________________
5
पौनरुक्त्यानर्थक्ये] न्यायागमानुसारिणीव्याख्यासमेतम् देषदत्त इति–तथा [च] योऽसौ गच्छतीति [स] देवदत्तो गतिक्रियायाः कति ज्ञातार्थेनानूयमानेन विधानात्, द्रव्यक्रियावाचिनोश्चाभिन्नार्थत्वाद्वस्तुतः, एवं सति पौनरुक्त्यमिति चेदभ्युपगम्यते, तथा
चेत्यादि, एवश्च कृत्वा देवदत्त इत्युक्ते विशिष्टक्रियात्मककर्तृनिर्देशाद्तेर्गतत्वाद्गच्छतिशब्दोऽनर्थकः पुनरुक्तश्च तथा गच्छतिशब्दादेविशिष्टकर्तृकगमनवचनादेवदत्तार्थगतेर्देवदत्तशब्दोऽपि, तौ चानर्थक्यपौनरुत्यदोषौ न विभक्तविध्यनुवादार्थवक्तारं श्रोतारं वा प्रति भवतः ।
किं तर्हि प्रति ? उच्यते--
विभक्तविध्यनुवादार्थाविवेत्तारं प्रति अन्यतरस्यैव वानयोरविवेक्तारं वक्तारं श्रोतारं वा स्यात् ।
(विभक्तेति) "विभक्तविध्यनु [वादार्थाविवे]क्तारं प्रति-विभक्तो विधिरयमविज्ञातार्थत्वात् शब्दोऽनुवादोऽयं विज्ञातार्थत्वात, विध्यङ्गत्वाञ्चेत्यविवेत्तारं वक्तारं श्रोतारं वा स्यात्-आनर्थक्यं 10 पौनरुत्त्यं वा स्यात् अन्यतरस्यै[व]वाऽनयोरविवेक्तारं विध्यनुवादार्थाविति । _ स्यान्मतमस्तु स्वयं[अ]निश्चितद्रव्यक्रियात्मकैकवस्तुविध्यनुवादार्थवचनं वक्तारं प्रति, कथं पुनः मोतुरिति चेदुच्यते तस्यापि
प्रथमपदोपादानसन्निहितार्थव्यञ्जनं द्वितीयपदं सन्निधिमात्रेण तथाप्रतिपत्तुः श्रोतुरुपकारकं नान्यस्य, न स पुनः शब्दापराधो यदसौ तदर्थ न प्रतिपद्यते, यथा न हि स सूर्यस्यापराधो 15 यदेनमुलूको न पश्यतीति, अत्र प्रयोगः-प्रथमपदोपात्तार्थमेव द्वितीयपदम् , उदाहितार्थविवरणार्थत्वात्, भाष्यग्रन्थवत् ।
प्रथमपदोपादानेत्यादि यावच्छ्रोतुरुपकारकमिति, प्रथमं पदमत्र देवदत्त इति गच्छतीति वा यथाविवक्षं प्रयुक्तं, प्रथमपदमुपादानमस्य सोऽर्थः प्रथमपदोपादानः सन्निहितश्च द्वितीयपदाभिधेया[भिमतः, तस्य व्यञ्जनं-शब्दो द्वितीयपदं तत् सन्निधिमात्रेण प्रयोगमात्रेण प्राक्प्रतिपन्न एवाभि- 20 व्यज्यते सोऽर्थस्तनेत्यर्थः, तथाप्रतिपत्तुः श्रोतुरिति-वक्तुरभिप्रायमूहितुं समर्थस्य गृहीतसङ्केतस्येत्यर्थः, उपकारक-प्रतिपत्त्याधानसमर्थ नान्यस्य-अविभक्तविध्यनुवादार्थस्याकृतसङ्गतेर्वा, न स पुनः शब्दाएवं सतीति । एतदेव स्पष्टयति-एवञ्चकत्वेति, तथा च नाम्नाऽऽख्यातेन वा विशिष्टकर्तृकविशिष्टक्रियाया अवगतो विध्यनुवादविवेकाभावे पौनरुक्त्यमानर्थक्यश्च वाक्यवक्तारं श्रोतारं प्रति भवेत् विध्यनुवादार्थप्रकल्पने तु नेति भावः । तर्हि के प्रति आनर्थक्यपौनरुक्त्यदोषौ भवत इत्यत्राह-विभक्तेति विभक्तयोर्विध्यनुवादार्थयोरविवेत्तारमित्यर्थः, विध्यनुवादोभयविवेका- 25 भावेऽन्यतरस्य वा विवेकाभावे वक्तारं श्रोतारश्च प्रति तो दोषौ भवतः न केवलमेकस्यैवोभयोः वक्तुः श्रोतुर्वेति भावः। नन्विमौ दोषी वकारं प्रति युक्तौ तस्यैव नाम्नाऽऽख्यातार्थस्याऽऽख्यातेन नामार्थस्य प्राप्तत्वात् , श्रोतारं प्रति कथं भवतः, तस्य नामाख्यातयोरेकस्यापि अनुपस्थितत्वादित्याशङ्कते-स्यान्मतमिति । एकपदेनोपात्तस्यापरपदार्थस्यापरपदं व्यञ्जकं सत् वक्तुः श्रोतुश्च सन्निहितं सदुपकारकं भवति न तु खार्थस्याप्राप्तस्याभिधायकं सत् तदेवंविधमुत्तरपदमजानानस्य श्रोतुरेवापराधो नतु शब्दस्येत्याह-प्रथमपदेति। देवदत्तो गच्छति, गच्छति देवदत्त इत्यत्र वा यथाविवक्षं देवदत्तपदं गच्छतिपदं वा देवदत्तकर्तृकगमनस्य 30 व्यञ्जकम् ,यदा च प्रथमपदप्रयोगतस्तत्सन्निहितं तदापि यदि द्वितीयपदं तद्व्यञ्जकमिति ज्ञात्वाप्यानर्थक्यपौनरुत्यौ न जानीते तर्हि
सि. क. भज्ञातार्थेना।२ सि. क. "भिन्नार्थत्वाच्च । ३ सि. क.चेदमि । ४,५ सि.क, भवि०। ६ सि. क. वक्तारं श्रोतारं वा स्यादानर्थक्यं पौनरुक्त्यं वा स्यात् स्यादन्यतरस्यैवानयोविवेक्तारमित्यधिकं दृश्यते ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org