________________
५४० द्वादशारनयचक्रम्
[उभयनयारे ननु कारकाणामित्यादि, भवनमेवाविशिष्टं सर्वत्र क्रियेत्यापादिते तदमृष्यतेदं वैयाकरणेन क्रियालक्षणमभिधीयते प्रवृत्तिविशेषः क्रियेत्यतज्ज्यायः क्रियालक्षणं न सततसम्प्रवृत्तिमात्रम् , तत्र कारकाणामित्येतस्य व्याख्यानमुद्भूतशब्दैः [कृतम्] कारकस्यैव क्रियात्वं मा विज्ञायि भवता कारकपृथग्भूता गृह्यतामिति भेददर्शनार्था षष्ठी, विशेषग्रहणं पुनः किमर्थमिति चेत्तत आह-सर्वत्र प्रवृत्तिसम्भव । इत्यादि, केनचित्फलोद्देशेनेति, सांव्यवहारिकमोदनादिफलमुद्दिश्यते, कारकवत्या इति स्वाश्रयापृथग्भूतकरणादिसाधनवत्या इत्यर्थः, सर्वा हि क्रिया कर्तसमवायिनी वा स्यात् पचतिभिनत्तिवत्फलवतीति, एवंरूपायाः पचिपठिगम्यादेः परिग्रहार्थं भिद्यादेच विशेषग्रहणमिति, प्रवृत्तिमात्रपरिग्रहे त्वत्पले दोष उच्यते-सर्वभावेषु हि प्रवृत्तिरस्तीत्यादि, रूपादिभिः सहभाविभिरसहभाविभिर्गतिस्थित्यादिभिश्च विशेषैः प्रत्याश्रयं वस्तुनि सहिता-युक्तैव सा प्रवृत्तिः प्रादुर्भावतिरोभावात्मिकेति, [ख]रूपम10 स्याः कथयति, प्रचयाप्रचयफलेति कार्यसामान्यक्रियां गृहीत्वोक्तं भाष्यकारेणेति तस्याः सर्वत्र वस्तुनि
वसन्त्याः स्वरूपफलसद्भावप्रदर्शनार्थमुक्तमिति ग्रन्थं प्रयोजयति, सर्वस्या मुहूर्तमप्यनवस्थानात् किं फलं
धातुसंज्ञा, अन्यथा हि कारकाण्यस्तो प्रवर्तन्ते, अन्यथा हि 'म्रियता'वित्युक्तम् । अत्र टीकाकार स्तस्य प्रयोजनादीन्याहभवनमेवेति । अविशेषेण द्रव्यभावयोर्भवनखरूपत्वात् प्रवृत्तिमात्रस्य क्रियात्वे द्रव्यस्यापि तदापत्त्या तद्वारणाय कारकाणामिति
मेदषष्ट्या निदर्शितमित्याह-तत्र कारकाणामिति कारकशब्देन सकलकारकाणां कर्तृकर्मणोः प्रधानयोः साधनमात्रं वा 15 गृयत इति तत्तद्वादिभिर्व्याख्यानं कृतमिति भावः । विशेषग्रहणप्रयोजनमाह-विशेषग्रहणमिति, सर्वे ह्याः प्रवृत्तिमन्तः, तत्र
कारकाणां फलजननरूपा प्रवृत्तिरेवान प्रवृत्तिविशेष उच्यते, एवञ्च प्रवृत्तिरेव विशेष इति विग्रहः, प्रवृत्तौ विशेषता च फलजननेनैव रूपेण न त्वधिश्रयणादिरूपेण, सर्वेषां कारकाणां फलजननयैव प्रवृत्तेः सर्वेषां कारकाणां फलजननरूपैकैव प्रवृत्तिः, तथा च प्रधान फलं प्रति सर्वेषां कारकाणां येन केनचिद्रूपेण जनकत्वात् सर्वेषां कारकाणां साधनत्वमप्यविशिष्टम् , खगतभेदेन तु जन
वे तेषां कर्तृकरणत्वादिव्यपदेश इति भावः। प्रकृतधातूपात्तप्रधानफलमेवात्र फलपदेन ग्राह्यमिति सूचयति-सांव्यवहारिक मिति। सर्वत्र हि क्रिया कारकाद्भेदेन न गृह्यते कारकाणां हि प्रवृत्तिविशेषाऽसौ तत्समवेतैव,साधनस्य व्यापाराविष्टस्यैवाऽऽख्या20 तात् प्रतीतेरतः कारकसंसृष्टैव क्रिया सर्वा कर्मणा सम्बध्यत इत्याशयेनाचष्टे-स्वाश्रयेति क्रियाश्रयेत्यर्थः । अपरे तु कारकमत्र
प्रधानं कर्तृकर्मरूपं विवक्षितं न त्वप्रधानं करणादि, कर्तरि कर्मणि च लकारदर्शनात् , अनेकक्रियाभेदेन कर्तृकर्ममेदात् कारकाणामिति बहुवचनमिति ब्रुवते, अत उक्तं-कर्तृसमवायिनी वेति, वाशब्दस्य फलवतीत्यप्रेणान्वयः, एवञ्च तयोर्या विशिष्टा प्रवृत्तिः सैव क्रियेति भावः । अत्रापि प्रवृत्तेर्विशेषरूपता प्रवृत्त्यन्तराद्भिद्यमानत्वात् , अत एवास्त्यादिक्रियाणां प्रवृत्तिविशेषत्व मिति बोध्यम् । विशेषपदानुपादानेऽनिष्टप्रसङ्गभुपदर्शयति-प्रवृत्तिमात्रेति सर्वे पदार्थाः आविर्भावतिरोभावस्थितिस्वरूपप्रवृत्ति25 मन्तो न कदाचिदपि प्रवृत्त्या वियुज्यन्ते, नहि परिणाम विना कश्चित् खस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते, सहभाव्यसहभाविभिः पर्यायैर्बाह्यनिमित्तोपाधानवशेन प्रतिकलमाविर्भावतिरोभावानुयाविरवात् , दृश्यते हि तेजस्संयोगादिबाह्यनिमित्तापेक्षः फलादीनां पूर्वपूर्वरूपाद्यपगमेऽभिनवरूपाद्युत्पादश्च, परन्तु न सा प्रवृत्तिः स्थूलदृशाऽवसेयेति न व्यवहारानुपातिनीति न तत्र साध्यसाधनभावो विनिश्चेतुं शक्य इति भावः। प्रवृत्तेः स्वाभाविकं फलं दर्शयति-प्रचयापचयफलेति अजस्रपरिणामिना सत्त्वरजस्तमसा परिणामो
हि प्रवृत्तिरुच्यते, सत्त्वरजस्तमसां पुरुषार्थ परिणममानानां प्रवृत्तिराविर्भावतिरोभावलक्षणेवोपचयापचयरूपा सामान्य फलमिति 30 भावः । स्वरूपति, प्रचयापचयखरूपमेव फलमस्याः नान्यत्तद्व्यतिरिक्तमस्तीति तद्धन्थतात्पर्यमिति भावः । कथमन्यत् फलं नास्तीत्यत्राह-सर्वस्या इति, सर्वस्याः प्रवृत्तेः क्षणमप्यस्थिरत्वादिति भावः। तथाविधायास्तस्याः स्थूलदृग्भिरनवधाय
सि.क. 'वृत्या०। २ सि. क. वस्तुनिरसहिता। ३ सि. क. कार्यसामहि क्रियायां गृहीतोतं.। सि. क. सर्वस्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org