Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 269
________________ ५३६ द्वादशारनयचक्रम् [ उभयनवारे पराधो यदसौ तदर्थं न प्रतिपद्यते, यथा न हि स सूर्यस्यापराधो यदेनमुलको न पश्यतीति, तस्मादेकार्थे सत्यपि विध्यनुवादभिन्नार्थावेतौ, अत्र प्रयोगः - प्रथमपदोपात्तार्थमेव द्वितीयपदम् उद्घाहितार्थविवरणार्थत्वात्-उग्राहितो[ऽर्थो]गमनभवनाभिसम्बन्धी देवदत्तः तद्विवरणार्थे गच्छतिशब्दो देवदत्त [ [[ ] इत्युक्तः, 'आगृहीतगतिरपि न परेण ज्ञायते' ( ) इत्युक्तत्वात्, यदुग्राहितार्थविवरणार्थं पदं तत्पूर्व5 पदोपात्तार्थमेव दृष्टम्, भाष्यग्रन्थवत्, यथा 'वृद्धिरादैच्' (पा० अ० १ पा० १ सू० १) इति सूत्रेणैवोपात्तमर्थं भाष्यग्रन्थपदानि विवृण्वन्ति - वृद्धिरितीयं संज्ञा भवत्यादैज्वर्णानामिति शब्दानुशासनादिविचाराधारेण सूत्रेणैवोपात्तत्वात्, तथा चोक्तं 'सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्त्तिके । उदाहरणमन्यस्य प्रत्युदाहरणं पशोः ||' ( महाभाष्यटीकायामुयोते पूर्वार्धमात्रं दृश्यते अ० १ पा० १ ० १ ) इति । स्यान्मतम् — 10 प्रथमपदोपात्तार्थञ्चेद्वितीयपदं प्रथमपदोच्चारणकाल एव ततः प्रतिपत्तेः वक्तृवत्तथा प्रतिपत्तुः श्रोतुरुपकारकं स्यात् तेनैव व्यक्तत्वादित्यत्रोच्यते कस्यचिद्भवत्यपि केषाञ्चिन्नादित एव तदर्थस्य कारकं तथाव्यक्तव्यञ्जनत्वात् प्रदीपवत् । ( प्रथमेति ) प्रथमपदोपात्तार्थचेत् [द्वितीयपदं ] प्रथमपदोच्चारणकाल एव ततः - तस्माद्दृष्टायाः प्रतिपत्तेः, केव ? वक्तृवत् – वक्तरीव वक्तृवत्, यथा वक्तरि प्रतिपत्तिः प्रागुपजाता गच्छति [इति पदं ] 16 देवदत्तकर्त्तृविषयं प्रयुञ्जेऽहमिति ' [ एवमेव ] तथा प्रतिपत्तुः श्रोतुरुपकारकं स्यात्, तेनैव व्यक्तत्वादित्यत्रोच्यते कस्यचिद्भवत्यपि केषाञ्चिन्नादित एव तदर्थस्य कारकम्, तथाव्यक्तव्यञ्जनत्वात् तेन प्रकारेण व्यक्तस्तथाव्यक्तः देवदत्तशब्दोच्चारण श्रोतुर्विशिष्टक्रिया कर्त्तृको देवदत्त इत्येतावत्तावदाधीयते बुद्धौ, तस्मात्तथाव्यक्तः, तस्य व्यञ्जनो गच्छतिशब्दो नापूर्वं किञ्चिदाह, तदनुवादित्वादतस्तथाव्यक्तव्यञ्जन " wwwwwww कस्यायं दोष इति विभाव्यतामिति भावः । तत्र दृष्टान्तमादर्शयति-यथा न हीति । एवञ्च विध्यनुवादरूप तैवान योस्तथैव सति 20 न दोष इत्याह- तस्मादिति । प्रथमपदेनैव द्वितीयपदार्थ उपात्तो भवतीत्येतत्साधयति प्रयोगतः - अत्र प्रयोग इति । हेतुमाह - उग्राहितार्थेति, प्रथमपदेनैव समुद्बोधितस्य गमनादेरर्थस्याभिव्यञ्जनार्थं गच्छतिपदमिति भावः । दृष्टान्तमाहभाष्यग्रंथवदिति, भाष्ये अथ शब्दानुशासनमित्यारभ्य विचारधारया व्याकरणशब्दार्थविचारे 'नहि सूत्रत एव शब्दान् प्रतिपद्यन्ते, किं तर्हि ? व्याख्यानतश्चेति, तदेव सूत्रं विगृहीतं व्याख्यानं भवति, परिहृतमेतत्-ननु चोक्तं न केवलानि चर्चापदानि व्याख्यानम्, वृद्धिः आत् ऐज्, इति, किं तर्हि ? उदाहरणं प्रत्युदाहरणं वाक्याध्याहार इत्येतत्समुदितं व्याख्यानं भवति', इत्येवं विचारः कृतः, उपसंहृतश्च 'सूत्रत एव हि शब्दान् प्रतिपद्यन्ते' इति एतस्यैव व्याख्याने उद्योते 'एतन्मूलमेव पठ्यते सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्त्तिके' इत्युक्तम् । तंत्रवार्त्तिके च 'सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्तिके। सूत्रं योनिरिहार्थानां सर्व सूत्रे प्रतिष्ठितमिति' दृश्यते । ननु प्रथमपदं यदि द्वितीय पदार्थ बोधयेत्तर्हि प्रथमपदोच्चारणश्रवणकाल एव द्वितीयपदार्थबोधापत्तिरित्याशङ्कते - प्रथमपदेति । वक्तुर्यथा प्रथमपदोच्चारणकाल एव द्वितीयपदार्थाधिगमस्तथा श्रोतुरपि स्यादिति दृष्टान्तमादर्शयति-वक्तघदिति । अन्विताभिधानवादी मीमांसकः समाधत्ते - कस्यचिद्भवत्यपीति, कस्यचिद्वक्त्रादेरे कस्मादेव 25 30 ) पदादपरपदार्थस्य बोधो भवन्नपि श्रोत्रादेः कस्यचिन्न प्रथमत एव तदर्थबोधस्य कारकमित्यर्थः । साधनमाचष्टे - तथाव्यक्तेति प्रतिपत्तृषु वाक्यार्थस्यावगतिरभिव्यक्ताभिव्यञ्जिका, अतो न वैयर्थ्य वाक्यार्थे पदानाम्, एकेन पदेन सकलवाक्यार्थस्याशेषविशेषखचितस्यावगतेरुत्तरेषां पदानां नियमायाऽनुवादाय वोचारणादिति भावः । अभिव्यक्तस्यार्थस्यैवाभिव्यञ्जकमुत्तरपदमित्यत्रा Jain Education International 2010_04 १ सि. क. सावधानु० । २ सि. क. स्मविव । XX एतचिह्नान्तर्गतः पाठः प्रतिषु ५४१ पृष्ठे ६ पंक्ती 'इतथासिद्धि' रिस्यनन्तरं दृश्यते । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350