________________
५३६
द्वादशारनयचक्रम्
[ उभयनवारे
पराधो यदसौ तदर्थं न प्रतिपद्यते, यथा न हि स सूर्यस्यापराधो यदेनमुलको न पश्यतीति, तस्मादेकार्थे सत्यपि विध्यनुवादभिन्नार्थावेतौ, अत्र प्रयोगः - प्रथमपदोपात्तार्थमेव द्वितीयपदम् उद्घाहितार्थविवरणार्थत्वात्-उग्राहितो[ऽर्थो]गमनभवनाभिसम्बन्धी देवदत्तः तद्विवरणार्थे गच्छतिशब्दो देवदत्त [ [[ ] इत्युक्तः, 'आगृहीतगतिरपि न परेण ज्ञायते' ( ) इत्युक्तत्वात्, यदुग्राहितार्थविवरणार्थं पदं तत्पूर्व5 पदोपात्तार्थमेव दृष्टम्, भाष्यग्रन्थवत्, यथा 'वृद्धिरादैच्' (पा० अ० १ पा० १ सू० १) इति सूत्रेणैवोपात्तमर्थं भाष्यग्रन्थपदानि विवृण्वन्ति - वृद्धिरितीयं संज्ञा भवत्यादैज्वर्णानामिति शब्दानुशासनादिविचाराधारेण सूत्रेणैवोपात्तत्वात्, तथा चोक्तं 'सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्त्तिके । उदाहरणमन्यस्य प्रत्युदाहरणं पशोः ||' ( महाभाष्यटीकायामुयोते पूर्वार्धमात्रं दृश्यते अ० १ पा० १ ० १ ) इति । स्यान्मतम् —
10
प्रथमपदोपात्तार्थञ्चेद्वितीयपदं प्रथमपदोच्चारणकाल एव ततः प्रतिपत्तेः वक्तृवत्तथा प्रतिपत्तुः श्रोतुरुपकारकं स्यात् तेनैव व्यक्तत्वादित्यत्रोच्यते कस्यचिद्भवत्यपि केषाञ्चिन्नादित एव तदर्थस्य कारकं तथाव्यक्तव्यञ्जनत्वात् प्रदीपवत् ।
( प्रथमेति ) प्रथमपदोपात्तार्थचेत् [द्वितीयपदं ] प्रथमपदोच्चारणकाल एव ततः - तस्माद्दृष्टायाः प्रतिपत्तेः, केव ? वक्तृवत् – वक्तरीव वक्तृवत्, यथा वक्तरि प्रतिपत्तिः प्रागुपजाता गच्छति [इति पदं ] 16 देवदत्तकर्त्तृविषयं प्रयुञ्जेऽहमिति ' [ एवमेव ] तथा प्रतिपत्तुः श्रोतुरुपकारकं स्यात्, तेनैव व्यक्तत्वादित्यत्रोच्यते कस्यचिद्भवत्यपि केषाञ्चिन्नादित एव तदर्थस्य कारकम्, तथाव्यक्तव्यञ्जनत्वात् तेन प्रकारेण व्यक्तस्तथाव्यक्तः देवदत्तशब्दोच्चारण श्रोतुर्विशिष्टक्रिया कर्त्तृको देवदत्त इत्येतावत्तावदाधीयते बुद्धौ, तस्मात्तथाव्यक्तः, तस्य व्यञ्जनो गच्छतिशब्दो नापूर्वं किञ्चिदाह, तदनुवादित्वादतस्तथाव्यक्तव्यञ्जन
"
wwwwwww
कस्यायं दोष इति विभाव्यतामिति भावः । तत्र दृष्टान्तमादर्शयति-यथा न हीति । एवञ्च विध्यनुवादरूप तैवान योस्तथैव सति 20 न दोष इत्याह- तस्मादिति । प्रथमपदेनैव द्वितीयपदार्थ उपात्तो भवतीत्येतत्साधयति प्रयोगतः - अत्र प्रयोग इति । हेतुमाह - उग्राहितार्थेति, प्रथमपदेनैव समुद्बोधितस्य गमनादेरर्थस्याभिव्यञ्जनार्थं गच्छतिपदमिति भावः । दृष्टान्तमाहभाष्यग्रंथवदिति, भाष्ये अथ शब्दानुशासनमित्यारभ्य विचारधारया व्याकरणशब्दार्थविचारे 'नहि सूत्रत एव शब्दान् प्रतिपद्यन्ते, किं तर्हि ? व्याख्यानतश्चेति, तदेव सूत्रं विगृहीतं व्याख्यानं भवति, परिहृतमेतत्-ननु चोक्तं न केवलानि चर्चापदानि व्याख्यानम्, वृद्धिः आत् ऐज्, इति, किं तर्हि ? उदाहरणं प्रत्युदाहरणं वाक्याध्याहार इत्येतत्समुदितं व्याख्यानं भवति', इत्येवं विचारः कृतः, उपसंहृतश्च 'सूत्रत एव हि शब्दान् प्रतिपद्यन्ते' इति एतस्यैव व्याख्याने उद्योते 'एतन्मूलमेव पठ्यते सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्त्तिके' इत्युक्तम् । तंत्रवार्त्तिके च 'सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्तिके। सूत्रं योनिरिहार्थानां सर्व सूत्रे प्रतिष्ठितमिति' दृश्यते । ननु प्रथमपदं यदि द्वितीय पदार्थ बोधयेत्तर्हि प्रथमपदोच्चारणश्रवणकाल एव द्वितीयपदार्थबोधापत्तिरित्याशङ्कते - प्रथमपदेति । वक्तुर्यथा प्रथमपदोच्चारणकाल एव द्वितीयपदार्थाधिगमस्तथा श्रोतुरपि स्यादिति दृष्टान्तमादर्शयति-वक्तघदिति । अन्विताभिधानवादी मीमांसकः समाधत्ते - कस्यचिद्भवत्यपीति, कस्यचिद्वक्त्रादेरे कस्मादेव
25
30
) पदादपरपदार्थस्य बोधो भवन्नपि श्रोत्रादेः कस्यचिन्न प्रथमत एव तदर्थबोधस्य कारकमित्यर्थः । साधनमाचष्टे - तथाव्यक्तेति प्रतिपत्तृषु वाक्यार्थस्यावगतिरभिव्यक्ताभिव्यञ्जिका, अतो न वैयर्थ्य वाक्यार्थे पदानाम्, एकेन पदेन सकलवाक्यार्थस्याशेषविशेषखचितस्यावगतेरुत्तरेषां पदानां नियमायाऽनुवादाय वोचारणादिति भावः । अभिव्यक्तस्यार्थस्यैवाभिव्यञ्जकमुत्तरपदमित्यत्रा
Jain Education International 2010_04
१ सि. क. सावधानु० । २ सि. क. स्मविव । XX एतचिह्नान्तर्गतः पाठः प्रतिषु ५४१ पृष्ठे ६ पंक्ती 'इतथासिद्धि' रिस्यनन्तरं दृश्यते ।
For Private & Personal Use Only
www.jainelibrary.org