________________
क्रियाविचारः] न्यायागमानुसारिणीव्याख्यासमेतम् लौकिकी-सांव्यवहारिकमिति व्यवहाराक्षमतां दर्शयति,विशेषग्रहणसामर्थ्यात्पुनर्विशेषास्तूपजायमानाः पच्यादयः ओदनादि फलान्तरहेतवः स्वाश्रयाः कारकान्तराण्यपेक्षन्ते, तन्निदर्शयति यथा विक्लेदस्तण्डुलाश्रयः काष्ठादीन्यपेक्षत इति, तदुपनयति तत्र या प्रवृत्तिरित्यादि गतार्थ यावन्न प्रवृत्तिसामान्यमिति इति विशेषग्रहणसाफल्यं व्याख्यातं भवति, प्रवृत्तिसामान्यस्याक्रियात्वञ्च भावश्च क्रियेत्यादि यावत् कुतः क्रियात्वं ? फलोद्देशकारकसम्बन्धा[भा]वाद्यदुच्यते द्रव्यं च क्रियत इति प्रत्ययबलेन त्वयोच्यते । द्रव्यक्रियात्मको भाव इति तन्न सिद्ध्यति त्वदभिप्रेतक्रियाभावासिद्धेरित्यर्थः, इतश्चासिद्धिः विशेषाव्यापित्वान्न प्रवृत्तिसामान्य क्रियेति तत्प्रदर्शनार्थमाह गच्छत्यादिव्यापिरूपता वेति, कुत इति वर्तते, गच्छत्यादिव्यापिनी न भवति त्वदिष्टप्र[]त्तिसामान्यलक्षणा क्रिया, प्रवृत्तिविशेषत्वेनाभूतत्वात् , यद्यत् प्रवृत्तिविशेषत्वेनाभूतं तद्गच्छत्यादीन् न व्याप्नोति यथा कारक कारकाणां प्रवृत्तिविशेषत्वेनाभूतमक्रिया, अक्रियात्वश्चावयोः सिद्धमिति दृष्टान्तः साधयेण, वैधम्र्येण तद्भेदवदिति, या या क्रिया सा सा 10 प्रवृत्तिविशेषत्वेन भूता यथा गच्छतितिष्ठत्यादिक्रियाभेदो द्रवणपतनसर्पणरिङ्गणादयो वा गमनविशेषाः, तस्माद्गच्छत्याद्यव्यापित्वादप्यक्रियात्वं प्रवृत्तिसामान्यस्य कारकवदिति ।
माणाया व्यवहारानङ्गत्वं किं फलमित्यनेन दर्शितमित्याह-लौकिकमिति । समारोपितसमूहरूपास्ता एव धातुवाच्याः प्रवृत्तयो विशेषरूपतामुपगता व्यवहारक्षमा भवन्तीत्याह-विशेषग्रहणेति, प्रवृत्तिलक्षणेयं क्रियाऽनपायिनी साधनशक्तिभिः सह साध्यमेकं साधयितुं भागशः प्रविभक्ता भवति विशेषरूपतामापाद्य कारकशक्तीन् प्रवर्तयतीति भावः । तदेवाऽह-यथा 15 विक्लेद इति । कर्तृकर्मादिकारकमेदेऽप्यनुवर्तमानत्वमेव प्रवृत्तेर्विशेषः जातितुल्यः पचतीत्यादिप्रत्ययव्यङ्ग्यः स च विशेषः खाश्रयभूतक्रियामुखेन साध्यः सक्रमश्च, अत एव खाश्रयद्वारेणैवास्य साधनाकांक्षा, सामान्यभूता प्रवृत्तिस्तु न क्रिया, असाध्यत्वात् , पचिपठिगम्यादिक्रिया एव हि साध्यत्वेन प्रतीयन्ते न तु प्रतिक्षणप्रवद्रपा प्रवृत्तिनित्यत्वादग्राह्यत्वाच्चेत्याशयेनाह-तत्र या प्रवृत्तिरिति, अत्रोद्धृतं मूलं न स्फुटमुपलभ्यते । भावश्च क्रियेति भवनसम्बन्धमात्राद्यदभ्युपगम्यते नासौ भावः क्रिया भवितुमर्हति साक्षात् फलोद्देशकारकसम्बन्धाभावात् , वैयाकरणैः सामान्यक्रियावाचिना भावशब्देन साक्षादनभिधीयमानोऽपि विशेषः सामान्यविशेषात्मकवस्तुसामर्थ्यात् सन्निहित एव, सामान्यविशेषयोरत्यन्तमेदाभावात् सकलविशेषपरिहारेण 20 सामान्यरूपानुपपत्तरिति खीक्रियते, ये तु सामान्य भिन्नमेवाचक्षते तेषान्तु भावस्य विशेषानात्मकस्य क्रियात्वं नोपपद्यत एवेति ध्येयम् । सामान्यात्मक्रियाया अभावं साधयति-यदुच्यत इति विशेषानात्मकसामान्यक्रियायाः फलोद्देशकारकसम्बन्धायोग्याया असत्वात् कथं द्रव्यं क्रिया चेत्युभयं भावो भवेदिति भावः । हेत्वन्तरमाह-विशेषाव्यापित्वादिति, किं करोतीति प्रश्न पचति, किं करिष्यति? पक्ष्यति, किमकार्षीत् ? अपाक्षीदिति सामान्यविशेषभावेन पचादेः करोतिना सामान धिकरण्यात् यथा क्रियाविशेषाः पचादयः विशेषव्यापिनः तथा भवतिनासामानाधिकरण्याभावात् क्रियामात्रपर्यायो भावो न 25 विशेषव्यापीति न तस्य क्रियात्वमिति भावः । अत एवोच्यते-गच्छत्यादीति । अत्रैव प्रयोगमाह-गच्छत्यादिव्यापिनीति । यथा क्रियाविशेषमजनयत् कारकं कारकं न भवति विशेषरूपतामन्तरेण सामान्यरूपताया असम्भवात् तथा क्रियापि विशेषाव्यापित्वेऽसत्येवेति दृष्टान्तं दर्शयति-यथा कारकमिति । करोतीति हि कारकमिति क्रियायाः शब्देन प्रतीतेस्तनिर्वतकतया कादिविशेषप्रतिपत्तिः, तथा विशेषाप्रतिपत्तौ भवतामप्यक्रियात्वं तस्येष्टमेवेत्याह-अक्रियात्वश्चेति । वैधम्यदृष्टान्तेन व्याप्तिं दृढयति-वैधयेणेति. यथा गच्छत्यादयः क्रियात्वात् प्रवृत्तिविशेषत्वेन भूताः, न तथा 30 भावात्मा क्रियेति तस्या अक्रियात्वमेव, एवं गत्यादिक्रिया अपि द्रवणपतनादिप्रवृत्तिविशेषा एव क्रिया भवन्ति न तथा भवन मिति
-
-
सि.क. स्नाश्रयात् । २ वैधयं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org