________________
५४२” द्वादशारनयचक्रम्
[उभयनयारे तथा च द्रव्यं क्रिया च द्वौ भावाविति द्रव्यस्य द्वितीयो भावः क्रियेत्येतदपि चनोपपद्यते, तस्याः क्रियाया असत्त्वात् खपुष्पवत् , असत्त्वमद्रव्यत्वे सत्यगत्यादित्वात् खपुष्पवत् अगत्यादित्वञ्च तदव्यापित्वादिति ।
तथा चेत्यादि, एवश्च कृत्वा द्रव्यं क्रिया च द्वौ भावाविति द्रव्यस्य-भावस्य द्वितीयो भावः 5 क्रियेत्येतदपि प्रवृत्तिसामान्यक्रियावादिनो नोपपद्यते, तस्याः क्रियायास्त्वदिष्टाया असत्त्वात् खपुष्पस्येव, यथा खपुष्पमसत्त्वाव्यस्य द्वितीयं न भवति तथा प्रवृत्तिसामान्यमिति, असत्त्वमसिद्धं प्रवृत्तिसामान्यस्येति चेत्-असत्त्वं[अ]द्रव्यत्वे सत्यगत्यादित्वात् खपुष्पवत् , अगत्यादित्वश्च तदव्यापित्वादिति तस्मात् प्रवृत्तिविशेषः क्रिया न प्रवृत्तिसामान्यमिति वैयाकरणपक्षः।।
अत्रोच्यते अभ्युपगता तावदस्मदभिमतवत् सर्वभावविषया प्रवृत्तिर्भावानामात्मेति 10 न हीह कश्चित्स्वात्मनि मुहूर्त्तमप्यवतिष्ठते वर्द्धते यावदनेन वर्द्धितव्यमपायेन वा युज्यत इति
ब्रुवता, स चाभ्युपगमोऽस्मन्मतसाम्यात् प्रवृत्तिसामान्यक्रियात्वं समर्थयति फलान्तरहेतुहेतुभावाविभक्तवृत्तिः सर्वभावेष्वित्युक्तेः, न हीह कश्चित् स्वात्मनीति वचनात्।
अत्रोच्यते अभ्युपगता तावदस्मदभिमतवदित्यादि, ननु त्वयापि प्रवृत्तिविशेषक्रि__यावादि[ना] प्रवृत्तिसामान्यमेव क्रियेत्येतदभ्युपगतमस्मदभिमतवत् , कथमिति तद्दर्शयति-सर्वभावविष. 15 या प्रवृत्तिर्भावानामात्मेति आदावेवेदमभ्युपगतं त्वया 'न हीह कश्चित् स्वात्मनि मुहूर्तमप्यवतिष्ठते वर्द्धते [वा] यावदनेन वर्द्धितव्यमपायेन [वा]युज्यते' ( महाभा० अ० ४ पा० १ आ० १) इति ब्रुवता सततसम्प्रवृत्तिरात्मस्वरूपमिति, स चाभ्युपगमोऽस्मन्मतसाम्यात् प्रवृत्तिसामान्यक्रियात्वं समर्थयति , किं कारणं ? फलान्तरहेतुहेतुभावाविभक्तवृत्तिः सर्वभावेष्वित्युक्ते:-फलं बीजादिप्रवृत्तेर्हेतुभूतस्याङ्कुरादि, ततोऽन्यानि फलानि फलान्तराणि तदनुबन्धजन्मानि पर्णनालकाण्डतुषशूकक्षीरतन्दुलादीनि क्रमेण हेतवः 20 पूर्व पूर्वे यथास्वं ततोऽपि पूर्व पूर्वेऽन्तरिता हेतुहेतवः त एव भावाः क्रियात्मानः, तैरेवाविभक्ता वृत्तिःवर्त्तनं सततसम्प्रवृत्तिः सर्वभावेष्वित्युक्तत्वात् , कथमुक्तं ? ने हीह कश्चित् स्वात्मनीत्यादिवचनात् , सर्वभावेषु बीजाङ्कुरमृत्पिण्डादिषूक्तं तच्च प्रवृत्तिसामान्यं तण्डुलविक्लेदादीनामपि तत्स्वारूप्यानतिवृत्तः । भावः । एवञ्च भावस्य द्वैविध्यं क्रियाया द्वितीयभावत्वश्चानुपपन्नमिति निगमयति-तथा चेति, विशेषानात्मकसामान्यक्रियाऽभ्युपगम इत्यर्थः गतार्थ, मूलं टीका च, एवं वैयाकरणपक्षः संस्थापितो ननु कारकाणामित्यादिना तमेतं पक्षं निराकुर्वन्नयं 25 नय आह-अत्रोच्यत इति, सामान्यप्रवृत्तेः क्रियात्वं साधयितुमयं नयो यवैयाकरणेन सर्वत्र प्रवृत्तिरभ्युपगतैवेति दर्शयति
ननु त्वयापीति वैयाकरणेनेति भावः । तद्भन्थमादर्शयति-न हीहेति, भाष्येऽनेन ग्रन्थेन द्रव्यस्य गोत्वादिसामान्यस्य शशविषाणादेश्च लिङ्गलक्षणप्रवृत्तिमत्त्वं साधितम्, एवञ्च गुणत्रयाणां वैषम्यलक्षणा प्रवृत्तिः सामान्या परिणामविशेषानादरेण सर्ववस्त्वविशिष्टेति सततसम्प्रवृत्तिरात्मस्वरूपम्, तत्र च स्थितिपरिणामो द्रव्यमुच्यते तस्य सामान्यरूपतया सामान्ये नपुंसकमिति न्यायान्यमात्रस्य नपुंसकत्वम् , आविर्भावतिरोभावौ तु क्रिया कारकापेक्षाविशिष्टेति वृधपायावेव वर्द्धते इत्यादिना दर्शिताविति 30 तद्भाष्याभिप्रायः। सर्वभावविषया प्रवृत्तिभावानामात्मेत्यभ्युपगमे हेतुं दर्शयति-फलान्तरेति, कार्यकारणभावेन पूर्वोत्तरभावन
भवनखरूपाणामहरपर्णनालकाण्डतुषशूकक्षीरतन्दुलादीनामेवाविर्भावतिरोभावात्मकतया क्रियात्वेन बीजादिरूपप्रवृत्तितस्तेषामविभक्तत्वादिति भावः विशेषाणां सामान्यापृथग्भावादिति यावत् । बीजारादीनां मृत्पिण्डस्थासादीनां सामान्यविशेषाणां यथाऽविभक्तवृत्तिता तथैव तण्डुलविक्लेदादीनामपि सामान्यविशेषाणामविभक्तवृत्तित्वात् प्रवृत्तिसामान्यानतिरिक्तत्वमेवेत्याह-सर्वभावे
सि. क. नहि किश्चित् । २ सि.क. नहि किचित् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org