Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 271
________________ ५३८ द्वादशारनयचक्रम् [उभयनयारे यगमनविवक्षितत्वात् तच्छन्दव्यवस्थाप्यस्वरूपत्वाद्वा गच्छतिः स्वांशोपात्तार्थविषयक एव, वक्तुर्विवक्षायामन्यथोक्त्यानर्थक्यात् , अर्थप्रकरणाद्यापादनाच्च, श्रोत्राप्यश्रुतोऽपि गृह्यते स इति गच्छतीत्युक्ते, अन्ते च नाम्नः कर्तृत्वप्रतिपत्तिरिति । (तथेति) तथा गच्छतीति च तिपोपात्त एव कर्त्ता, किं कारणं ? 'लः कर्मणि च' (पा० अ० 6 ३ पा० ४ सू० ९६ ) इति कर्तरि विहितलकारोद्देशत्वात्तिपः, कोऽसौ कर्तेति चेदुच्यते स च देवदत्त एव विशिष्टः विशिष्टकर्त्तविषयगमन विवक्षितत्वात्, अथवा गच्छतिः स्वांशोपात्तार्थविषयक एव, तच्छब्दव्यवस्थाप्यस्वरूपत्वात् , यो यच्छन्दव्यवस्थाप्यस्वरूपः शब्दः स स्वांशोपात्तार्थविषयक एव दृष्टो यथा घटशब्दव्यवस्थाप्योऽर्थो घट]त्वादिरिति, एवमनिच्छतो दोष उच्यते-वक्तुर्विवक्षायामन्यथो त्यानर्थक्यादिति-देवदत्तकर्तृविषयां गतिं प्रति[पि]पादयिषता हि वक्रा गच्छतिः प्रयुक्तो यदि तमेवार्थ 10 न ब्रूयात् उक्तेर्वाऽन्यः कोऽर्थः स्यादित्यानर्थक्यं प्राप्तमिति, किश्चान्यत् अर्थप्रकरणाद्यापादनाच-संसर्ग विप्रयोगसाहचर्यविरोधार्थप्रकरणलिङ्गशब्दान्तरसन्निध्यौचितीदेशकालव्यक्तिस्वरादिसामर्थ्यभेदैरर्थस्याविधानात्तिपस्तत्स्थानिकत्वादिति हेतुमाह-किं कारणमिति । अर्थप्रकरणाभ्याञ्च सोऽयं कर्ता विशिष्ट एव देवदत्तादिरित्याहस चेति, कर्तृत्वेन तिपा कर्तृसामान्यप्रतीतावपि विशिष्ट कर्तृविषयगमनस्यैव विवक्षितत्वात् देवदत्तादेरेवावगम इति विवक्षया विशेषार्थनिर्णय इति भावः। न केवलं तादृशविवक्षयैव तथाविधशब्दस्तथाविधार्थे शक्तिमन्तरेणापि प्रयुज्यत इति, किन्तु 15 शब्दस्य तथाशक्तिसद्भावादेव तथा विवश्यते प्रयुज्यते चेत्याशयेनाह-अथ वेति गच्छत्यादिक्रियाया निःसाधनाया असम्भवात् यत्किञ्चित्साधन विशिष्ट क्रियेव गच्छतिशब्देनोपादीयते, यथा घटशब्दाध्यक्तिमात्रबोध आनन्त्यव्यभिचाराभ्यामनुपपन्न इति कृत्वा घटत्वादिविशिष्टस्य घटपदार्थत्वम् घटत्वमेव हि घटपदार्थैकदेशं लक्षीकृत्य वक्तारो द्रव्ये घटशब्दं प्रयुञ्जते, एवमेव साधनविशिष्टक्रियायामेवाख्यातप्रयोगात् गच्छत्यादिपदं खांशभूतकर्थविषयकमेवेति भावः । तथैव वक्तुर्विवक्षाया दर्शनादित्याहदेवदत्तेति यादृशार्थप्रतिपिपादयिषया वक्त्रा यच्छब्दः प्रयुक्तः स शब्दो यदि तादृशमर्थ न बोधयेत् तर्हि स शब्दो विवक्षिता प्रतिपादकत्वेनान्यार्थप्रतिपादकोऽपि व्यर्थ एव भवेदिति भावः । अथ कर्तृत्वेन देवदत्तादेर्गच्छत्यादिनानुपादाने व्याख्यातृभिः 20 रर्थप्रकरणादिना कर्तृविशेषपरत्वव्यवस्थापनमसम्भवितमेव स्यात्, सामान्येनोपस्थितमेव हि विशेष व्यवस्थाप्यते नान्यथेत्याशयेना ह-अर्थप्रकरणादीति 'संसों विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः॥ सामथ्र्युमोचिती देशः कालो व्यक्तिः खरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इत्येते संसर्गादय उपस्थितानामनेकेषामेकतरमात्रार्थतात्पर्यनिर्णयद्वारा तन्मात्रार्थविषयकान्वयबोधजनकाः, सवत्सा गौरित्यत्र वत्ससंसर्गात् गोर्धनोरेव सम्प्रत्ययः, अकिशोरा धेनुरित्यत्र किशोरविप्रयोगेन विशिष्टजातीयाया एव धेनोरवगतिः, रामलक्ष्मणावित्यत्र लक्ष्मणसाहचर्याद्दाशरथेरेव प्रतीतिः 25 रामार्जुनगतिस्तयोरित्यत्र विरोधेन जामदग्न्यस्यैव प्रतीतिः; अञ्जलिना जुहोति, अञ्जलिना सूर्यमुपतिष्ठत इत्यत्र जुहोत्यादिपदार्थवशात्तदाकारान्जलिपरत्वम् । सैन्धवमानयेत्यादौ प्रकरणेनाश्वादिपरता, अक्ताः शर्करा उपदधातीत्यादौ तेजो वै घृतमिति घृतस्तुतिरूपालिङ्गादक्ता इत्यस्य घृतसाधनाजनपरत्वम् , रामो जामदम्य इत्यादौ जामदम्यपदसन्निधानेन रामः परशुरामः, अभिरूपाय कन्या देयेत्यादौ सामोदभिरूपवरायैवेति प्रतीयते, 'यश्च निम्बं परशुना' इत्यादावौचित्यात् परशुनेत्यस्य छेदनार्थत्वम्, भात्यत्र परमेश्वर इत्यत्र राजधानीरूपाद्देशातू परमेश्वरपदं राजपरम, चित्रभानुभोतीत्यादौ रात्रौ वह्नौ दिवा सूर्ये 30चित्रभानुशब्दः, मित्रो भाति मित्रं भातीत्यादौ लिङ्गरूपव्यक्त्याऽऽये सूर्योऽन्ये सुहृत् । स्थूलपृषतीमित्यादौ खरात्तत्पुरुषबहुव्री ह्यर्थनिर्णयः, खरादीत्यादिना षत्वसत्वणत्वनत्वादि, सुसिक्तमित्यत्र पूजार्थः सुः, सुषिक्तमित्यत्रोपसर्गोऽन्यार्थः, प्रणायके प्रणयनक्रियाकर्ता णत्वात् प्रनायके प्रगतनायकदेशो ज्ञायते इति। वस्तुतः सामर्थ्यमेवैकं मुख्य निर्णायकम् , संसर्गादर इत्याशयेनोकं खरादिसामर्थ्यमेदैरिति। श्रोतुरपि क्रियामात्रश्रवणात् कर्तृप्रतिपत्तिर्भवति, दृश्यते हि गच्छतीत्युक्ते श्रोतुः स १ सि. क. कर्तरि । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350