________________
५४३
वैयाकरणपक्षक्षेपः] न्यायागमानुसारिणीव्याख्यासमेतम् . किश्चान्यत्- यदपि चोक्तं केनचित् फलोद्देशेन प्रवृत्तिविशेषः कारकाणामिति, एतेनापि वचनेन सामान्यप्रवृत्तरेव क्रियात्वमुक्तम् , अनन्तरोक्तविशेषद्वयसन्निधानात् प्रवृत्तिविशेषात्मिकापि सैव, यदपि चोक्तं विशेषास्तूपजायमाना इत्यादि यावन्न प्रवृत्तिसामान्यं लोकव्यवहारानङ्गत्वादिति, अत्रोच्यते इहापि समानकल्पत्वात् , यथा च विशेषा उपजायमानाः । पच्यादय ओदनादिफलनिवृत्तौ कारकान्तराण्यपेक्षन्ते तथा मृद्भवनमपि घटफलनिवृत्तौ कारकान्तराण्यपेक्षत एव कर्ता कुम्भकारोऽस्य करणेन दण्डादिना जलाधाहरणाय मृदाहृत्य तच्छालायां घट निर्वर्त्तयति, मालवनगरे सप्तवर्षशतानि यावत् स एव घट आर्द्रादिसामिशुष्कनवयुवाद्यन्यथाभवनेऽपि तथातथाभवति तत्राम एव घटो वर्ष न दर्श्यते सङ्गोप्यते च गोदोहं वा तडागादौ, तथैवापरस्य क्षणमप्यनवस्थानमुदके प्रक्षिप्तस्येति, 10 प्रवृत्तिविशेषत्वेनाभूतत्वाद्यसिद्धतापि चैवमुक्तैव । .... यदपि चोक्तं केनचित्फलोद्देशेन प्रवृत्तिविशेषः कारकाणामिति, स च विशेषः, सहभाविनो रूपादयोऽसहभाविनो गमनस्थानादयश्च तैः प्रत्याश्रयं युक्ता सदात्मिका चेत्येतेनापि वचनेन सामान्यप्रवृत्तरेव क्रियात्वमुक्तम् , किं कारणं ? अनन्तरोक्तविशेषद्वयसन्निधानात् सर्वत्र तेषामेव च विशेषाणां सामान्यप्रवृत्त्यात्मकानामोदनाद्युद्दिश्य फलरूपत्वात् सन्निधानाच्च फलान्तरहेतुत्वात् तेषामेव, 15 त एव ह्योदनादिफलान्तरहेतवो नान्यः कश्चित् , अतः प्रवृत्तिविशेषास्मिकापि सैव-सामान्यप्रवृत्तिरेवेति, यदपि चोक्तं विशेषास्तूपजायमाना इत्यादि-तदनन्तरोक्तो ग्रन्थो यावन्न प्रवृत्तिसामान्यं लोकव्यवहारानङ्गत्वादिति, अत्रोच्यते इहापि समानकल्पत्वान्न दोषो विशेषग्रहणानर्थक्यश्च परपक्ष इत्यत आह-.
Nw
स्विति । कारकाणां प्रवृत्तिविशेषः क्रियेसनेनापि प्रवृत्तिसामान्यस्यैव क्रियात्वमुक्तमत एवेत्याह-यदपि चोक्तमिति । केनचिदिति, फलजननखरूपा कारकाणां सामान्यात्मिका क्रियैव प्रवृत्तिविशेष इत्युच्यते, सर्वकारकाणां फलजननायैव 20 प्रवृत्तेः, परिस्पन्दलक्षणव्यापारस्यैव लोकप्रसिद्धस्य व्यावर्त्तनाय प्रवृत्तिविशेष इत्युक्तं न तु प्रवृत्तिसामान्यव्युदसनाय, सर्वा प्रवृत्तिः प्रवृत्त्यन्तराद्भिद्यमाना विशेषरूपतामापद्यत इति प्रवृत्तिरेव विशेषः प्रवृत्तिविशेष इत्युक्तामेति भावः । अनेनापि वचनेनास्मदभिमतप्रवृत्तिसामान्यस्यैव क्रियात्वमुक्तमित्याशयेन व्युदस्यति-सामान्यप्रवृत्तेरेवेति । हेतुं दर्शयति-अनन्तरोक्तेति सामान्यरूपाया एव प्रवृत्तेः किञ्चिदपेक्षया फलत्वात् किञ्चिदपेक्षया च हेतुत्वाद्विशेषद्वयसन्निधानात् सामान्यप्रवृत्तिरेव सेति भावः । एतदेव व्याचष्टे-सर्वत्रेति यथा पश्य मृगो धावतीत्यादौ धावनक्रियकव कर्तृमृगापेक्षया साध्या दर्शनक्रियापेक्षया च कर्म भवति, न च मृगः कर्म द्वितीयाप्रसङ्गादिति, परन्त्वेतावान् विशेषः प्रथम साध्यत्वं ततः साधनत्वमिति, न त्वेकदा ते, अनिष्पन्नस्य साधनत्वासम्भवात् , एवञ्चैकस्य विशेषद्वय सन्निधानात् प्रवृत्तिविशेषोऽपि सन् प्रवृत्तिसामान्यरूप एवेति भावः । अथोपजायमानाः प्रवृत्तिविशेषाः कारकाण्यपेक्षन्ते, न तु प्रवृत्तिसामान्यं तस्य व्यवहारानङ्गत्वादिति यदुक्तं तन्निराकर्तुमाह-यदपि चोक्तमिति 'यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् सा क्रियेयभिधीयते । इत्युक्त्या साध्यत्वेनाभिधीयमानाऽऽ. श्रितक्रमरूपा प्रवृत्तिरेव प्रवृत्तिविशेषरूपोच्यते तथाविधा प्रवृत्तिः साध्यत्वात् कारकान्तराण्यपेक्षते, एवञ्चानाश्रितक्रमरूपा : प्रवृत्तिः प्रवृत्तिसामान्यम् , निरुक्ता प्रवृत्तिः प्रवृत्तिविशेष इत्युक्तं भवतीत्येवं तात्पर्य पूर्वपक्षस्य प्रतिभाति । अयमपि पक्षः प्रवृत्तिसामान्यतद्विशेषयोरैक्यापादनादेव निरस्त इत्याशयेन समाधत्ते-अत्रोच्यत इति । प्रवृत्तिविशेषस्येव प्रवृत्तिसामान्यस्य
१सि. क. रेवेति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org