SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ नामापि क्रियावाचि ] न्यायागमानुसारिणीव्याख्यासमेतम् ५३३ च क्रियायाः साधनत्वात् क्रियामन्तरेण न भवति, तत्र स्वयमसौ कर्त्ता तेन तेन प्रकारेण वर्त्तमानः, तथा शब्दोऽपि तत्तदर्थवाची यथाहुरन्ततः 'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्य - मानोऽप्यस्तीति' (महाभा० अ० २ पा० ३ सू० १ ) स एष उपात्तगत्यर्थो देवदत्तशब्दो देवदत्तकर्त्रर्थप्रत्यायनार्थो नानर्थकः, अर्थप्रत्यायनार्थत्वाद्वचनप्रवृत्तेः । www www परमार्थतस्तु अर्थनियतत्वात्तु वचस इत्यादि शब्देनापि गत्यादि नानुपात्तमुपात्तमेवा - 5 र्थवत्, कुतः ? तद्भवनार्थत्वात् - तस्य भवनं तद्भवनं गत्यादिभवनमेवार्थो देवदत्तशब्दस्येति देवदत्तार्थेनेव गत्यर्थोऽप्युपात्त इति गृहाण, मा शङ्किष्ठास्तद्भवनार्थत्वमसिद्धमित्येतदाह - देवदत्तशब्दो हीत्यादि, यदा स्वार्थद्रव्यलिङ्गसंख्याकर्मादिवाचि प्रातिपदिकं विभक्तयस्तद्व्यञ्जिकाः विवक्षावशाश्च कारकविशेषाश्रयणं कर्मादीनामपि कारकत्वात् कर्त्तृत्वमिष्टमेवेति सिद्धान्तस्तदा विशेषानाश्रयणेऽपि द्वितीयादिविनाभूतो देवदत्तशब्दः केवले कर्त्तर्येव प्रयुज्यते, कर्त्ता च क्रियायाः साधनत्वात् क्रियामन्तरेण [न] भवति, 10 क्रियाश्चासिशयि तिष्ठत्यादयः तासु स्वयमसौ कर्त्ता तेन तेन प्रकारेण वर्त्तमानः तथा शब्दोऽपि तत्तदर्थवाची, यथाहुरन्तत इति ज्ञापकम्, विचारावसाने वैयाकरणैरेतन्निश्चितम् अस्तिर्भवन्तीपरः इत्यादि, लडू भवन्तीत्युच्यते, शेषं गतार्थम्, प्रथममध्यमोत्तम युक्तमन्यदपि क्रियापदं भवत्येव, दिङ्मात्रोल्लिङ्गनात्, त्वमसि, अहमस्मि तिष्ठसि तिष्ठामीत्यादीनां नियमाभावात्, क्रियापदेन विना भविनाभाविनी, तस्माद्यथाऽऽख्यातपदप्रतिपाद्या क्रिया निःसाधना न भवतीति आख्यातपदस्य सत्त्वाभिधानेन विनाssकांक्षा 15 म निवर्त्तत इति सामान्यतः देवदत्तादिसत्त्ववाचकत्वं तथैव साधनं निष्क्रियं न भवतीति साधनवाचकस्यापि आकांक्षावशात् क्रियावाचकत्वं न्याय्यमिति देवदत्तादिशब्देन गत्यादिक्रियोपात्तैवेति भावः । तदेतद्व्याचष्टे - शब्देनापीति, देवदत्तादिशब्देनापीत्यर्थः, अननुपादाने हेतुमाह-तद्भघनार्थत्वादिति, देवदत्तस्य गमनादिभवनमेव परमार्थः, नहि द्रव्यं गमनादि - रूपेण प्रवृत्तिमनापन्नं सद्भवितुमईति तथा वाच्यवाचकयोस्तादात्म्या द्देवदत्तशब्दस्य गत्यादिभवनं परमार्थः इति भावः । एतदेवोपपादयति-यदा स्वार्थेति पञ्चकस्य प्रातिपदिकार्थत्वात् प्रातिपदिकेनैव विभक्त्यर्थस्य संख्याकर्मत्वादेः प्राप्तत्वाद्विभकयो 20 व्यञ्जिका एव, सामान्येन कारकत्वेन कर्मादीनां प्रातिपदिकेन प्राप्तत्वेऽपि कर्मत्वादिना रूपेण विशेषविवक्षायां कर्मादिरूपकारकविशेषाश्रयणम्, सर्वेषां स्वस्वव्यापारे कर्तृत्वात् कर्मादीनामपि कर्तृत्वमित्येवं सिद्धान्ताश्रयेण कर्मत्वादिविशेषानपेक्षायां द्वितीया - देर्विभक्तेरभावात्तदा देवदत्तादिशब्दः केवले कर्त्तर्येव प्रयुज्यते, कर्त्ता च क्रियाया जनक इति क्रियया विना न तस्य कर्तृत्वं सम्भवतीति क्रियाssवश्यकी, ताश्वास्ते शेते तिष्ठतीत्यादयस्तत्तत्क्रियायाः खातंत्र्येण कर्तृत्वादुपवेशनशयन स्थित्यादिक्रियारूपेण देवदत्तादिद्रव्यं वर्त्तत इति देवदत्तादिशब्द उपवेशनादिरूपेण भवन्तं देवदत्तादिद्रव्यं प्रतिपादयतीति तद्भवनार्थत्वं तस्य नासिद्धमिति मावः । प्रथमाविधायकं हि सूत्रं क्रियायोगे एव प्रवर्त्तते, कर्मणि द्वितीयेत्यादिसूत्रसाहचर्यात्, तथैवाकांक्षितत्वात्, 'तिब्र्समानाधिकरणे प्रथमा' इति वार्त्तिकाच्च यत्र तु क्रियापदं न श्रूयते तत्र तदध्याहार्यमित्याशयेनाह - यथाहुरन्तत इति, विचारावसाने‘अनभिहिते’ इति सूत्रविचारावसाने भाष्ये, भवन्तीपर इत्यत्र भवन्तीशब्दः लट्लकारे संकेतित इत्याह- लड् भवन्तीत्युच्यत इति ज्ञातं वस्तु परं प्रतिपादयितुं शब्दः प्रयुज्यते, ज्ञानश्व विद्यमानस्यैव तस्माद्यत्र क्रियापदान्तरस्याप्रयोगस्तत्रोत्सर्गतः सत्ता प्रतीयत इत्यस्तीति क्रियापदस्यानुषङ्गः कर्त्तव्य इति तदर्थः एवश्व यत्र क्रियाविशेषाणां पुरुषविशेषाणां वचन विशेषाणाञ्च गमकं नास्ति तत्रास्तीत्येव पदमध्याहार्यम्, नामार्थस्य सत्ताऽव्यभिचारित्वादिति भावः । सति किञ्चिद्गमके मध्यमोत्तम - पुरुषयुक्तमन्यदपि क्रियापदमस्ति ज्ञापकस्य दिङ्मात्रनिदर्शकत्वादित्याह-प्रथमेति । दृष्टान्तं दर्शयति त्वमसीति । ननु 30 १ सि. क. अर्थो नियतित्वानुवचस्त इत्या० । २ सि. क. मानोपात्त० । ३ सि. क. 'नाश्रयाणामपि । ४ सि. क. तथातथा । Jain Education International 2010_04 For Private & Personal Use Only 25 www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy