SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ गतिस्थितिविचारः] न्यायागमानुसारिणीव्याख्यासमेतम् नवगम्यमानस्य वऋभिप्रायानुवर्तिभिर्व्याख्यातृभिर्विशेषेऽवस्थापनं दृष्टम, तच्च तेनैव शब्देनोपात्तार्थे घटते नान्यथेति, तथा श्रोत्राप्यश्रुतोऽपि गृह्यते स इति गच्छतीत्युक्ते, को गच्छति देवदत्त इत्यन्तेअवसाने नानः कर्तृत्वप्रतिपत्तिः, यद्यपि तिपोपात्तं कर्तृत्वं तथापि यां तां गतिं गत्वा नामपदार्थ एव कर्त्तति प्रतिपत्तिः श्रोतुरपि भवन्ती दृष्टेति, [एवञ्च] अन्योऽन्याभिसम्बद्धद्रव्यक्रियावाचिनौ नामाख्यातशब्दाविति साधूक्तम् , एवमुपपत्त्यनन्तरं शब्दार्थोऽपि द्रव्यक्रियात्मकवस्तुविषय इति भावितम् । । ___ अनया च शब्दार्थगतिभावनया लोके दृष्टया भवनमेवेदमेकरूपं देवदत्तभेदं गतिभेदं स्थितिभेदं वृत्त्यवृत्तिहसनकथनादिभेदं वा भवतीति सर्वत्र व्यक्तेर्भवतितेन तथा तथा भूयत इति। अनया चेत्यादि, एतया शब्दार्थगतिभावनयाऽस्मद्व्याख्यातया लोके दृष्टया भवनमेवेदमेकरूपं देवदत्तभेदं गतिभेदं स्थितिभेदं वृत्त्यवृत्तिहसनकथनादिभेदं वा भवतीति सर्वत्र व्यक्तेर्भवति, यस्मात्तेन तथा [तथा] भूयत इति, इतिशब्द[स्य हेत्वर्थत्वात्-यस्मादेकमेव भवनं देवदत्तद्रव्यरूपं गतिस्थित्या- 10 दिक्रियारूपश्च भवति तेनैव तेन तेन रूपेण भूयते न भवनशून्यमन्यत् किश्चिदस्ति, भवनमेव भवतीति । ननु कारकाणां प्रवृत्तिविशेषः क्रियेत्येतज्यायः क्रियालक्षणम् , न सततसम्प्रवृत्तिमात्रम् , सर्वत्र प्रवृत्तिसम्भवेऽपि केनचित्फलोद्देशेन कारकवत्याः क्रियायाः पचिपठिगम्यादेः परिग्रहार्थ विशेषग्रहणम् , प्रवृत्तिमात्रपरिग्रहे तु सर्वभावेषु हि प्रवृत्तिरस्तीति सहभाविभिरसहभाविभिर्विशेषैः प्रत्याश्रयं सहिता प्रचयापचयफला सा तस्याः सर्ववस्तुनि वसन्त्या मुहूर्तमप्यन- 15 वस्थानात् किं फलं लौकिकं स्यात् ? विशेषास्तूपजायमानाः पच्यादय ओदनादिफलान्तरहेतव स्वाश्रयाः कारकान्तराण्यपेक्षन्ते, यथा विक्लेदस्तण्डुलाश्रयः काष्ठादीन्यपेक्षते, तत्र या प्रवृत्तिः भवनरूपा सा कारकान्तरानपेक्षत्वेन विशेषाव्यापित्वान्न प्रवृत्तिसामान्य क्रिया लोकव्यवहारानङ्गत्वात् , भावश्च क्रिया द्रव्यञ्चेति यदुच्यते तत्र क्रियायाः फलोद्देशकारकसम्बन्धाभावात् 20 कुतः क्रियात्वम् ? गच्छत्यादिव्यापिरूपता वा ? प्रवृत्तिविशेषत्वेनाभूतत्वात् , कारकवत् , वैधर्येण तद्भेदवत् । इति प्रतिपत्तिः, ततश्च को गच्छतीति कर्तृविशेषजिज्ञासायां देवदत्तो गच्छतीति देवदत्तादिनान्नः संसर्गादिनाऽवगतिरित्याशयेनाहश्रोत्रापीति । एवञ्च नामाख्यातशब्दौ परस्पराभिसम्बद्धद्रव्यक्रियावाचिनौ सिद्धावित्युपसंहरति-एवञ्चेति । इत्थमेकस्यैव शब्दस्य द्रव्यक्रियाप्रतिपादकत्ववत् सर्वमेकरूपमेव शक्तिमेदात् देवदत्तादिद्रव्यभेदं गच्छत्यादिभेदश्च भवतीति द्रव्यक्रिययोर्भवनसामान्याद्भवनमेवेदं सर्वमिति प्रकृतनयविषयमुपदर्शयति अनया चेति, शब्दार्थयोर्या गतिर्भाविता तयेत्यर्थः एक एव नामशब्द 25 आख्यातशब्दो वा यथा सर्वशक्तित्वात् द्रव्यक्रियालक्षणस्य निखिलार्थस्य बोधकः, सर्वे शब्दाः सर्वार्थाभिधानसमर्था इतीष्टत्वात्तथैवैकमेव भवनं वस्तु द्रव्यक्रियारूपेण भवति भवनव्यतिरिक्तस्य कस्यापि वस्तुनोऽभावादित्याशयेन व्याचष्टे-पतयेति । तथा च सर्व भवनरूपमेवेति भवनसामान्य स्यैव क्रियात्वे प्रतिपादिते तदनभ्युपगच्छता वैयाकरणेन यत्क्रियालक्षणमुक्त तद्दर्शयति-ननु कारकाणामिति भूवादयो धातव इति सूत्रव्याख्यानावसरे भाष्यकारः क्रियावचनो धातुरिति पूर्वाचार्यधातुलक्षणे करोतीति क्रियेत्यभ्युपगम्यास्तिभवतिविद्यतीनां करोतिना सामानाधिकरण्याभावादव्याप्या धातुत्वं वक्तव्यमिति चोदितम् , 30 लोके हि परिस्पन्दखभावा क्रिया प्रसिद्धा, अस्तिभवतिविद्यतीनाच न परिस्पन्दखभावोऽर्थ इति सकलधातुव्यापक क्रियालक्षणं कारकाणां प्रवृत्तिविशेष इति भाष्यकृता प्रणीतम् , सर्वेषां कारकाणामेकविधप्रवृत्तेरसम्भवात् देवदत्तः पचति काष्ठानि पचन्ति स्थाली पचतीत्येवं सर्वत्र पचिप्रयोगाच्च प्रवृत्तेरनेकविधत्वात् प्रवृत्तिविशेषः क्रियेति लक्षितम् , एवश्च पचनक्रियाणां मिथो वैलक्षण्यात् प्रवृत्तिविशेषरूपत्वं सिद्धम. एतादृशं वलक्षण्यं अस्त्यादीनां नास्तीत्याशंक्य समाहितं यथा 'यद्येवं सिद्धाऽस्त्यादीनां Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy