया असत्त्वात् खपुष्पवत् , असत्त्वमद्रव्यत्वे सत्यगत्यादित्वात् खपुष्पवत् अगत्यादित्वञ्च तदव्यापित्वादिति । तथा चेत्यादि, एवश्च कृत्वा द्रव्यं क्रिया च द्वौ भावाविति द्रव्यस्य-भावस्य द्वितीयो भावः 5 क्रियेत्येतदपि प्रवृत्तिसामान्यक्रियावादिनो नोपपद्यते, तस्याः क्रियायास्त्वदिष्टाया असत्त्वात् खपुष्पस्येव, यथा खपुष्पमसत्त्वाव्यस्य द्वितीयं न भवति तथा प्रवृत्तिसामान्यमिति, असत्त्वमसिद्धं प्रवृत्तिसामान्यस्येति चेत्-असत्त्वं[अ]द्रव्यत्वे सत्यगत्यादित्वात् खपुष्पवत् , अगत्यादित्वश्च तदव्यापित्वादिति तस्मात् प्रवृत्तिविशेषः क्रिया न प्रवृत्तिसामान्यमिति वैयाकरणपक्षः।। अत्रोच्यते अभ्युपगता तावदस्मदभिमतवत् सर्वभावविषया प्रवृत्तिर्भावानामात्मेति 10 न हीह कश्चित्स्वात्मनि मुहूर्त्तमप्यवतिष्ठते वर्द्धते यावदनेन वर्द्धितव्यमपायेन वा युज्यत इति ब्रुवता, स चाभ्युपगमोऽस्मन्मतसाम्यात् प्रवृत्तिसामान्यक्रियात्वं समर्थयति फलान्तरहेतुहेतुभावाविभक्तवृत्तिः सर्वभावेष्वित्युक्तेः, न हीह कश्चित् स्वात्मनीति वचनात्। अत्रोच्यते अभ्युपगता तावदस्मदभिमतवदित्यादि, ननु त्वयापि प्रवृत्तिविशेषक्रि__यावादि[ना] प्रवृत्तिसामान्यमेव क्रियेत्येतदभ्युपगतमस्मदभिमतवत् , कथमिति तद्दर्शयति-सर्वभावविष. 15 या प्रवृत्तिर्भावानामात्मेति आदावेवेदमभ्युपगतं त्वया 'न हीह कश्चित् स्वात्मनि मुहूर्तमप्यवतिष्ठते वर्द्धते [वा] यावदनेन वर्द्धितव्यमपायेन [वा]युज्यते' ( महाभा० अ० ४ पा० १ आ० १) इति ब्रुवता सततसम्प्रवृत्तिरात्मस्वरूपमिति, स चाभ्युपगमोऽस्मन्मतसाम्यात् प्रवृत्तिसामान्यक्रियात्वं समर्थयति , किं कारणं ? फलान्तरहेतुहेतुभावाविभक्तवृत्तिः सर्वभावेष्वित्युक्ते:-फलं बीजादिप्रवृत्तेर्हेतुभूतस्याङ्कुरादि, ततोऽन्यानि फलानि फलान्तराणि तदनुबन्धजन्मानि पर्णनालकाण्डतुषशूकक्षीरतन्दुलादीनि क्रमेण हेतवः 20 पूर्व पूर्वे यथास्वं ततोऽपि पूर्व पूर्वेऽन्तरिता हेतुहेतवः त एव भावाः क्रियात्मानः, तैरेवाविभक्ता वृत्तिःवर्त्तनं सततसम्प्रवृत्तिः सर्वभावेष्वित्युक्तत्वात् , कथमुक्तं ? ने हीह कश्चित् स्वात्मनीत्यादिवचनात् , सर्वभावेषु बीजाङ्कुरमृत्पिण्डादिषूक्तं तच्च प्रवृत्तिसामान्यं तण्डुलविक्लेदादीनामपि तत्स्वारूप्यानतिवृत्तः । भावः । एवञ्च भावस्य द्वैविध्यं क्रियाया द्वितीयभावत्वश्चानुपपन्नमिति निगमयति-तथा चेति, विशेषानात्मकसामान्यक्रियाऽभ्युपगम इत्यर्थः गतार्थ, मूलं टीका च, एवं वैयाकरणपक्षः संस्थापितो ननु कारकाणामित्यादिना तमेतं पक्षं निराकुर्वन्नयं 25 नय आह-अत्रोच्यत इति, सामान्यप्रवृत्तेः क्रियात्वं साधयितुमयं नयो यवैयाकरणेन सर्वत्र प्रवृत्तिरभ्युपगतैवेति दर्शयति ननु त्वयापीति वैयाकरणेनेति भावः । तद्भन्थमादर्शयति-न हीहेति, भाष्येऽनेन ग्रन्थेन द्रव्यस्य गोत्वादिसामान्यस्य शशविषाणादेश्च लिङ्गलक्षणप्रवृत्तिमत्त्वं साधितम्, एवञ्च गुणत्रयाणां वैषम्यलक्षणा प्रवृत्तिः सामान्या परिणामविशेषानादरेण सर्ववस्त्वविशिष्टेति सततसम्प्रवृत्तिरात्मस्वरूपम्, तत्र च स्थितिपरिणामो द्रव्यमुच्यते तस्य सामान्यरूपतया सामान्ये नपुंसकमिति न्यायान्यमात्रस्य नपुंसकत्वम् , आविर्भावतिरोभावौ तु क्रिया कारकापेक्षाविशिष्टेति वृधपायावेव वर्द्धते इत्यादिना दर्शिताविति 30 तद्भाष्याभिप्रायः। सर्वभावविषया प्रवृत्तिभावानामात्मेत्यभ्युपगमे हेतुं दर्शयति-फलान्तरेति, कार्यकारणभावेन पूर्वोत्तरभावन भवनखरूपाणामहरपर्णनालकाण्डतुषशूकक्षीरतन्दुलादीनामेवाविर्भावतिरोभावात्मकतया क्रियात्वेन बीजादिरूपप्रवृत्तितस्तेषामविभक्तत्वादिति भावः विशेषाणां सामान्यापृथग्भावादिति यावत् । बीजारादीनां मृत्पिण्डस्थासादीनां सामान्यविशेषाणां यथाऽविभक्तवृत्तिता तथैव तण्डुलविक्लेदादीनामपि सामान्यविशेषाणामविभक्तवृत्तित्वात् प्रवृत्तिसामान्यानतिरिक्तत्वमेवेत्याह-सर्वभावे सि. क. नहि किश्चित् । २ सि.क. नहि किचित् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350