Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 273
________________ ५४० द्वादशारनयचक्रम् [उभयनयारे ननु कारकाणामित्यादि, भवनमेवाविशिष्टं सर्वत्र क्रियेत्यापादिते तदमृष्यतेदं वैयाकरणेन क्रियालक्षणमभिधीयते प्रवृत्तिविशेषः क्रियेत्यतज्ज्यायः क्रियालक्षणं न सततसम्प्रवृत्तिमात्रम् , तत्र कारकाणामित्येतस्य व्याख्यानमुद्भूतशब्दैः [कृतम्] कारकस्यैव क्रियात्वं मा विज्ञायि भवता कारकपृथग्भूता गृह्यतामिति भेददर्शनार्था षष्ठी, विशेषग्रहणं पुनः किमर्थमिति चेत्तत आह-सर्वत्र प्रवृत्तिसम्भव । इत्यादि, केनचित्फलोद्देशेनेति, सांव्यवहारिकमोदनादिफलमुद्दिश्यते, कारकवत्या इति स्वाश्रयापृथग्भूतकरणादिसाधनवत्या इत्यर्थः, सर्वा हि क्रिया कर्तसमवायिनी वा स्यात् पचतिभिनत्तिवत्फलवतीति, एवंरूपायाः पचिपठिगम्यादेः परिग्रहार्थं भिद्यादेच विशेषग्रहणमिति, प्रवृत्तिमात्रपरिग्रहे त्वत्पले दोष उच्यते-सर्वभावेषु हि प्रवृत्तिरस्तीत्यादि, रूपादिभिः सहभाविभिरसहभाविभिर्गतिस्थित्यादिभिश्च विशेषैः प्रत्याश्रयं वस्तुनि सहिता-युक्तैव सा प्रवृत्तिः प्रादुर्भावतिरोभावात्मिकेति, [ख]रूपम10 स्याः कथयति, प्रचयाप्रचयफलेति कार्यसामान्यक्रियां गृहीत्वोक्तं भाष्यकारेणेति तस्याः सर्वत्र वस्तुनि वसन्त्याः स्वरूपफलसद्भावप्रदर्शनार्थमुक्तमिति ग्रन्थं प्रयोजयति, सर्वस्या मुहूर्तमप्यनवस्थानात् किं फलं धातुसंज्ञा, अन्यथा हि कारकाण्यस्तो प्रवर्तन्ते, अन्यथा हि 'म्रियता'वित्युक्तम् । अत्र टीकाकार स्तस्य प्रयोजनादीन्याहभवनमेवेति । अविशेषेण द्रव्यभावयोर्भवनखरूपत्वात् प्रवृत्तिमात्रस्य क्रियात्वे द्रव्यस्यापि तदापत्त्या तद्वारणाय कारकाणामिति मेदषष्ट्या निदर्शितमित्याह-तत्र कारकाणामिति कारकशब्देन सकलकारकाणां कर्तृकर्मणोः प्रधानयोः साधनमात्रं वा 15 गृयत इति तत्तद्वादिभिर्व्याख्यानं कृतमिति भावः । विशेषग्रहणप्रयोजनमाह-विशेषग्रहणमिति, सर्वे ह्याः प्रवृत्तिमन्तः, तत्र कारकाणां फलजननरूपा प्रवृत्तिरेवान प्रवृत्तिविशेष उच्यते, एवञ्च प्रवृत्तिरेव विशेष इति विग्रहः, प्रवृत्तौ विशेषता च फलजननेनैव रूपेण न त्वधिश्रयणादिरूपेण, सर्वेषां कारकाणां फलजननयैव प्रवृत्तेः सर्वेषां कारकाणां फलजननरूपैकैव प्रवृत्तिः, तथा च प्रधान फलं प्रति सर्वेषां कारकाणां येन केनचिद्रूपेण जनकत्वात् सर्वेषां कारकाणां साधनत्वमप्यविशिष्टम् , खगतभेदेन तु जन वे तेषां कर्तृकरणत्वादिव्यपदेश इति भावः। प्रकृतधातूपात्तप्रधानफलमेवात्र फलपदेन ग्राह्यमिति सूचयति-सांव्यवहारिक मिति। सर्वत्र हि क्रिया कारकाद्भेदेन न गृह्यते कारकाणां हि प्रवृत्तिविशेषाऽसौ तत्समवेतैव,साधनस्य व्यापाराविष्टस्यैवाऽऽख्या20 तात् प्रतीतेरतः कारकसंसृष्टैव क्रिया सर्वा कर्मणा सम्बध्यत इत्याशयेनाचष्टे-स्वाश्रयेति क्रियाश्रयेत्यर्थः । अपरे तु कारकमत्र प्रधानं कर्तृकर्मरूपं विवक्षितं न त्वप्रधानं करणादि, कर्तरि कर्मणि च लकारदर्शनात् , अनेकक्रियाभेदेन कर्तृकर्ममेदात् कारकाणामिति बहुवचनमिति ब्रुवते, अत उक्तं-कर्तृसमवायिनी वेति, वाशब्दस्य फलवतीत्यप्रेणान्वयः, एवञ्च तयोर्या विशिष्टा प्रवृत्तिः सैव क्रियेति भावः । अत्रापि प्रवृत्तेर्विशेषरूपता प्रवृत्त्यन्तराद्भिद्यमानत्वात् , अत एवास्त्यादिक्रियाणां प्रवृत्तिविशेषत्व मिति बोध्यम् । विशेषपदानुपादानेऽनिष्टप्रसङ्गभुपदर्शयति-प्रवृत्तिमात्रेति सर्वे पदार्थाः आविर्भावतिरोभावस्थितिस्वरूपप्रवृत्ति25 मन्तो न कदाचिदपि प्रवृत्त्या वियुज्यन्ते, नहि परिणाम विना कश्चित् खस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते, सहभाव्यसहभाविभिः पर्यायैर्बाह्यनिमित्तोपाधानवशेन प्रतिकलमाविर्भावतिरोभावानुयाविरवात् , दृश्यते हि तेजस्संयोगादिबाह्यनिमित्तापेक्षः फलादीनां पूर्वपूर्वरूपाद्यपगमेऽभिनवरूपाद्युत्पादश्च, परन्तु न सा प्रवृत्तिः स्थूलदृशाऽवसेयेति न व्यवहारानुपातिनीति न तत्र साध्यसाधनभावो विनिश्चेतुं शक्य इति भावः। प्रवृत्तेः स्वाभाविकं फलं दर्शयति-प्रचयापचयफलेति अजस्रपरिणामिना सत्त्वरजस्तमसा परिणामो हि प्रवृत्तिरुच्यते, सत्त्वरजस्तमसां पुरुषार्थ परिणममानानां प्रवृत्तिराविर्भावतिरोभावलक्षणेवोपचयापचयरूपा सामान्य फलमिति 30 भावः । स्वरूपति, प्रचयापचयखरूपमेव फलमस्याः नान्यत्तद्व्यतिरिक्तमस्तीति तद्धन्थतात्पर्यमिति भावः । कथमन्यत् फलं नास्तीत्यत्राह-सर्वस्या इति, सर्वस्याः प्रवृत्तेः क्षणमप्यस्थिरत्वादिति भावः। तथाविधायास्तस्याः स्थूलदृग्भिरनवधाय सि.क. 'वृत्या०। २ सि. क. वस्तुनिरसहिता। ३ सि. क. कार्यसामहि क्रियायां गृहीतोतं.। सि. क. सर्वस्य । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350