________________
५३४
द्वादशारनयचक्रम्
[उभयनयारे [न] भवतीत्येव हि नियमः, स एष उपात्तगत्यर्थो देवदत्तशब्दो देवदत्तकत्रर्थप्रत्यायनार्थो नानर्थकः, सम्यक्प्रत्यपेक्षायामिति वर्त्तते, तस्या अर्थप्रत्यायनार्थत्वात् वचनप्रवृत्तेः-अर्थ प्रत्याययिष्यामीति वचनं प्रवर्त्तते, तस्मान्नानर्थकं समीक्ष्यकायुक्तित्वात् प्रमाणान्तरोपलब्धत्वाच्च देवदत्तस्य ।
देवदत्तशब्दो न देवदत्तस्य वाचकः किन्तर्हि देवदत्तशब्देन देवदत्तार्थो विज्ञायमान 5 एवानूद्यते स गच्छतीति विधानाय, स्थानविपरीतगमनप्रतिपादनाय च देवदत्तं गतिकर्तृत्वे नाध्यारोहयामीति प्रयुज्यते यो गच्छति स देवदत्त इति ज्ञातार्थेनानूद्यमानेन विधानात् , तथा च देवदत्त इत्युक्ते विशिष्टक्रियात्मककर्तृनिर्देशाद्गतेर्गतत्वाद्गच्छतिशब्दोऽनर्थकः पुनरुतश्च, तौ च न विभक्तविध्यनुवादार्थवक्तारं श्रोतारं वा प्रति भवतः ।
(देवदत्तशब्द इति )[देवदत्तशब्दो]न देवदत्तवाचकः किं तर्हि ? देवदत्तशब्देन देवदत्तार्थो 10 विज्ञायमान एवानूद्यते ज्ञाताओं ह्यनुवादो विध्यङ्गत्वात् , किमर्थोऽनुवाद इति चेत् ? स गच्छतीति विधा
नाय-देवदत्तविशिष्टगतिविधानाय, गतिज्ञातार्थत्वाद्विधीयते, देवदत्तकर्तृकदेवदत्तानुवादो गतिविधानार्थोऽस्तु, गतिविधानं किमर्थमिति चेत् उच्यते-स्थानविपरीतेत्यादि, अध्यारूढदेवदत्तकर्तृसाधनं गमनं विवक्षितं तत्प्रतिपादनाय देवदत्तं गतिकर्तृत्वेनाध्यारोहयामीति प्रयुज्यते, तन्निदर्शयति-यो गच्छति स
wwmwammam
देवदत्तशब्दादेव गत्यादिक्रियाया अवगतौ गच्छतितिष्ठतीत्याधुपादानं व्यर्थम् , उक्तानामप्रयोगात्, यतः सम्भवे व्यभिचारे 16 च विशेष्यविशेषणभावो भवति, यथा नीलोत्पलमिति, गत्यादयश्च न पदार्थ व्यभिचरन्ति, देवदत्तादिपदेन गत्यर्थस्याप्युपादाना
भ्युपगमादित्याशङ्कायामाह-स एष उपात्तगत्यर्थ इति, वस्तुतो विचार्यमाणे गमनादिक्रियादेवदत्तादिद्रव्ययोः कर्तृत्वकार्यत्वप्रतिपादनाय देवदत्तो गच्छतीत्युच्यत इति भावः। तस्या इति,बुद्धौ पदार्थसत्तामन्तरेण पर प्रत्यर्थबोधाय पदोच्चारणासम्भवाद, गत्यादिकर्ता देवदत्त इत्येवं परं बोधयितुं देवदत्तो गच्छतीत्यादिशब्दः समीक्ष्यकारिणा प्रयुज्यत इति भावः । नन्वेवं प्रमाणान्त
रेणोपलब्धमर्थ प्रतिपादयित्रा परं बोधयितुं यदि प्रयुज्यते तदा देवदत्तादिशब्दो देवदत्तादेर्वाचको न भवति, प्रतिपादयित्रा पद20 व्यतिरेकेणैव प्रमाणान्तरेण पदार्थस्यावबुद्धत्वादिति पदोच्चारण व्यर्थमेवेत्याशङ्कायामाह-देवदत्तशब्द इति । अनुद्यत इति,
यावत् बुद्ध्या पदार्थो न विषयीकृतः तावत् पदस्य प्रयोगाभावः, तस्माद्बुद्धिसमाविष्टोऽर्थो विधिनिषेधजननादिभिः सम्बसते, एवञ्च पूर्व बुद्धौ पदार्थसत्ता समारोप्य वृक्षोऽस्ति वृक्षो नास्ति वृक्षो जायत इत्येवं विधिनिषेधजननादीन् बोधयति, अत एव बहिरत्यन्तासतोऽपि शशविषाणादीनान् बुद्ध्या विषयीकृत्य शशविषाणादिपदप्रयोगः,तदेवं बुद्ध्युपारूढा उपचरिता सत्ता शब्दप्र
योगाश्रयत्वादव्यभिचारा, सैव तु प्रयोक्तृप्रतिपत्तॄणां बहीरूपतयाऽवभासते, यदि तु वृक्षादीनां बाह्यसत्तासमाविष्टं वस्तु वाच्यं 25 स्यात्तदा वृक्ष इत्यतः सत्तावगमात् गतार्थत्वादस्तीत्यस्य प्रयोगो न स्यात् , नास्तीत्यस्य च सत्ताविरोधात् प्रयोगाप्रसङ्गः, अङ्कुरो
जायत इति च प्रयोगो न स्यात् बाह्यतः सतो जन्मविरोधात्, उक्तश्च गौतमेनापि, 'बुद्धिसिद्धं तु तदसत्,' इति, कारणकाले कार्याभावेऽपि बुद्धौ सिद्धत्वादेव प्रतिनियतकार्यजन्म, न शशशृङ्गादिजन्म, इह तन्तुषु पटो भविष्यतीति विज्ञायैव हि कुविन्दादेप्रवृत्तिरिति । अत्राप्युच्यते-अध्यारूढेति, देवदत्तस्य गमनस्थानादयः शब्दप्रयोगप्राक्काले बुद्धावारूढा एव परं प्रतिपादयितः मुच्यन्त इति भावः । देवदत्तकर्तृकेल्यस्य वक्त्रा प्रोक्तो देवदत्तानुवादः गतिविधानायेत्यर्थः । एवं क्रियापदमात्रप्रयोगे सर्वकारका30 ध्याहारः स्यात् , तत्र कारकान्तरप्रयोगस्तु अपरकारकनिवृत्त्यर्थः, कर्तृपदमात्रप्रयोगे क्रियापदप्रयोगः क्रियान्तरनिवृत्त्यर्थः, साध्य
साधनयोः परस्परसाकांक्षत्वादेकोपादानेऽपरस्य भाननैयत्यात् गच्छतीत्युक्ते देवदत्तादिकर्तृकगमनस्य देवदत्त इत्युक्ते देवदत्तकर्तृकगमनादेरवगमात् देवदत्तो गच्छतीत्यभिधानं विधिनियमार्थम् , येयं गतिः सा देवदत्तकर्तृका, नान्यकर्तृकेति इत्याशयेनाहयो गच्छतीति । ननु वक्तुर्विध्यनुवादयोर्गतार्थत्वात्तं प्रति देवदत्तो गच्छतीत्यभिधानं पुनरुक्तं भवेदित्यनेष्टापत्तिं करोति
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org