________________
एकपदस्यैव पाक्यत्वम् ] न्यायागमानुसारिणीव्याख्यासमेतम् स्वात् [प्रदीपवत् , यथा प्रदीपः प्रागभिव्यक्तं घटं [त]मःस्थं व्यनक्तीति नादित एव तदर्थज्ञानस्य कारक: तथा तु वाक्ये गच्छतिशब्दोऽपीति, अथ वा द्रव्यार्थवादे कुम्भकारोऽपि विद्यमानमेव घटं तथामिध्यनक्ति नाविद्यमानमुत्पादयति प्रदीपवत् तस्मात् कुंभकारस्यापि व्यक्तव्यञ्जनत्वात् पिण्डावस्थायामपि व्यक्त एव घटः क्रियाक्रमाभिव्यक्तिप्रत्यक्षत्वात् प्रदीपव्यक्तघटवत् , तथा देवदत्तो गच्छतीत्यत्रापि व्यक्तव्यञ्जनत्वान्नादित एव तत्तदर्थज्ञानस्य कारक इति । __मा च मंस्थाः केवलोपपत्तिमात्रकमैवैतदुच्यते प्रथमपदोपात्तार्थवाचि द्वितीयपदमिति, किन्तु लोकेऽपि व्यवहारप्रसिद्धिस्तथा दृष्टेति तदर्शयितुमाह
तथा च विनापि तत्सन्निधिं पूर्वश्रुतशब्दवृत्तेरेव तथानियतत्वात्तथैव प्रतिपत्तारो दृश्यन्ते यथा प्रविश पिण्डीमिति प्रविशशब्दश्रवणात् सुषिरं गृहादि कर्मपदमत्रेति पिण्डीमिति च कर्मपदश्रवणात्तद्योग्यभक्षिक्रियाकर्तृकर्मकमिति ।
10 तथा च विनापीत्यादि यावत् प्रविश पिण्डीमितीति, एवञ्च कृत्वा तस्यानुवादमात्रभिन्नार्थस्य शब्दस्य सन्निधिमन्तरेणापि पूर्वश्रुतशब्दोपात्तस्यार्थस्य वृत्तेरेव तथा नियतत्वात् तथा हि तच्छब्दवृत्तिर्नियता यथा कचिदश्रूयमाणद्वितीयपदोऽपि तस्य पदार्थविषयप्रतिपत्तिहेतुर्भवति, तथैव च प्रतिपत्तारो दृश्यन्ते तथा प्रविश पिण्डीमित्यत्र प्रविशशब्दश्रवणात् प्रवेशयोग्यं प्रकरणादिभिः सुषिरं गृहादि कर्मपदमति पिण्डीमिति च कर्मपदश्रवणादनन्तरोक्तप्रविशि[अ]सम्भवात् तद्योग्यभक्षिक्रिया-15 कर्तृकर्मकमिति प्रतिपद्यन्ते, तस्मात् प्रथमपदोपात्तार्थव्यञ्जनं द्वितीयपदमिति साधूक्तम् ।
यथा देवदत्तशब्दोपात्तार्थवाची गच्छतिशब्दः
तथा गच्छतीति च तिपोपात्त एव कर्ता, 'लः कर्मणि च' (पा० अ० ३ पा० ४ सू० ९६) इति । कर्तरि विहितलकारोद्देशत्वात्तिपः, स च देवदत्त एव विशिष्टः, विशिष्टकर्तृविष
भिव्यक्तस्यैवान्धकारस्थस्य घटस्याभिव्यञ्जकं प्रदीपं दृष्टान्तीकरोति-प्रदीपवदिति, सत्कार्यवादाश्रयेण दृष्टान्तमाह-अथ वेति। 20 यस्मात् प्रथममुच्चरितात् पदात् निखिलक्रियाकारकोपस्थितिः तादृशमेकमेव पदं वाक्यं भवतीत्यत्रोपपत्तिमुदीर्य तथा व्यवहारप्रसिद्धिमपि लौकिकीमादर्शयति-तथा चेति अनुवादमात्रफलस्य द्वितीयादिपदस्य सन्निधिना विनापि प्रविशेत्येतावन्मात्रोक्तावपि प्रवेशक्रियाकर्मत्वयोग्यस्य प्रकरणादिवशात् गृहादेः प्रतिपत्तिर्भवति, तथा पिण्डीमित्येतन्मात्रोक्तं कर्म खयोग्यां क्रियामाक्षिपद्भक्षणादिक्रियां प्रत्याययति, तस्मादुत्तरपदस्यानुवादमात्रत्वादेव भेदात् तदभावेऽपि पूर्वपदस्य सर्वे सर्वार्थवाचका इति न्यायेन सर्वा
यतत्वमिति अभिव्यक्तार्थप्रकाशकमेवोत्तरपदमिति व्यावर्णयति-अनवादमात्रभिन्नार्थस्येति । पिण्डीमिति 25 पदं हि गीकृतक्रियापदम् , निराकांक्षार्थावगतेरतस्तस्य प्रसिद्ध्यादिना पिण्डीकर्मकमक्षणक्रियाया बोधकत्वाद्वाक्यत्वम् , एवं प्रविशेत्याख्यातमपि प्रकरणादिवशागृहादिकर्मकप्रवेशनक्रियाबोधात् विशिष्टाभिधायकं वाक्यमेव, तस्मादेतादृशस्थले द्वितीयपदमुपात्तमनुवादकमेव, केचित्तु प्रविश गृहं, पिण्डी भक्षयेति तूपादीयमानं विशिष्टं वाक्यमखण्डमन्यदेवेति वदन्ति । यथा नामपदं गीकृतकारकत्वाद्विशिष्टार्थप्रतिपादकं वाक्यमेवेत्युक्तम् तथाऽऽख्यातपदमपि गीकृतकर्तृकर्मत्वाद्विशिष्टार्थ वाक्यमित्याह-तथा गच्छतीति चेति । गच्छतीति पदं हि प्रकृतिप्रत्ययविशिष्टम् प्रकृत्यर्थः क्रिया तिप्प्रत्ययार्थः कर्ता, 'लः कर्मणि च भावे चाक-30 मकेभ्यः' इति सूत्रेण लकाराः सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च स्युः, अकर्मकेभ्यो भावे कर्तरि चेत्यर्थकेन कर्तरि लस्य
१ क. एव च तदः । २ क. तस्य भूतस्या० । ३ सि. सुषिरं गृहादिमिरित्यधिकम् ।
द्वा. न. ३० (६८)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org